१२. शान्तिपर्व
१२.२२०.१युधिष्ठिर उवाच

१२.२२०.२मग्नस्य व्यसने कृच्छ्रे किं श्रेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाशेऽपि वा पुनः

१२.२२०.३त्वं हि नः परमो वक्ता लोकेऽस्मिन्भरतर्षभ
एतद्भवन्तं पृच्छामि तन्मे वक्तुमिहार्हसि

१२.२२०.४भीष्म उवाच

१२.२२०.५पुत्रदारैः सुखैश्चैव वियुक्तस्य धनेन च
मग्नस्य व्यसने कृच्छ्रे धृतिः श्रेयस्करी नृप

१२.२२०.६धैर्येण युक्तस्य सतः शरीरं न विशीर्यते
आरोग्याच्च शरीरस्य स पुनर्विन्दते श्रियम्

१२.२२०.७यस्य राज्ञो नरास्तात सात्त्विकीं वृत्तिमास्थिताः
तस्य स्थैर्यं च धैर्यं च व्यवसायश्च कर्मसु

१२.२२०.८अत्रैवोदाहरन्तीममितिहासं पुरातनम्
बलिवासवसंवादं पुनरेव युधिष्ठिर

१२.२२०.९वृत्ते देवासुरे युद्धे दैत्यदानवसंक्षये
विष्णुक्रान्तेषु लोकेषु देवराजे शतक्रतौ

१२.२२०.१०इज्यमानेषु देवेषु चातुर्वर्ण्ये व्यवस्थिते
समृध्यमाने त्रैलोक्ये प्रीतियुक्ते स्वयंभुवि

१२.२२०.११रुद्रैर्वसुभिरादित्यैरश्विभ्यामपि चर्षिभिः
गन्धर्वैर्भुजगेन्द्रैश्च सिद्धैश्चान्यैर्वृतः प्रभुः

१२.२२०.१२चतुर्दन्तं सुदान्तं च वारणेन्द्रं श्रिया वृतम्
आरुह्यैरावतं शक्रस्त्रैलोक्यमनुसंययौ

१२.२२०.१३स कदाचित्समुद्रान्ते कस्मिंश्चिद्गिरिगह्वरे
बलिं वैरोचनिं वज्री ददर्शोपससर्प च

१२.२२०.१४तमैरावतमूर्धस्थं प्रेक्ष्य देवगणैर्वृतम्
सुरेन्द्रमिन्द्रं दैत्येन्द्रो न शुशोच न विव्यथे

१२.२२०.१५दृष्ट्वा तमविकारस्थं तिष्ठन्तं निर्भयं बलिम्
अधिरूढो द्विपश्रेष्ठमित्युवाच शतक्रतुः

१२.२२०.१६दैत्य न व्यथसे शौर्यादथ वा वृद्धसेवया
तपसा भावितत्वाद्वा सर्वथैतत्सुदुष्करम्

१२.२२०.१७शत्रुभिर्वशमानीतो हीनः स्थानादनुत्तमात्
वैरोचने किमाश्रित्य शोचितव्ये न शोचसि

१२.२२०.१८श्रैष्ठ्यं प्राप्य स्वजातीनां भुक्त्वा भोगाननुत्तमान्
हृतस्वबलराज्यस्त्वं ब्रूहि कस्मान्न शोचसि

१२.२२०.१९ईश्वरो हि पुरा भूत्वा पितृपैतामहे पदे
तत्त्वमद्य हृतं दृष्ट्वा सपत्नैः किं न शोचसि

१२.२२०.२०बद्धश्च वारुणैः पाशैर्वज्रेण च समाहतः
हृतदारो हृतधनो ब्रूहि कस्मान्न शोचसि

१२.२२०.२१भ्रष्टश्रीर्विभवभ्रष्टो यन्न शोचसि दुष्करम्
त्रैलोक्यराज्यनाशे हि कोऽन्यो जीवितुमुत्सहेत्

१२.२२०.२२एतच्चान्यच्च परुषं ब्रुवन्तं परिभूय तम्
श्रुत्वा सुखमसंभ्रान्तो बलिर्वैरोचनोऽब्रवीत्

१२.२२०.२३निगृहीते मयि भृशं शक्र किं कत्थितेन ते
वज्रमुद्यम्य तिष्ठन्तं पश्यामि त्वां पुरंदर

१२.२२०.२४अशक्तः पूर्वमासीस्त्वं कथंचिच्छक्ततां गतः
कस्त्वदन्य इमा वाचः सुक्रूरा वक्तुमर्हति

