१२.२०५.१गुरुरुवाच
१२.२०५.२प्रवृत्तिलक्षणो धर्मो यथायमुपपद्यते
तेषां विज्ञाननिष्ठानामन्यत्तत्त्वं न रोचते
१२.२०५.३दुर्लभा वेदविद्वांसो वेदोक्तेषु व्यवस्थिताः
प्रयोजनमतस्त्वत्र मार्गमिच्छन्ति संस्तुतम्
१२.२०५.४सद्भिराचरितत्वात्तु वृत्तमेतदगर्हितम्
इयं सा बुद्धिरन्येयं यया याति परां गतिम्
१२.२०५.५शरीरवानुपादत्ते मोहात्सर्वपरिग्रहान्
कामक्रोधादिभिर्भावैर्युक्तो राजसतामसैः
१२.२०५.६नाशुद्धमाचरेत्तस्मादभीप्सन्देहयापनम्
कर्मणो विवरं कुर्वन्न लोकानाप्नुयाच्छुभान्
१२.२०५.७लोहयुक्तं यथा हेम विपक्वं न विराजते
तथापक्वकषायाख्यं विज्ञानं न प्रकाशते
१२.२०५.८यश्चाधर्मं चरेन्मोहात्कामलोभावनु प्लवन्
धर्म्यं पन्थानमाक्रम्य सानुबन्धो विनश्यति
१२.२०५.९शब्दादीन्विषयांस्तस्मादसंरागादनुप्लवेत्
क्रोधहर्षौ विषादश्च जायन्ते हि परस्परम्
१२.२०५.१०पञ्चभूतात्मके देहे सत्त्वराजसतामसे
कमभिष्टुवते चायं कं वा क्रोशति किं वदेत्
१२.२०५.११स्पर्शरूपरसाद्येषु सङ्गं गच्छन्ति बालिशाः
नावगच्छन्त्यविज्ञानादात्मजं पार्थिवं गुणम्
१२.२०५.१२मृन्मयं शरणं यद्वन्मृदैव परिलिप्यते
पार्थिवोऽयं तथा देहो मृद्विकारैर्विलिप्यते
१२.२०५.१३मधु तैलं पयः सर्पिर्मांसानि लवणं गुडः
धान्यानि फलमूलानि मृद्विकाराः सहाम्भसा
१२.२०५.१४यद्वत्कान्तारमातिष्ठन्नौत्सुक्यं समनुव्रजेत्
श्रमादाहारमादद्यादस्वाद्वपि हि यापनम्
१२.२०५.१५तद्वत्संसारकान्तारमातिष्ठञ्श्रमतत्परः
यात्रार्थमद्यादाहारं व्याधितो भेषजं यथा
१२.२०५.१६सत्यशौचार्जवत्यागैर्यशसा विक्रमेण च
क्षान्त्या धृत्या च बुद्ध्या च मनसा तपसैव च
१२.२०५.१७भावान्सर्वान्यथावृत्तान्संवसेत यथाक्रमम्
शान्तिमिच्छन्नदीनात्मा संयच्छेदिन्द्रियाणि च
१२.२०५.१८सत्त्वेन रजसा चैव तमसा चैव मोहिताः
चक्रवत्परिवर्तन्ते ह्यज्ञानाज्जन्तवो भृशम्
१२.२०५.१९तस्मात्सम्यक्परीक्षेत दोषानज्ञानसंभवान्
अज्ञानप्रभवं नित्यमहंकारं परित्यजेत्
१२.२०५.२०महाभूतानीन्द्रियाणि गुणाः सत्त्वं रजस्तमः
त्रैलोक्यं सेश्वरं सर्वमहंकारे प्रतिष्ठितम्
१२.२०५.२१यथेह नियतं कालो दर्शयत्यार्तवान्गुणान्
तद्वद्भूतेष्वहंकारं विद्याद्भूतप्रवर्तकम्
१२.२०५.२२संमोहकं तमो विद्यात्कृष्णमज्ञानसंभवम्
प्रीतिदुःखनिबद्धांश्च समस्तांस्त्रीनथो गुणान्
सत्त्वस्य रजसश्चैव तमसश्च निबोध तान्
१२.२०५.२३प्रमोहो हर्षजः प्रीतिरसंदेहो धृतिः स्मृतिः
एतान्सत्त्वगुणान्विद्यादिमान्राजसतामसान्
१२.२०५.२४कामक्रोधौ प्रमादश्च लोभमोहौ भयं क्लमः
विषादशोकावरतिर्मानदर्पावनार्यता
१२.२०५.२५दोषाणामेवमादीनां परीक्ष्य गुरुलाघवम्
विमृशेदात्मसंस्थानामेकैकमनुसंततम्
१२.२०५.२६शिष्य उवाच
१२.२०५.२७के दोषा मनसा त्यक्ताः के बुद्ध्या शिथिलीकृताः
के पुनः पुनरायान्ति के मोहादफला इव
१२.२०५.२८केषां बलाबलं बुद्ध्या हेतुभिर्विमृशेद्बुधः
एतत्सर्वं समाचक्ष्व यथा विद्यामहं प्रभो
१२.२०५.२९गुरुरुवाच
१२.२०५.३०दोषैर्मूलादवच्छिन्नैर्विशुद्धात्मा विमुच्यते
विनाशयति संभूतमयस्मयमयो यथा
तथाकृतात्मा सहजैर्दोषैर्नश्यति राजसैः
१२.२०५.३१राजसं तामसं चैव शुद्धात्माकर्मसंभवम्
तत्सर्वं देहिनां बीजं सर्वमात्मवतः समम्
१२.२०५.३२तस्मादात्मवता वर्ज्यं रजश्च तम एव च
रजस्तमोभ्यां निर्मुक्तं सत्त्वं निर्मलतामियात्
१२.२०५.३३अथ वा मन्त्रवद्ब्रूयुर्मांसादानां यजुष्कृतम्
हेतुः स एवानादाने शुद्धधर्मानुपालने
१२.२०५.३४रजसा धर्मयुक्तानि कार्याण्यपि समाप्नुयात्
अर्थयुक्तानि चात्यर्थं कामान्सर्वांश्च सेवते
१२.२०५.३५तमसा लोभयुक्तानि क्रोधजानि च सेवते
हिंसाविहाराभिरतस्तन्द्रीनिद्रासमन्वितः
१२.२०५.३६सत्त्वस्थः सात्त्विकान्भावाञ्शुद्धान्पश्यति संश्रितः
स देही विमलः श्रीमाञ्शुद्धो विद्यासमन्वितः