१२.२०४.१गुरुरुवाच
१२.२०४.२चतुर्विधानि भूतानि स्थावराणि चराणि च
अव्यक्तप्रभवान्याहुरव्यक्तनिधनानि च
अव्यक्तनिधनं विद्यादव्यक्तात्मात्मकं मनः
१२.२०४.३यथाश्वत्थकणीकायामन्तर्भूतो महाद्रुमः
निष्पन्नो दृश्यते व्यक्तमव्यक्तात्संभवस्तथा
१२.२०४.४अभिद्रवत्ययस्कान्तमयो निश्चेतनावुभौ
स्वभावहेतुजा भावा यद्वदन्यदपीदृशम्
१२.२०४.५तद्वदव्यक्तजा भावाः कर्तुः कारणलक्षणाः
अचेतनाश्चेतयितुः कारणादभिसंहिताः
१२.२०४.६न भूः खं द्यौर्न भूतानि नर्षयो न सुरासुराः
नान्यदासीदृते जीवमासेदुर्न तु संहितम्
१२.२०४.७सर्वनीत्या सर्वगतं मनोहेतु सलक्षणम्
अज्ञानकर्म निर्दिष्टमेतत्कारणलक्षणम्
१२.२०४.८तत्कारणैर्हि संयुक्तं कार्यसंग्रहकारकम्
येनैतद्वर्तते चक्रमनादिनिधनं महत्
१२.२०४.९अव्यक्तनाभं व्यक्तारं विकारपरिमण्डलम्
क्षेत्रज्ञाधिष्ठितं चक्रं स्निग्धाक्षं वर्तते ध्रुवम्
१२.२०४.१०स्निग्धत्वात्तिलवत्सर्वं चक्रेऽस्मिन्पीड्यते जगत्
तिलपीडैरिवाक्रम्य भोगैरज्ञानसंभवैः
१२.२०४.११कर्म तत्कुरुते तर्षादहंकारपरिग्रहम्
कार्यकारणसंयोगे स हेतुरुपपादितः
१२.२०४.१२नात्येति कारणं कार्यं न कार्यं कारणं तथा
कार्याणां तूपकरणे कालो भवति हेतुमान्
१२.२०४.१३हेतुयुक्ताः प्रकृतयो विकाराश्च परस्परम्
अन्योन्यमभिवर्तन्ते पुरुषाधिष्ठिताः सदा
१२.२०४.१४सरजस्तामसैर्भावैश्च्युतो हेतुबलान्वितः
क्षेत्रज्ञमेवानुयाति पांसुर्वातेरितो यथा
न च तैः स्पृश्यते भावो न ते तेन महात्मना
१२.२०४.१५सरजस्कोऽरजस्कश्च स वै वायुर्यथा भवेत्
तथैतदन्तरं विद्यात्क्षेत्रक्षेत्रज्ञयोर्बुधः
अभ्यासात्स तथा युक्तो न गच्छेत्प्रकृतिं पुनः
१२.२०४.१६संदेहमेतमुत्पन्नमच्छिनद्भगवानृषिः
तथा वार्तां समीक्षेत कृतलक्षणसंमिताम्
१२.२०४.१७बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संबध्यते पुनः