१२.२२०.२५यस्तु शत्रोर्वशस्थस्य शक्तोऽपि कुरुते दयाम्
हस्तप्राप्तस्य वीरस्य तं चैव पुरुषं विदुः

१२.२२०.२६अनिश्चयो हि युद्धेषु द्वयोर्विवदमानयोः
एकः प्राप्नोति विजयमेकश्चैव पराभवम्

१२.२२०.२७मा च ते भूत्स्वभावोऽयं मया दैवतपुंगव
ईश्वरः सर्वभूतानां विक्रमेण जितो बलात्

१२.२२०.२८नैतदस्मत्कृतं शक्र नैतच्छक्र त्वया कृतम्
यत्त्वमेवंगतो वज्रिन्यद्वाप्येवंगता वयम्

१२.२२०.२९अहमासं यथाद्य त्वं भविता त्वं यथा वयम्
मावमंस्था मया कर्म दुष्कृतं कृतमित्युत

१२.२२०.३०सुखदुःखे हि पुरुषः पर्यायेणाधिगच्छति
पर्यायेणासि शक्रत्वं प्राप्तः शक्र न कर्मणा

१२.२२०.३१कालः काले नयति मां त्वां च कालो नयत्ययम्
तेनाहं त्वं यथा नाद्य त्वं चापि न यथा वयम्

१२.२२०.३२न मातृपितृशुश्रूषा न च दैवतपूजनम्
नान्यो गुणसमाचारः पुरुषस्य सुखावहः

१२.२२०.३३न विद्या न तपो दानं न मित्राणि न बान्धवाः
शक्नुवन्ति परित्रातुं नरं कालेन पीडितम्

१२.२२०.३४नागामिनमनर्थं हि प्रतिघातशतैरपि
शक्नुवन्ति प्रतिव्योढुमृते बुद्धिबलान्नराः

१२.२२०.३५पर्यायैर्हन्यमानानां परित्राता न विद्यते
इदं तु दुःखं यच्छक्र कर्ताहमिति मन्यते

१२.२२०.३६यदि कर्ता भवेत्कर्ता न क्रियेत कदाचन
यस्मात्तु क्रियते कर्ता तस्मात्कर्ताप्यनीश्वरः

१२.२२०.३७कालेन त्वाहमजयं कालेनाहं जितस्त्वया
गन्ता गतिमतां कालः कालः कलयति प्रजाः

१२.२२०.३८इन्द्र प्राकृतया बुद्ध्या प्रलपन्नावबुध्यसे
केचित्त्वां बहु मन्यन्ते श्रैष्ठ्यं प्राप्तं स्वकर्मणा

१२.२२०.३९कथमस्मद्विधो नाम जानँल्लोकप्रवृत्तयः
कालेनाभ्याहतः शोचेन्मुह्येद्वाप्यर्थसंभ्रमे

१२.२२०.४०नित्यं कालपरीतस्य मम वा मद्विधस्य वा
बुद्धिर्व्यसनमासाद्य भिन्ना नौरिव सीदति

१२.२२०.४१अहं च त्वं च ये चान्ये भविष्यन्ति सुराधिपाः
ते सर्वे शक्र यास्यन्ति मार्गमिन्द्रशतैर्गतम्

१२.२२०.४२त्वामप्येवं सुदुर्धर्षं ज्वलन्तं परया श्रिया
काले परिणते कालः कालयिष्यति मामिव

१२.२२०.४३बहूनीन्द्रसहस्राणि दैतेयानां युगे युगे
अभ्यतीतानि कालेन कालो हि दुरतिक्रमः

१२.२२०.४४इदं तु लब्ध्वा त्वं स्थानमात्मानं बहु मन्यसे
सर्वभूतभवं देवं ब्रह्माणमिव शाश्वतम्

१२.२२०.४५न चेदमचलं स्थानमनन्तं वापि कस्यचित्
त्वं तु बालिशया बुद्ध्या ममेदमिति मन्यसे

१२.२२०.४६अविश्वास्ये विश्वसिषि मन्यसे चाध्रुवं ध्रुवम्
ममेयमिति मोहात्त्वं राजश्रियमभीप्ससि

१२.२२०.४७नेयं तव न चास्माकं न चान्येषां स्थिरा मता
अतिक्रम्य बहूनन्यांस्त्वयि तावदियं स्थिता

१२.२२०.४८कंचित्कालमियं स्थित्वा त्वयि वासव चञ्चला
गौर्निपानमिवोत्सृज्य पुनरन्यं गमिष्यति

१२.२२०.४९राजलोका ह्यतिक्रान्ता यान्न संख्यातुमुत्सहे
त्वत्तो बहुतराश्चान्ये भविष्यन्ति पुरंदर

