१२.२२४.१युधिष्ठिर उवाच
१२.२२४.२आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव
ध्यानं कर्म च कालं च तथैवायुर्युगे युगे
१२.२२४.३लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्
सर्गश्च निधनं चैव कुत एतत्प्रवर्तते
१२.२२४.४यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर
एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे
१२.२२४.५पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्
भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा
१२.२२४.६जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता
ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति
१२.२२४.७भीष्म उवाच
१२.२२४.८अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते
१२.२२४.९अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा
अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्
१२.२२४.१०कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः
पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्
१२.२२४.११भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्
ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति
१२.२२४.१२तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते
अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित्
१२.२२४.१३अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्
अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत
१२.२२४.१४काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम्
त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात्
१२.२२४.१५त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च संख्या मुनिभिः प्रणीता
मासः स्मृतो रात्र्यहनी च त्रिंश;त्संवत्सरो द्वादशमास उक्तः
संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणमुत्तरं च
१२.२२४.१६अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः
१२.२२४.१७पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी
१२.२२४.१८दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्
१२.२२४.१९ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके
तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे
१२.२२४.२०तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः
कृते त्रेतायुगे चैव द्वापरे च कलौ तथा
१२.२२४.२१चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य तावच्छती संध्या संध्यांशश्च तथाविधः
१२.२२४.२२इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु
एकापायेन संयान्ति सहस्राणि शतानि च
१२.२२४.२३एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्
एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्
१२.२२४.२४चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे
नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते
१२.२२४.२५इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते
चौरिकानृतमायाभिरधर्मश्चोपचीयते
१२.२२४.२६अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः
कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः
१२.२२४.२७वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम्
आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्
१२.२२४.२८अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे
अन्ये कलियुगे धर्मा यथाशक्तिकृता इव
१२.२२४.२९तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्
द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे
१२.२२४.३०एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः
सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते
१२.२२४.३१रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः
प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते
१२.२२४.३२सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः
१२.२२४.३३प्रतिबुद्धो विकुरुते ब्रह्माक्षय्यं क्षपाक्षये
सृजते च महद्भूतं तस्माद्व्यक्तात्मकं मनः
१२.२२४.३४ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं जगत्
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
१२.२२४.३५अहर्मुखे विबुद्धः सन्सृजते विद्यया जगत्
अग्र एव महाभूतमाशु व्यक्तात्मकं मनः
१२.२२४.३६अभिभूयेह चार्चिष्मद्व्यसृजत्सप्त मानसान्
दूरगं बहुधागामि प्रार्थनासंशयात्मकम्
१२.२२४.३७मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया
आकाशं जायते तस्मात्तस्य शब्दो गुणो मतः
