१२. शान्तिपर्व
१२.२१९.१भीष्म उवाच

१२.२१९.२अत्रैवोदाहरन्तीममितिहासं पुरातनम्
शतक्रतोश्च संवादं नमुचेश्च युधिष्ठिर

१२.२१९.३श्रिया विहीनमासीनमक्षोभ्यमिव सागरम्
भवाभवज्ञं भूतानामित्युवाच पुरंदरः

१२.२१९.४बद्धः पाशैश्च्युतः स्थानाद्द्विषतां वशमागतः
श्रिया विहीनो नमुचे शोचस्याहो न शोचसि

१२.२१९.५नमुचिरुवाच

१२.२१९.६अनवाप्यं च शोकेन शरीरं चोपतप्यते
अमित्राश्च प्रहृष्यन्ति नास्ति शोके सहायता

१२.२१९.७तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत्
संतापाद्भ्रश्यते रूपं धर्मश्चैव सुरेश्वर

१२.२१९.८विनीय खलु तद्दुःखमागतं वैमनस्यजम्
ध्यातव्यं मनसा हृद्यं कल्याणं संविजानता

१२.२१९.९यथा यथा हि पुरुषः कल्याणे कुरुते मनः
तदैवास्य प्रसीदन्ति सर्वार्था नात्र संशयः

१२.२१९.१०एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
तेनानुशिष्टः प्रवणादिवोदकं; यथा नियुक्तोऽस्मि तथा वहामि

१२.२१९.११भावाभावावभिजानन्गरीयो; जानामि श्रेयो न तु तत्करोमि
आशाः सुशर्म्याः सुहृदां सुकुर्व;न्यथा नियुक्तोऽस्मि तथा वहामि

१२.२१९.१२यथा यथास्य प्राप्तव्यं प्राप्नोत्येव तथा तथा
भवितव्यं यथा यच्च भवत्येव तथा तथा

१२.२१९.१३यत्र यत्रैव संयुङ्क्ते धाता गर्भं पुनः पुनः
तत्र तत्रैव वसति न यत्र स्वयमिच्छति

१२.२१९.१४भावो योऽयमनुप्राप्तो भवितव्यमिदं मम
इति यस्य सदा भावो न स मुह्येत्कदाचन

१२.२१९.१५पर्यायैर्हन्यमानानामभियोक्ता न विद्यते
दुःखमेतत्तु यद्द्वेष्टा कर्ताहमिति मन्यते

१२.२१९.१६ऋषींश्च देवांश्च महासुरांश्च; त्रैविद्यवृद्धांश्च वने मुनींश्च
कान्नापदो नोपनमन्ति लोके; परावरज्ञास्तु न संभ्रमन्ति

१२.२१९.१७न पण्डितः क्रुध्यति नापि सज्जते; न चापि संसीदति न प्रहृष्यति
न चार्थकृच्छ्रव्यसनेषु शोचति; स्थितः प्रकृत्या हिमवानिवाचलः

१२.२१९.१८यमर्थसिद्धिः परमा न हर्षये;त्तथैव काले व्यसनं न मोहयेत्
सुखं च दुःखं च तथैव मध्यमं; निषेवते यः स धुरंधरो नरः

१२.२१९.१९यां यामवस्थां पुरुषोऽधिगच्छे;त्तस्यां रमेतापरितप्यमानः
एवं प्रवृद्धं प्रणुदेन्मनोजं; संतापमायासकरं शरीरात्

१२.२१९.२०तत्सदः स परिषत्सभासदः; प्राप्य यो न कुरुते सभाभयम्
धर्मतत्त्वमवगाह्य बुद्धिमा;न्योऽभ्युपैति स पुमान्धुरंधरः

१२.२१९.२१प्राज्ञस्य कर्माणि दुरन्वयानि; न वै प्राज्ञो मुह्यति मोहकाले
स्थानाच्च्युतश्चेन्न मुमोह गौतम;स्तावत्कृच्छ्रामापदं प्राप्य वृद्धः

१२.२१९.२२न मन्त्रबलवीर्येण प्रज्ञया पौरुषेण वा
अलभ्यं लभते मर्त्यस्तत्र का परिदेवना

१२.२१९.२३यदेवमनुजातस्य धातारो विदधुः पुरा
तदेवानुभविष्यामि किं मे मृत्युः करिष्यति

१२.२१९.२४लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च

१२.२१९.२५एतद्विदित्वा कार्त्स्न्येन यो न मुह्यति मानवः
कुशलः सुखदुःखेषु स वै सर्वधनेश्वरः