१२.२२०.५०सवृक्षौषधिरत्नेयं ससरित्पर्वताकरा
तानिदानीं न पश्यामि यैर्भुक्तेयं पुरा मही

१२.२२०.५१पृथुरैलो मयो भौमो नरकः शम्बरस्तथा
अश्वग्रीवः पुलोमा च स्वर्भानुरमितध्वजः

१२.२२०.५२प्रह्रादो नमुचिर्दक्षो विप्रचित्तिर्विरोचनः
ह्रीनिषेधः सुहोत्रश्च भूरिहा पुष्पवान्वृषः

१२.२२०.५३सत्येषुरृषभो राहुः कपिलाश्वो विरूपकः
बाणः कार्तस्वरो वह्निर्विश्वदंष्ट्रोऽथ नैरृतः

१२.२२०.५४रित्थाहुत्थौ वीरताम्रौ वराहाश्वो रुचिः प्रभुः
विश्वजित्प्रतिशौरिश्च वृषाण्डो विष्करो मधुः

१२.२२०.५५हिरण्यकशिपुश्चैव कैटभश्चैव दानवः
दैत्याश्च कालखञ्जाश्च सर्वे ते नैरृतैः सह

१२.२२०.५६एते चान्ये च बहवः पूर्वे पूर्वतराश्च ये
दैत्येन्द्रा दानवेन्द्राश्च यांश्चान्याननुशुश्रुम

१२.२२०.५७बहवः पूर्वदैत्येन्द्राः संत्यज्य पृथिवीं गताः
कालेनाभ्याहताः सर्वे कालो हि बलवत्तरः

१२.२२०.५८सर्वैः क्रतुशतैरिष्टं न त्वमेकः शतक्रतुः
सर्वे धर्मपराश्चासन्सर्वे सततसत्रिणः

१२.२२०.५९अन्तरिक्षचराः सर्वे सर्वेऽभिमुखयोधिनः
सर्वे संहननोपेताः सर्वे परिघबाहवः

१२.२२०.६०सर्वे मायाशतधराः सर्वे ते कामचारिणः
सर्वे समरमासाद्य न श्रूयन्ते पराजिताः

१२.२२०.६१सर्वे सत्यव्रतपराः सर्वे कामविहारिणः
सर्वे वेदव्रतपराः सर्वे चासन्बहुश्रुताः

१२.२२०.६२सर्वे संहतमैश्वर्यमीश्वराः प्रतिपेदिरे
न चैश्वर्यमदस्तेषां भूतपूर्वो महात्मनाम्

१२.२२०.६३सर्वे यथार्थदातारः सर्वे विगतमत्सराः
सर्वे सर्वेषु भूतेषु यथावत्प्रतिपेदिरे

१२.२२०.६४सर्वे दाक्षायणीपुत्राः प्राजापत्या महाबलाः
ज्वलन्तः प्रतपन्तश्च कालेन प्रतिसंहृताः

१२.२२०.६५त्वं चैवेमां यदा भुक्त्वा पृथिवीं त्यक्ष्यसे पुनः
न शक्ष्यसि तदा शक्र नियन्तुं शोकमात्मनः

१२.२२०.६६मुञ्चेच्छां कामभोगेषु मुञ्चेमं श्रीभवं मदम्
एवं स्वराज्यनाशे त्वं शोकं संप्रसहिष्यसि

१२.२२०.६७शोककाले शुचो मा त्वं हर्षकाले च मा हृषः
अतीतानागते हित्वा प्रत्युत्पन्नेन वर्तय

१२.२२०.६८मां चेदभ्यागतः कालः सदायुक्तमतन्द्रितम्
क्षमस्व नचिरादिन्द्र त्वामप्युपगमिष्यति

१२.२२०.६९त्रासयन्निव देवेन्द्र वाग्भिस्तक्षसि मामिह
संयते मयि नूनं त्वमात्मानं बहु मन्यसे

१२.२२०.७०कालः प्रथममायान्मां पश्चात्त्वामनुधावति
तेन गर्जसि देवेन्द्र पूर्वं कालहते मयि

१२.२२०.७१को हि स्थातुमलं लोके क्रुद्धस्य मम संयुगे
कालस्तु बलवान्प्राप्तस्तेन तिष्ठसि वासव

१२.२२०.७२यत्तद्वर्षसहस्रान्तं पूर्णं भवितुमर्हति
यथा मे सर्वगात्राणि नस्वस्थानि हतौजसः

१२.२२०.७३अहमैन्द्रच्च्युतः स्थानात्त्वमिन्द्रः प्रकृतो दिवि
सुचित्रे जीवलोकेऽस्मिन्नुपास्यः कालपर्ययात्

