१२. शान्तिपर्व
१२.२२१.१युधिष्ठिर उवाच

१२.२२१.२पूर्वरूपाणि मे राजन्पुरुषस्य भविष्यतः
पराभविष्यतश्चैव त्वं मे ब्रूहि पितामह

१२.२२१.३भीष्म उवाच

१२.२२१.४मन एव मनुष्यस्य पूर्वरूपाणि शंसति
भविष्यतश्च भद्रं ते तथैव नभविष्यतः

१२.२२१.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
श्रिया शक्रस्य संवादं तन्निबोध युधिष्ठिर

१२.२२१.६महतस्तपसो व्युष्ट्या पश्यँल्लोकौ परावरौ
सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः

१२.२२१.७ब्रह्मैवामितदीप्तौजाः शान्तपाप्मा महातपाः
विचचार यथाकामं त्रिषु लोकेषु नारदः

१२.२२१.८कदाचित्प्रातरुत्थाय पिस्पृक्षुः सलिलं शुचि
ध्रुवद्वारभवां गङ्गां जगामावततार च

१२.२२१.९सहस्रनयनश्चापि वज्री शम्बरपाकहा
तस्या देवर्षिजुष्टायास्तीरमभ्याजगाम ह

१२.२२१.१०तावाप्लुत्य यतात्मानौ कृतजप्यौ समासतुः
नद्याः पुलिनमासाद्य सूक्ष्मकाञ्चनवालुकम्

१२.२२१.११पुण्यकर्मभिराख्याता देवर्षिकथिताः कथाः
चक्रतुस्तौ कथाशीलौ शुचिसंहृष्टमानसौ
पूर्ववृत्तव्यपेतानि कथयन्तौ समाहितौ

१२.२२१.१२अथ भास्करमुद्यन्तं रश्मिजालपुरस्कृतम्
पूर्णमण्डलमालोक्य तावुत्थायोपतस्थतुः

१२.२२१.१३अभितस्तूदयन्तं तमर्कमर्कमिवापरम्
आकाशे ददृशे ज्योतिरुद्यतार्चिःसमप्रभम्

१२.२२१.१४तयोः समीपं संप्राप्तं प्रत्यदृश्यत भारत
तत्सुपर्णार्कचरितमास्थितं वैष्णवं पदम्
भाभिरप्रतिमं भाति त्रैलोक्यमवभासयत्

१२.२२१.१५दिव्याभिरूपशोभाभिरप्सरोभिः पुरस्कृताम्
बृहतीमंशुमत्प्रख्यां बृहद्भानोरिवार्चिषम्

१२.२२१.१६नक्षत्रकल्पाभरणां ताराभक्तिसमस्रजम्
श्रियं ददृशतुः पद्मां साक्षात्पद्मतलस्थिताम्

१२.२२१.१७सावरुह्य विमानाग्रादङ्गनानामनुत्तमा
अभ्यगच्छत्त्रिलोकेशं शक्रं चर्षिं च नारदम्

१२.२२१.१८नारदानुगतः साक्षान्मघवांस्तामुपागमत्
कृताञ्जलिपुटो देवीं निवेद्यात्मानमात्मना

१२.२२१.१९चक्रे चानुपमां पूजां तस्याश्चापि स सर्ववित्
देवराजः श्रियं राजन्वाक्यं चेदमुवाच ह

१२.२२१.२०का त्वं केन च कार्येण संप्राप्ता चारुहासिनि
कुतश्चागम्यते सुभ्रु गन्तव्यं क्व च ते शुभे

१२.२२१.२१श्रीरुवाच

१२.२२१.२२पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः
ममात्मभावमिच्छन्तो यतन्ते परमात्मना

१२.२२१.२३साहं वै पङ्कजे जाता सूर्यरश्मिविबोधिते
भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी

१२.२२१.२४अहं लक्ष्मीरहं भूतिः श्रीश्चाहं बलसूदन
अहं श्रद्धा च मेधा च सन्नतिर्विजितिः स्थितिः

१२.२२१.२५अहं धृतिरहं सिद्धिरहं त्विड्भूतिरेव च
अहं स्वाहा स्वधा चैव संस्तुतिर्नियतिः कृतिः

१२.२२१.२६राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु च
निवासे धर्मशीलानां विषयेषु पुरेषु च

१२.२२१.२७जितकाशिनि शूरे च संग्रामेष्वनिवर्तिनि
निवसामि मनुष्येन्द्रे सदैव बलसूदन

१२.२२१.२८धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि
प्रश्रिते दानशीले च सदैव निवसाम्यहम्

