१२.२२३.१युधिष्ठिर उवाच
१२.२२३.२प्रियः सर्वस्य लोकस्य सर्वसत्त्वाभिनन्दिता
गुणैः सर्वैरुपेतश्च को न्वस्ति भुवि मानवः
१२.२२३.३भीष्म उवाच
१२.२२३.४अत्र ते वर्तयिष्यामि पृच्छतो भरतर्षभ
उग्रसेनस्य संवादं नारदे केशवस्य च
१२.२२३.५उग्रसेन उवाच
१२.२२३.६पश्य संकल्पते लोको नारदस्य प्रकीर्तने
मन्ये स गुणसंपन्नो ब्रूहि तन्मम पृच्छतः
१२.२२३.७वासुदेव उवाच
१२.२२३.८कुकुराधिप यान्मन्ये शृणु तान्मे विवक्षतः
नारदस्य गुणान्साधून्संक्षेपेण नराधिप
१२.२२३.९न चारित्रनिमित्तोऽस्याहंकारो देहपातनः
अभिन्नश्रुतचारित्रस्तस्मात्सर्वत्र पूजितः
१२.२२३.१०तपस्वी नारदो बाढं वाचि नास्य व्यतिक्रमः
कामाद्वा यदि वा लोभात्तस्मात्सर्वत्र पूजितः
१२.२२३.११अध्यात्मविधितत्त्वज्ञः क्षान्तः शक्तो जितेन्द्रियः
ऋजुश्च सत्यवादी च तस्मात्सर्वत्र पूजितः
१२.२२३.१२तेजसा यशसा बुद्ध्या नयेन विनयेन च
जन्मना तपसा वृद्धस्तस्मात्सर्वत्र पूजितः
१२.२२३.१३सुखशीलः सुसंभोगः सुभोज्यः स्वादरः शुचिः
सुवाक्यश्चाप्यनीर्ष्यश्च तस्मात्सर्वत्र पूजितः
१२.२२३.१४कल्याणं कुरुते बाढं पापमस्मिन्न विद्यते
न प्रीयते परानर्थैस्तस्मात्सर्वत्र पूजितः
१२.२२३.१५वेदश्रुतिभिराख्यानैरर्थानभिजिगीषते
तितिक्षुरनवज्ञश्च तस्मात्सर्वत्र पूजितः
१२.२२३.१६समत्वाद्धि प्रियो नास्ति नाप्रियश्च कथंचन
मनोनुकूलवादी च तस्मात्सर्वत्र पूजितः
१२.२२३.१७बहुश्रुतश्चैत्रकथः पण्डितोऽनलसोऽशठः
अदीनोऽक्रोधनोऽलुब्धस्तस्मात्सर्वत्र पूजितः
१२.२२३.१८नार्थे न धर्मे कामे वा भूतपूर्वोऽस्य विग्रहः
दोषाश्चास्य समुच्छिन्नास्तस्मात्सर्वत्र पूजितः
१२.२२३.१९दृढभक्तिरनिन्द्यात्मा श्रुतवाननृशंसवान्
वीतसंमोहदोषश्च तस्मात्सर्वत्र पूजितः
१२.२२३.२०असक्तः सर्वसङ्गेषु सक्तात्मेव च लक्ष्यते
अदीर्घसंशयो वाग्मी तस्मात्सर्वत्र पूजितः
१२.२२३.२१समाधिर्नास्य मानार्थे नात्मानं स्तौति कर्हिचित्
अनीर्ष्युर्दृढसंभाषस्तस्मात्सर्वत्र पूजितः
१२.२२३.२२लोकस्य विविधं वृत्तं प्रकृतेश्चाप्यकुत्सयन्
संसर्गविद्याकुशलस्तस्मात्सर्वत्र पूजितः
१२.२२३.२३नासूयत्यागमं कंचित्स्वं तपो नोपजीवति
अवन्ध्यकालो वश्यात्मा तस्मात्सर्वत्र पूजितः
१२.२२३.२४कृतश्रमः कृतप्रज्ञो न च तृप्तः समाधितः
नियमस्थोऽप्रमत्तश्च तस्मात्सर्वत्र पूजितः
१२.२२३.२५सापत्रपश्च युक्तश्च सुनेयः श्रेयसे परैः
अभेत्ता परगुह्यानां तस्मात्सर्वत्र पूजितः
१२.२२३.२६न हृष्यत्यर्थलाभेषु नालाभेषु व्यथत्यपि
स्थिरबुद्धिरसक्तात्मा तस्मात्सर्वत्र पूजितः
१२.२२३.२७तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम्
कालज्ञं च नयज्ञं च कः प्रियं न करिष्यति