१२.२२०.७४किं हि कृत्वा त्वमिन्द्रोऽद्य किं हि कृत्वा च्युता वयम्
कालः कर्ता विकर्ता च सर्वमन्यदकारणम्

१२.२२०.७५नाशं विनाशमैश्वर्यं सुखदुःखे भवाभवौ
विद्वान्प्राप्यैवमत्यर्थं न प्रहृष्येन्न च व्यथेत्

१२.२२०.७६त्वमेव हीन्द्र वेत्थास्मान्वेदाहं त्वां च वासव
विकत्थसे मां किं बद्धं कालेन निरपत्रप

१२.२२०.७७त्वमेव हि पुरा वेत्थ यत्तदा पौरुषं मम
समरेषु च विक्रान्तं पर्याप्तं तन्निदर्शनम्

१२.२२०.७८आदित्याश्चैव रुद्राश्च साध्याश्च वसुभिः सह
मया विनिर्जिताः सर्वे मरुतश्च शचीपते

१२.२२०.७९त्वमेव शक्र जानासि देवासुरसमागमे
समेता विबुधा भग्नास्तरसा समरे मया

१२.२२०.८०पर्वताश्चासकृत्क्षिप्ताः सवनाः सवनौकसः
सटङ्कशिखरा घोराः समरे मूर्ध्नि ते मया

१२.२२०.८१किं नु शक्यं मया कर्तुं यत्कालो दुरतिक्रमः
न हि त्वां नोत्सहे हन्तुं सवज्रमपि मुष्टिना

१२.२२०.८२न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः
तेन त्वा मर्षये शक्र दुर्मर्षणतरस्त्वया

१२.२२०.८३त्वं मा परिणते काले परीतं कालवह्निना
नियतं कालपाशेन बद्धं शक्र विकत्थसे

१२.२२०.८४अयं स पुरुषः श्यामो लोकस्य दुरतिक्रमः
बद्ध्वा तिष्ठति मां रौद्रः पशुं रशनया यथा

१२.२२०.८५लाभालाभौ सुखं दुःखं कामक्रोधौ भवाभवौ
वधो बन्धः प्रमोक्षश्च सर्वं कालेन लभ्यते

१२.२२०.८६नाहं कर्ता न कर्ता त्वं कर्ता यस्तु सदा प्रभुः
सोऽयं पचति कालो मां वृक्षे फलमिवागतम्

१२.२२०.८७यान्येव पुरुषः कुर्वन्सुखैः कालेन युज्यते
पुनस्तान्येव कुर्वाणो दुःखैः कालेन युज्यते

१२.२२०.८८न च कालेन कालज्ञः स्पृष्टः शोचितुमर्हति
तेन शक्र न शोचामि नास्ति शोके सहायता

१२.२२०.८९यदा हि शोचतां शोको व्यसनं नापकर्षति
सामर्थ्यं शोचतो नास्ति नाद्य शोचाम्यहं ततः

१२.२२०.९०एवमुक्तः सहस्राक्षो भगवान्पाकशासनः
प्रतिसंहृत्य संरम्भमित्युवाच शतक्रतुः

१२.२२०.९१सवज्रमुद्यतं बाहुं दृष्ट्वा पाशांश्च वारुणान्
कस्येह न व्यथेद्बुद्धिर्मृत्योरपि जिघांसतः

१२.२२०.९२सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
ब्रुवन्न व्यथसे स त्वं वाक्यं सत्यपराक्रम

१२.२२०.९३को हि विश्वासमर्थेषु शरीरे वा शरीरभृत्
कर्तुमुत्सहते लोके दृष्ट्वा संप्रस्थितं जगत्

१२.२२०.९४अहमप्येवमेवैनं लोकं जानाम्यशाश्वतम्
कालाग्नावाहितं घोरे गुह्ये सततगेऽक्षरे

१२.२२०.९५न चात्र परिहारोऽस्ति कालस्पृष्टस्य कस्यचित्
सूक्ष्माणां महतां चैव भूतानां परिपच्यताम्

१२.२२०.९६अनीशस्याप्रमत्तस्य भूतानि पचतः सदा
अनिवृत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते

१२.२२०.९७अप्रमत्तः प्रमत्तेषु कालो जागर्ति देहिषु
प्रयत्नेनाप्यतिक्रान्तो दृष्टपूर्वो न केनचित्

१२.२२०.९८पुराणः शाश्वतो धर्मः सर्वप्राणभृतां समः
कालो न परिहार्यश्च न चास्यास्ति व्यतिक्रमः

