१२.२०६.१गुरुरुवाच
१२.२०६.२रजसा साध्यते मोहस्तमसा च नरर्षभ
क्रोधलोभौ भयं दर्प एतेषां साधनाच्छुचिः
१२.२०६.३परमं परमात्मानं देवमक्षयमव्ययम्
विष्णुमव्यक्तसंस्थानं विशन्ते देवसत्तमम्
१२.२०६.४तस्य मायाविदग्धाङ्गा ज्ञानभ्रष्टा निराशिषः
मानवा ज्ञानसंमोहात्ततः कामं प्रयान्ति वै
१२.२०६.५कामात्क्रोधमवाप्याथ लोभमोहौ च मानवाः
मानदर्पादहंकारमहंकारात्ततः क्रियाः
१२.२०६.६क्रियाभिः स्नेहसंबन्धः स्नेहाच्छोकमनन्तरम्
सुखदुःखसमारम्भाज्जन्माजन्मकृतक्षणाः
१२.२०६.७जन्मतो गर्भवासं तु शुक्रशोणितसंभवम्
पुरीषमूत्रविक्लेदशोणितप्रभवाविलम्
१२.२०६.८तृष्णाभिभूतस्तैर्बद्धस्तानेवाभिपरिप्लवन्
संसारतन्त्रवाहिन्यस्तत्र बुध्येत योषितः
१२.२०६.९प्रकृत्या क्षेत्रभूतास्ता नराः क्षेत्रज्ञलक्षणाः
तस्मादेता विशेषेण नरोऽतीयुर्विपश्चितः
१२.२०६.१०कृत्या ह्येता घोररूपा मोहयन्त्यविचक्षणान्
रजस्यन्तर्हिता मूर्तिरिन्द्रियाणां सनातनी
१२.२०६.११तस्मात्तर्षात्मकाद्रागाद्बीजाज्जायन्ति जन्तवः
स्वदेहजानस्वसंज्ञान्यद्वदङ्गात्कृमींस्त्यजेत्
स्वसंज्ञानस्वजांस्तद्वत्सुतसंज्ञान्कृमींस्त्यजेत्
१२.२०६.१२शुक्रतो रसतश्चैव स्नेहाज्जायन्ति जन्तवः
स्वभावात्कर्मयोगाद्वा तानुपेक्षेत बुद्धिमान्
१२.२०६.१३रजस्तमसि पर्यस्तं सत्त्वं तमसि संस्थितम्
ज्ञानाधिष्ठानमज्ञानं बुद्ध्यहंकारलक्षणम्
१२.२०६.१४तद्बीजं देहिनामाहुस्तद्बीजं जीवसंज्ञितम्
कर्मणा कालयुक्तेन संसारपरिवर्तकम्
१२.२०६.१५रमत्ययं यथा स्वप्ने मनसा देहवानिव
कर्मगर्भैर्गुणैर्देही गर्भे तदुपपद्यते
१२.२०६.१६कर्मणा बीजभूतेन चोद्यते यद्यदिन्द्रियम्
जायते तदहंकाराद्रागयुक्तेन चेतसा
१२.२०६.१७शब्दरागाच्छ्रोत्रमस्य जायते भावितात्मनः
रूपरागात्तथा चक्षुर्घ्राणं गन्धचिकीर्षया
१२.२०६.१८स्पर्शनेभ्यस्तथा वायुः प्राणापानव्यपाश्रयः
व्यानोदानौ समानश्च पञ्चधा देहयापना
१२.२०६.१९संजातैर्जायते गात्रैः कर्मजैर्ब्रह्मणा वृतः
दुःखाद्यन्तैर्दुःखमध्यैर्नरः शारीरमानसैः
१२.२०६.२०दुःखं विद्यादुपादानादभिमानाच्च वर्धते
त्यागात्तेभ्यो निरोधः स्यान्निरोधज्ञो विमुच्यते
१२.२०६.२१इन्द्रियाणां रजस्येव प्रभवप्रलयावुभौ
परीक्ष्य संचरेद्विद्वान्यथावच्छास्त्रचक्षुषा
१२.२०६.२२ज्ञानेन्द्रियाणीन्द्रियार्थान्नोपसर्पन्त्यतर्षुलम्
ज्ञातैश्च कारणैर्देही न देहं पुनरर्हति