१२.२२१.२९असुरेष्ववसं पूर्वं सत्यधर्मनिबन्धना
विपरीतांस्तु तान्बुद्ध्वा त्वयि वासमरोचयम्

१२.२२१.३०शक्र उवाच

१२.२२१.३१कथंवृत्तेषु दैत्येषु त्वमवात्सीर्वरानने
दृष्ट्वा च किमिहागास्त्वं हित्वा दैतेयदानवान्

१२.२२१.३२श्रीरुवाच

१२.२२१.३३स्वधर्ममनुतिष्ठत्सु धैर्यादचलितेषु च
स्वर्गमार्गाभिरामेषु सत्त्वेषु निरता ह्यहम्

१२.२२१.३४दानाध्ययनयज्ञेज्या गुरुदैवतपूजनम्
विप्राणामतिथीनां च तेषां नित्यमवर्तत

१२.२२१.३५सुसंमृष्टगृहाश्चासञ्जितस्त्रीका हुताग्नयः
गुरुशुश्रूषवो दान्ता ब्रह्मण्याः सत्यवादिनः

१२.२२१.३६श्रद्दधाना जितक्रोधा दानशीलानसूयकाः
भृतपुत्रा भृतामात्या भृतदारा ह्यनीर्षवः

१२.२२१.३७अमर्षणा न चान्योन्यं स्पृहयन्ति कदाचन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः

१२.२२१.३८दातारः संगृहीतार आर्याः करुणवेदिनः
महाप्रसादा ऋजवो दृढभक्ता जितेन्द्रियाः

१२.२२१.३९संतुष्टभृत्यसचिवाः कृतज्ञाः प्रियवादिनः
यथार्थमानार्थकरा ह्रीनिषेधा यतव्रताः

१२.२२१.४०नित्यं पर्वसु सुस्नाताः स्वनुलिप्ताः स्वलंकृताः
उपवासतपःशीलाः प्रतीता ब्रह्मवादिनः

१२.२२१.४१नैनानभ्युदियात्सूर्यो न चाप्यासन्प्रगेनिशाः
रात्रौ दधि च सक्तूंश्च नित्यमेव व्यवर्जयन्

१२.२२१.४२काल्यं घृतं चान्ववेक्षन्प्रयता ब्रह्मचारिणः
मङ्गलानपि चापश्यन्ब्राह्मणांश्चाप्यपूजयन्

१२.२२१.४३सदा हि ददतां धर्मः सदा चाप्रतिगृह्णताम्
अर्धं च रात्र्याः स्वपतां दिवा चास्वपतां तथा

१२.२२१.४४कृपणानाथवृद्धानां दुर्बलातुरयोषिताम्
दायं च संविभागं च नित्यमेवानुमोदताम्

१२.२२१.४५विषण्णं त्रस्तमुद्विग्नं भयार्तं व्याधिपीडितम्
हृतस्वं व्यसनार्तं च नित्यमाश्वासयन्ति ते

१२.२२१.४६धर्ममेवान्ववर्तन्त न हिंसन्ति परस्परम्
अनुकूलाश्च कार्येषु गुरुवृद्धोपसेविनः

१२.२२१.४७पितृदेवातिथींश्चैव यथावत्तेऽभ्यपूजयन्
अवशेषाणि चाश्नन्ति नित्यं सत्यतपोरताः

१२.२२१.४८नैकेऽश्नन्ति सुसंपन्नं न गच्छन्ति परस्त्रियम्
सर्वभूतेष्ववर्तन्त यथात्मनि दयां प्रति

१२.२२१.४९नैवाकाशे न पशुषु नायोनौ न च पर्वसु
इन्द्रियस्य विसर्गं तेऽरोचयन्त कदाचन

१२.२२१.५०नित्यं दानं तथा दाक्ष्यमार्जवं चैव नित्यदा
उत्साहश्चानहंकारः परमं सौहृदं क्षमा

१२.२२१.५१सत्यं दानं तपः शौचं कारुण्यं वागनिष्ठुरा
मित्रेषु चानभिद्रोहः सर्वं तेष्वभवत्प्रभो

१२.२२१.५२निद्रा तन्द्रीरसंप्रीतिरसूया चानवेक्षिता
अरतिश्च विषादश्च न स्पृहा चाविशन्त तान्

१२.२२१.५३साहमेवंगुणेष्वेव दानवेष्ववसं पुरा
प्रजासर्गमुपादाय नैकं युगविपर्ययम्

१२.२२१.५४ततः कालविपर्यासे तेषां गुणविपर्ययात्
अपश्यं विगतं धर्मं कामक्रोधवशात्मनाम्

१२.२२१.५५सभासदां ते वृद्धानां सत्याः कथयतां कथाः
प्राहसन्नभ्यसूयंश्च सर्ववृद्धान्गुणावराः

