१२. शान्तिपर्व
१२.१९८.१मनुरुवाच

१२.१९८.२ज्ञानं ज्ञेयाभिनिर्वृत्तं विद्धि ज्ञानगुणं मनः
प्रज्ञाकरणसंयुक्तं ततो बुद्धिः प्रवर्तते

१२.१९८.३यदा कर्मगुणोपेता बुद्धिर्मनसि वर्तते
तदा प्रज्ञायते ब्रह्म ध्यानयोगसमाधिना

१२.१९८.४सेयं गुणवती बुद्धिर्गुणेष्वेवाभिवर्तते
अवताराभिनिःस्रोतं गिरेः शृङ्गादिवोदकम्

१२.१९८.५यदा निर्गुणमाप्नोति ध्यानं मनसि पूर्वजम्
तदा प्रज्ञायते ब्रह्म निकष्यं निकषे यथा

१२.१९८.६मनस्त्वपहृतं बुद्धिमिन्द्रियार्थनिदर्शनम्
न समक्षं गुणावेक्षि निर्गुणस्य निदर्शनम्

१२.१९८.७सर्वाण्येतानि संवार्य द्वाराणि मनसि स्थितः
मनस्येकाग्रतां कृत्वा तत्परं प्रतिपद्यते

१२.१९८.८यथा महान्ति भूतानि निवर्तन्ते गुणक्षये
तथेन्द्रियाण्युपादाय बुद्धिर्मनसि वर्तते

१२.१९८.९यदा मनसि सा बुद्धिर्वर्ततेऽन्तरचारिणी
व्यवसायगुणोपेता तदा संपद्यते मनः

१२.१९८.१०गुणवद्भिर्गुणोपेतं यदा ध्यानगुणं मनः
तदा सर्वगुणान्हित्वा निर्गुणं प्रतिपद्यते

१२.१९८.११अव्यक्तस्येह विज्ञाने नास्ति तुल्यं निदर्शनम्
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात्

१२.१९८.१२तपसा चानुमानेन गुणैर्जात्या श्रुतेन च
निनीषेत्तत्परं ब्रह्म विशुद्धेनान्तरात्मना

१२.१९८.१३गुणहीनो हि तं मार्गं बहिः समनुवर्तते
गुणाभावात्प्रकृत्या च निस्तर्क्यं ज्ञेयसंमितम्

१२.१९८.१४नैर्गुण्याद्ब्रह्म चाप्नोति सगुणत्वान्निवर्तते
गुणप्रसारिणी बुद्धिर्हुताशन इवेन्धने

१२.१९८.१५यथा पञ्च विमुक्तानि इन्द्रियाणि स्वकर्मभिः
तथा तत्परमं ब्रह्म विमुक्तं प्रकृतेः परम्

१२.१९८.१६एवं प्रकृतितः सर्वे प्रभवन्ति शरीरिणः
निवर्तन्ते निवृत्तौ च सर्गं नैवोपयान्ति च

१२.१९८.१७पुरुषः प्रकृतिर्बुद्धिर्विशेषाश्चेन्द्रियाणि च
अहंकारोऽभिमानश्च संभूतो भूतसंज्ञकः

१२.१९८.१८एकस्याद्या प्रवृत्तिस्तु प्रधानात्संप्रवर्तते
द्वितीया मिथुनव्यक्तिमविशेषान्नियच्छति

१२.१९८.१९धर्मादुत्कृष्यते श्रेयस्तथाश्रेयोऽप्यधर्मतः
रागवान्प्रकृतिं ह्येति विरक्तो ज्ञानवान्भवेत्