१२.२२०.९९अहोरात्रांश्च मासांश्च क्षणान्काष्ठाः कला लवान्
संपिण्डयति नः कालो वृद्धिं वार्धुषिको यथा

१२.२२०.१००इदमद्य करिष्यामि श्वः कर्तास्मीति वादिनम्
कालो हरति संप्राप्तो नदीवेग इवोडुपम्

१२.२२०.१०१इदानीं तावदेवासौ मया दृष्टः कथं मृतः
इति कालेन ह्रियतां प्रलापः श्रूयते नृणाम्

१२.२२०.१०२नश्यन्त्यर्थास्तथा भोगाः स्थानमैश्वर्यमेव च
अनित्यमध्रुवं सर्वं व्यवसायो हि दुष्करः
उच्छ्राया विनिपातान्ता भावोऽभावस्थ एव च

१२.२२०.१०३सा ते न व्यथते बुद्धिरचला तत्त्वदर्शिनी
अहमासं पुरा चेति मनसापि न बुध्यसे

१२.२२०.१०४कालेनाक्रम्य लोकेऽस्मिन्पच्यमाने बलीयसा
अज्येष्ठमकनिष्ठं च क्षिप्यमाणो न बुध्यसे

१२.२२०.१०५ईर्ष्याभिमानलोभेषु कामक्रोधभयेषु च
स्पृहामोहाभिमानेषु लोकः सक्तो विमुह्यति

१२.२२०.१०६भवांस्तु भावतत्त्वज्ञो विद्वाञ्ज्ञानतपोन्वितः
कालं पश्यति सुव्यक्तं पाणावामलकं यथा

१२.२२०.१०७कालचारित्रतत्त्वज्ञः सर्वशास्त्रविशारदः
वैरोचने कृतात्मासि स्पृहणीयो विजानताम्

१२.२२०.१०८सर्वलोको ह्ययं मन्ये बुद्ध्या परिगतस्त्वया
विहरन्सर्वतोमुक्तो न क्वचित्परिषज्जसे

१२.२२०.१०९रजश्च हि तमश्च त्वा स्पृशतो न जितेन्द्रियम्
निष्प्रीतिं नष्टसंतापं त्वमात्मानमुपाससे

१२.२२०.११०सुहृदं सर्वभूतानां निर्वैरं शान्तमानसम्
दृष्ट्वा त्वां मम संजाता त्वय्यनुक्रोशिनी मतिः

१२.२२०.१११नाहमेतादृशं बुद्धं हन्तुमिच्छामि बन्धने
आनृशंस्यं परो धर्मो अनुक्रोशस्तथा त्वयि

१२.२२०.११२मोक्ष्यन्ते वारुणाः पाशास्तवेमे कालपर्ययात्
प्रजानामपचारेण स्वस्ति तेऽस्तु महासुर

१२.२२०.११३यदा श्वश्रूं स्नुषा वृद्धां परिचारेण योक्ष्यते
पुत्रश्च पितरं मोहात्प्रेषयिष्यति कर्मसु

१२.२२०.११४ब्राह्मणैः कारयिष्यन्ति वृषलाः पादधावनम्
शूद्राश्च ब्राह्मणीं भार्यामुपयास्यन्ति निर्भयाः

१२.२२०.११५वियोनिषु च बीजानि मोक्ष्यन्ते पुरुषा यदा
संकरं कांस्यभाण्डैश्च बलिं चापि कुपात्रकैः

१२.२२०.११६चातुर्वर्ण्यं यदा कृत्स्नमुन्मर्यादं भविष्यति
एकैकस्ते तदा पाशः क्रमशः प्रतिमोक्ष्यते

१२.२२०.११७अस्मत्तस्ते भयं नास्ति समयं प्रतिपालय
सुखी भव निराबाधः स्वस्थचेता निरामयः

१२.२२०.११८तमेवमुक्त्वा भगवाञ्शतक्रतुः; प्रतिप्रयातो गजराजवाहनः
विजित्य सर्वानसुरान्सुराधिपो; ननन्द हर्षेण बभूव चैकराट्

१२.२२०.११९महर्षयस्तुष्टुवुरञ्जसा च तं; वृषाकपिं सर्वचराचरेश्वरम्
हिमापहो हव्यमुदावहंस्त्वरं;स्तथामृतं चार्पितमीश्वराय ह

१२.२२०.१२०द्विजोत्तमैः सर्वगतैरभिष्टुतो; विदीप्ततेजा गतमन्युरीश्वरः
प्रशान्तचेता मुदितः स्वमालयं; त्रिविष्टपं प्राप्य मुमोद वासवः