१२.२२२.१युधिष्ठिर उवाच
१२.२२२.२किंशीलः किंसमाचारः किंविद्यः किंपरायणः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
१२.२२२.३भीष्म उवाच
१२.२२२.४मोक्षधर्मेषु नियतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
१२.२२२.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
जैगीषव्यस्य संवादमसितस्य च भारत
१२.२२२.६जैगीषव्यं महाप्राज्ञं धर्माणामागतागमम्
अक्रुध्यन्तमहृष्यन्तमसितो देवलोऽब्रवीत्
१२.२२२.७न प्रीयसे वन्द्यमानो निन्द्यमानो न कुप्यसि
का ते प्रज्ञा कुतश्चैषा किं चैतस्याः परायणम्
१२.२२२.८इति तेनानुयुक्तः स तमुवाच महातपाः
महद्वाक्यमसंदिग्धं पुष्कलार्थपदं शुचि
१२.२२२.९या गतिर्या परा निष्ठा या शान्तिः पुण्यकर्मणाम्
तां तेऽहं संप्रवक्ष्यामि यन्मां पृच्छसि वै द्विज
१२.२२२.१०निन्दत्सु च समो नित्यं प्रशंसत्सु च देवल
निह्नुवन्ति च ये तेषां समयं सुकृतं च ये
१२.२२२.११उक्ताश्च न विवक्षन्ति वक्तारमहिते रतम्
प्रतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः
१२.२२२.१२नाप्राप्तमनुशोचन्ति प्राप्तकालानि कुर्वते
न चातीतानि शोचन्ति न चैनान्प्रतिजानते
१२.२२२.१३संप्राप्तानां च पूज्यानां कामादर्थेषु देवल
यथोपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः
१२.२२२.१४पक्वविद्या महाप्राज्ञा जितक्रोधा जितेन्द्रियाः
मनसा कर्मणा वाचा नापराध्यन्ति कस्यचित्
१२.२२२.१५अनीर्षवो न चान्योन्यं विहिंसन्ति कदाचन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः
१२.२२२.१६निन्दाप्रशंसे चात्यर्थं न वदन्ति परस्य ये
न च निन्दाप्रशंसाभ्यां विक्रियन्ते कदाचन
१२.२२२.१७सर्वतश्च प्रशान्ता ये सर्वभूतहिते रताः
न क्रुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्यचित्
विमुच्य हृदयग्रन्थींश्चङ्क्रम्यन्ते यथासुखम्
१२.२२२.१८न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः
अमित्राश्च न सन्त्येषां ये चामित्रा न कस्यचित्
१२.२२२.१९य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा
धर्ममेवानुवर्तन्ते धर्मज्ञा द्विजसत्तम
ये ह्यतो विच्युता मार्गात्ते हृष्यन्त्युद्विजन्ति च
१२.२२२.२०आस्थितस्तमहं मार्गमसूयिष्यामि कं कथम्
निन्द्यमानः प्रशस्तो वा हृष्येयं केन हेतुना
१२.२२२.२१यद्यदिच्छन्ति तन्मार्गमभिगच्छन्ति मानवाः
न मे निन्दाप्रशंसाभ्यां ह्रासवृद्धी भविष्यतः
१२.२२२.२२अमृतस्येव संतृप्येदवमानस्य तत्त्ववित्
विषस्येवोद्विजेन्नित्यं संमानस्य विचक्षणः
१२.२२२.२३अवज्ञातः सुखं शेते इह चामुत्र चोभयोः
विमुक्तः सर्वपापेभ्यो योऽवमन्ता स बध्यते
१२.२२२.२४परां गतिं च ये केचित्प्रार्थयन्ति मनीषिणः
एतद्व्रतं समाश्रित्य सुखमेधन्ति ते जनाः
१२.२२२.२५सर्वतश्च समाहृत्य क्रतून्सर्वाञ्जितेन्द्रियः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
१२.२२२.२६नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः
पदमन्ववरोहन्ति प्राप्तस्य परमां गतिम्