१२. शान्तिपर्व
१२.२२५.१व्यास उवाच

१२.२२५.२पृथिव्यां यानि भूतानि जङ्गमानि ध्रुवाणि च
तान्येवाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च

१२.२२५.३ततः प्रलीने सर्वस्मिन्स्थावरे जङ्गमे तथा
अकाष्ठा निस्तृणा भूमिर्दृश्यते कूर्मपृष्ठवत्

१२.२२५.४भूमेरपि गुणं गन्धमाप आददते यदा
आत्तगन्धा तदा भूमिः प्रलयत्वाय कल्पते

१२.२२५.५आपस्ततः प्रतिष्ठन्ति ऊर्मिमत्यो महास्वनाः
सर्वमेवेदमापूर्य तिष्ठन्ति च चरन्ति च

१२.२२५.६अपामपि गुणांस्तात ज्योतिराददते यदा
आपस्तदा आत्तगुणा ज्योतिष्युपरमन्ति च

१२.२२५.७यदादित्यं स्थितं मध्ये गूहन्ति शिखिनोऽर्चिषः
सर्वमेवेदमर्चिर्भिः पूर्णं जाज्वल्यते नभः

१२.२२५.८ज्योतिषोऽपि गुणं रूपं वायुराददते यदा
प्रशाम्यति तदा ज्योतिर्वायुर्दोधूयते महान्

१२.२२५.९ततस्तु मूलमासाद्य वायुः संभवमात्मनः
अधश्चोर्ध्वं च तिर्यक्च दोधवीति दिशो दश

१२.२२५.१०वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत्

१२.२२५.११आकाशस्य गुणं शब्दमभिव्यक्तात्मकं मनः
मनसो व्यक्तमव्यक्तं ब्राह्मः स प्रतिसंचरः

१२.२२५.१२तदात्मगुणमाविश्य मनो ग्रसति चन्द्रमाः
मनस्युपरतेऽध्यात्मा चन्द्रमस्यवतिष्ठते

१२.२२५.१३तं तु कालेन महता संकल्पः कुरुते वशे
चित्तं ग्रसति संकल्पस्तच्च ज्ञानमनुत्तमम्

१२.२२५.१४कालो गिरति विज्ञानं कालो बलमिति श्रुतिः
बलं कालो ग्रसति तु तं विद्वान्कुरुते वशे

१२.२२५.१५आकाशस्य तदा घोषं तं विद्वान्कुरुतेऽऽत्मनि
तदव्यक्तं परं ब्रह्म तच्छाश्वतमनुत्तमम्
एवं सर्वाणि भूतानि ब्रह्मैव प्रतिसंचरः

१२.२२५.१६यथावत्कीर्तितं सम्यगेवमेतदसंशयम्
बोध्यं विद्यामयं दृष्ट्वा योगिभिः परमात्मभिः

१२.२२५.१७एवं विस्तारसंक्षेपौ ब्रह्माव्यक्ते पुनः पुनः
युगसाहस्रयोरादावह्नो रात्र्यास्तथैव च