१२.२२४.३८आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः
बलवाञ्जायते वायुस्तस्य स्पर्शो गुणो मतः
१२.२२४.३९वायोरपि विकुर्वाणाज्ज्योतिर्भूतं तमोनुदम्
रोचिष्णु जायते तत्र तद्रूपगुणमुच्यते
१२.२२४.४०ज्योतिषोऽपि विकुर्वाणाद्भवन्त्यापो रसात्मिकाः
अद्भ्यो गन्धगुणा भूमिः पूर्वैषा सृष्टिरुच्यते
१२.२२४.४१गुणाः पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम्
तेषां यावत्तिथं यद्यत्तत्तत्तावद्गुणं स्मृतम्
१२.२२४.४२उपलभ्याप्सु चेद्गन्धं केचिद्ब्रूयुरनैपुणात्
पृथिव्यामेव तं विद्यादापो वायुं च संश्रितम्
१२.२२४.४३एते तु सप्त पुरुषा नानाविर्याः पृथक्पृथक्
नाशक्नुवन्प्रजाः स्रष्टुमसमागम्य सर्वतः
१२.२२४.४४ते समेत्य महात्मानमन्योन्यमभिसंश्रिताः
शरीराश्रयणं प्राप्तास्ततः पुरुष उच्यते
१२.२२४.४५श्रयणाच्छरीरं भवति मूर्तिमत्षोडशात्मकम्
तदाविशन्ति भूतानि महान्ति सह कर्मणा
१२.२२४.४६सर्वभूतानि चादाय तपसश्चरणाय च
आदिकर्ता महाभूतं तमेवाहुः प्रजापतिम्
१२.२२४.४७स वै सृजति भूतानि स एव पुरुषः परः
अजो जनयते ब्रह्मा देवर्षिपितृमानवान्
१२.२२४.४८लोकान्नदीः समुद्रांश्च दिशः शैलान्वनस्पतीन्
नरकिंनररक्षांसि वयःपशुमृगोरगान्
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
१२.२२४.४९तेषां ये यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे
तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः
१२.२२४.५०हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मे ऋतानृते
अतो यन्मन्यते धाता तस्मात्तत्तस्य रोचते
१२.२२४.५१महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु
विनियोगं च भूतानां धातैव विदधात्युत
१२.२२४.५२केचित्पुरुषकारं तु प्राहुः कर्मविदो जनाः
दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः
१२.२२४.५३पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रय एतेऽपृथग्भूता नविवेकं तु केचन
१२.२२४.५४एवमेतच्च नैवं च यद्भूतं सृजते जगत्
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः
१२.२२४.५५तपो निःश्रेयसं जन्तोस्तस्य मूलं दमः शमः
तेन सर्वानवाप्नोति यान्कामान्मनसेच्छति
१२.२२४.५६तपसा तदवाप्नोति यद्भूतं सृजते जगत्
स तद्भूतश्च सर्वेषां भूतानां भवति प्रभुः
१२.२२४.५७ऋषयस्तपसा वेदानध्यैषन्त दिवानिशम्
अनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा
१२.२२४.५८ऋषीणां नामधेयानि याश्च वेदेषु सृष्टयः
शर्वर्यन्तेषु जातानां तान्येवैभ्यो ददाति सः
१२.२२४.५९नामभेदस्तपःकर्मयज्ञाख्या लोकसिद्धयः
आत्मसिद्धिस्तु वेदेषु प्रोच्यते दशभिः क्रमैः
१२.२२४.६०यदुक्तं वेदवादेषु गहनं वेददृष्टिभिः
तदन्तेषु यथायुक्तं क्रमयोगेन लक्ष्यते
१२.२२४.६१कर्मजोऽयं पृथग्भावो द्वंद्वयुक्तो वियोगिनः
आत्मसिद्धिस्तु विज्ञाता जहाति प्रायशो बलम्
१२.२२४.६२द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
१२.२२४.६३आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशस्तथा
परिचारयज्ञाः शूद्रास्तु तपोयज्ञा द्विजातयः
१२.२२४.६४त्रेतायुगे विधिस्त्वेषां यज्ञानां न कृते युगे
द्वापरे विप्लवं यान्ति यज्ञाः कलियुगे तथा
१२.२२४.६५अपृथग्धर्मिणो मर्त्या ऋक्सामानि यजूंषि च
काम्यां पुष्टिं पृथग्दृष्ट्वा तपोभिस्तप एव च
१२.२२४.६६त्रेतायां तु समस्तास्ते प्रादुरासन्महाबलाः
संयन्तारः स्थावराणां जङ्गमानां च सर्वशः
१२.२२४.६७त्रेतायां संहता ह्येते यज्ञा वर्णास्तथैव च
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे
१२.२२४.६८दृश्यन्ते नापि दृश्यन्ते वेदाः कलियुगेऽखिलाः
उत्सीदन्ते सयज्ञाश्च केवला धर्मसेतवः
१२.२२४.६९कृते युगे यस्तु धर्मो ब्राह्मणेषु प्रदृश्यते
आत्मवत्सु तपोवत्सु श्रुतवत्सु प्रतिष्ठितः
१२.२२४.७०अधर्मव्रतसंयोगं यथाधर्मं युगे युगे
विक्रियन्ते स्वधर्मस्था वेदवादा यथायुगम्
१२.२२४.७१यथा विश्वानि भूतानि वृष्ट्या भूयांसि प्रावृषि
सृज्यन्ते जङ्गमस्थानि तथा धर्मा युगे युगे
१२.२२४.७२यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये
दृश्यन्ते तानि तान्येव तथा ब्रह्माहरात्रिषु
१२.२२४.७३विहितं कालनानात्वमनादिनिधनं तथा
कीर्तितं यत्पुरस्तात्ते तत्सूते चात्ति च प्रजाः
१२.२२४.७४दधाति प्रभवे स्थानं भूतानां संयमो यमः
स्वभावेनैव वर्तन्ते द्वंद्वयुक्तानि भूरिशः
१२.२२४.७५सर्गः कालः क्रिया वेदाः कर्ता कार्यं क्रिया फलम्
प्रोक्तं ते पुत्र सर्वं वै यन्मां त्वं परिपृच्छसि
१२.२२४.७६प्रत्याहारं तु वक्ष्यामि शर्वर्यादौ गतेऽहनि
यथेदं कुरुतेऽध्यात्मं सुसूक्ष्मं विश्वमीश्वरः
१२.२२४.७७दिवि सूर्यास्तथा सप्त दहन्ति शिखिनोऽर्चिषा
सर्वमेतत्तदार्चिर्भिः पूर्णं जाज्वल्यते जगत्