१२.२२१.५६यूनः सहसमासीनान्वृद्धानभिगतान्सतः
नाभ्युत्थानाभिवादाभ्यां यथापूर्वमपूजयन्

१२.२२१.५७वर्तयन्त्येव पितरि पुत्राः प्रभवताऽऽत्मनः
अमित्रभृत्यतां प्राप्य ख्यापयन्तोऽनपत्रपाः

१२.२२१.५८तथा धर्मादपेतेन कर्मणा गर्हितेन ये
महतः प्राप्नुवन्त्यर्थांस्तेष्वेषामभवत्स्पृहा

१२.२२१.५९उच्चैश्चाप्यवदन्रात्रौ नीचैस्तत्राग्निरज्वलत्
पुत्राः पितॄनभ्यवदन्भार्याश्चाभ्यवदन्पतीन्

१२.२२१.६०मातरं पितरं वृद्धमाचार्यमतिथिं गुरुम्
गुरुवन्नाभ्यनन्दन्त कुमारान्नान्वपालयन्

१२.२२१.६१भिक्षां बलिमदत्त्वा च स्वयमन्नानि भुञ्जते
अनिष्ट्वा संविभज्याथ पितृदेवातिथीन्गुरून्

१२.२२१.६२न शौचमनुरुध्यन्त तेषां सूदजनास्तथा
मनसा कर्मणा वाचा भक्तमासीदनावृतम्

१२.२२१.६३विप्रकीर्णानि धान्यानि काकमूषकभोजनम्
अपावृतं पयोऽतिष्ठदुच्छिष्टाश्चास्पृशन्घृतम्

१२.२२१.६४कुद्दालपाटीपिटकं प्रकीर्णं कांस्यभाजनम्
द्रव्योपकरणं सर्वं नान्ववैक्षत्कुटुम्बिनी

१२.२२१.६५प्राकारागारविध्वंसान्न स्म ते प्रतिकुर्वते
नाद्रियन्ते पशून्बद्ध्वा यवसेनोदकेन च

१२.२२१.६६बालानां प्रेक्षमाणानां स्वयं भक्षानभक्षयन्
तथा भृत्यजनं सर्वं पर्यश्नन्ति च दानवाः

१२.२२१.६७पायसं कृसरं मांसमपूपानथ शष्कुलीः
अपाचयन्नात्मनोऽर्थे वृथामांसान्यभक्षयन्

१२.२२१.६८उत्सूर्यशायिनश्चासन्सर्वे चासन्प्रगेनिशाः
अवर्तन्कलहाश्चात्र दिवारात्रं गृहे गृहे

१२.२२१.६९अनार्याश्चार्यमासीनं पर्युपासन्न तत्र ह
आश्रमस्थान्विकर्मस्थाः प्रद्विषन्ति परस्परम्
संकराश्चाप्यवर्तन्त न च शौचमवर्तत

१२.२२१.७०ये च वेदविदो विप्रा विस्पष्टमनृचश्च ये
निरन्तरविशेषास्ते बहुमानावमानयोः

१२.२२१.७१हावमाभरणं वेषं गतिं स्थितिमवेक्षितुम्
असेवन्त भुजिष्या वै दुर्जनाचरितं विधिम्

१२.२२१.७२स्त्रियः पुरुषवेषेण पुंसः स्त्रीवेषधारिणः
क्रीडारतिविहारेषु परां मुदमवाप्नुवन्

१२.२२१.७३प्रभवद्भिः पुरा दायानर्हेभ्यः प्रतिपादितान्
नाभ्यवर्तन्त नास्तिक्याद्वर्तन्तः संभवेष्वपि

१२.२२१.७४मित्रेणाभ्यर्थितं मित्रमर्थे संशयिते क्वचित्
वालकोट्यग्रमात्रेण स्वार्थेनाघ्नत तद्वसु

१२.२२१.७५परस्वादानरुचयो विपण्यव्यवहारिणः
अदृश्यन्तार्यवर्णेषु शूद्राश्चापि तपोधनाः

१२.२२१.७६अधीयन्तेऽव्रताः केचिद्वृथाव्रतमथापरे
अशुश्रूषुर्गुरोः शिष्यः कश्चिच्छिष्यसखो गुरुः

१२.२२१.७७पिता चैव जनित्री च श्रान्तौ वृत्तोत्सवाविव
अप्रभुत्वे स्थितौ वृद्धावन्नं प्रार्थयतः सुतान्

१२.२२१.७८तत्र वेदविदः प्राज्ञा गाम्भीर्ये सागरोपमाः
कृष्यादिष्वभवन्सक्ता मूर्खाः श्राद्धान्यभुञ्जत

१२.२२१.७९प्रातः प्रातश्च सुप्रश्नं कल्पनं प्रेषणक्रियाः
शिष्यानुप्रहितास्तस्मिन्नकुर्वन्गुरवश्च ह

१२.२२१.८०श्वश्रूश्वशुरयोरग्रे वधूः प्रेष्यानशासत
अन्वशासच्च भर्तारं समाहूयाभिजल्पती

१२.२२१.८१प्रयत्नेनापि चारक्षच्चित्तं पुत्रस्य वै पिता
व्यभजंश्चापि संरम्भाद्दुःखवासं तथावसन्

१२.२२१.८२अग्निदाहेन चोरैर्वा राजभिर्वा हृतं धनम्
दृष्ट्वा द्वेषात्प्राहसन्त सुहृत्संभाविता ह्यपि

१२.२२१.८३कृतघ्ना नास्तिकाः पापा गुरुदाराभिमर्शिनः
अभक्ष्यभक्षणरता निर्मर्यादा हतत्विषः

१२.२२१.८४तेष्वेवमादीनाचारानाचरत्सु विपर्यये
नाहं देवेन्द्र वत्स्यामि दानवेष्विति मे मतिः

१२.२२१.८५तां मां स्वयमनुप्राप्तामभिनन्द शचीपते
त्वयार्चितां मां देवेश पुरोधास्यन्ति देवताः

१२.२२१.८६यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः
सप्त देव्यो मयाष्टम्यो वासं चेष्यन्ति मेऽष्टधा

१२.२२१.८७आशा श्रद्धा धृतिः कान्तिर्विजितिः सन्नतिः क्षमा
अष्टमी वृत्तिरेतासां पुरोगा पाकशासन

१२.२२१.८८ताश्चाहं चासुरांस्त्यक्त्वा युष्मद्विषयमागता
त्रिदशेषु निवत्स्यामो धर्मनिष्ठान्तरात्मसु

१२.२२१.८९भीष्म उवाच

१२.२२१.९०इत्युक्तवचनां देवीमत्यर्थं तौ ननन्दतुः
नारदश्च त्रिलोकर्षिर्वृत्रहन्ता च वासवः

१२.२२१.९१ततोऽनलसखो वायुः प्रववौ देववेश्मसु
इष्टगन्धः सुखस्पर्शः सर्वेन्द्रियसुखावहः

१२.२२१.९२शुचौ चाभ्यर्चिते देशे त्रिदशाः प्रायशः स्थिताः
लक्ष्म्या सहितमासीनं मघवन्तं दिदृक्षवः

१२.२२१.९३ततो दिवं प्राप्य सहस्रलोचनः; श्रियोपपन्नः सुहृदा सुरर्षिणा
रथेन हर्यश्वयुजा सुरर्षभः; सदः सुराणामभिसत्कृतो ययौ

१२.२२१.९४अथेङ्गितं वज्रधरस्य नारदः; श्रियाश्च देव्या मनसा विचारयन्
श्रियै शशंसामरदृष्टपौरुषः; शिवेन तत्रागमनं महर्द्धिमत्

१२.२२१.९५ततोऽमृतं द्यौः प्रववर्ष भास्वती; पितामहस्यायतने स्वयंभुवः
अनाहता दुन्दुभयश्च नेदिरे; तथा प्रसन्नाश्च दिशश्चकाशिरे

१२.२२१.९६यथर्तु सस्येषु ववर्ष वासवो; न धर्ममार्गाद्विचचाल कश्चन
अनेकरत्नाकरभूषणा च भूः; सुघोषघोषा भुवनौकसां जये

१२.२२१.९७क्रियाभिरामा मनुजा यशस्विनो; बभुः शुभे पुण्यकृतां पथि स्थिताः
नरामराः किंनरयक्षराक्षसाः; समृद्धिमन्तः सुखिनो यशस्विनः

१२.२२१.९८न जात्वकाले कुसुमं कुतः फलं; पपात वृक्षात्पवनेरितादपि
रसप्रदाः कामदुघाश्च धेनवो; न दारुणा वाग्विचचार कस्यचित्

१२.२२१.९९इमां सपर्यां सह सर्वकामदैः; श्रियाश्च शक्रप्रमुखैश्च दैवतैः
पठन्ति ये विप्रसदः समागमे; समृद्धकामाः श्रियमाप्नुवन्ति ते

१२.२२१.१००त्वया कुरूणां वर यत्प्रचोदितं; भवाभवस्येह परं निदर्शनम्
तदद्य सर्वं परिकीर्तितं मया; परीक्ष्य तत्त्वं परिगन्तुमर्हसि