१२. शान्तिपर्व
१२.२२७.१व्यास उवाच

१२.२२७.२त्रयीविद्यामवेक्षेत वेदेषूक्तामथाङ्गतः
ऋक्सामवर्णाक्षरतो यजुषोऽथर्वणस्तथा

१२.२२७.३वेदवादेषु कुशला ह्यध्यात्मकुशलाश्च ये
सत्त्ववन्तो महाभागाः पश्यन्ति प्रभवाप्ययौ

१२.२२७.४एवं धर्मेण वर्तेत क्रियाः शिष्टवदाचरेत्
असंरोधेन भूतानां वृत्तिं लिप्सेत वै द्विजः

१२.२२७.५सद्भ्य आगतविज्ञानः शिष्टः शास्त्रविचक्षणः
स्वधर्मेण क्रिया लोके कुर्वाणः सत्यसंगरः

१२.२२७.६तिष्ठत्येतेषु गृहवान्षट्सु कर्मसु स द्विजः
पञ्चभिः सततं यज्ञैः श्रद्दधानो यजेत च

१२.२२७.७धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति

१२.२२७.८दानमध्ययनं यज्ञस्तपो ह्रीरार्जवं दमः
एतैर्वर्धयते तेजः पाप्मानं चापकर्षति

१२.२२७.९धूतपाप्मा तु मेधावी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्

१२.२२७.१०अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च
वर्जयेद्रुषतीं वाचं हिंसां चाधर्मसंहिताम्

१२.२२७.११एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानागमेन कर्माणि कुर्वन्कर्मसु सिध्यति

१२.२२७.१२पञ्चेन्द्रियजलां घोरां लोभकूलां सुदुस्तराम्
मन्युपङ्कामनाधृष्यां नदीं तरति बुद्धिमान्

१२.२२७.१३काममन्यूद्धतं यत्स्यान्नित्यमत्यन्तमोहितम्
महता विधिदृष्टेन बलेनाप्रतिघातिना
स्वभावस्रोतसा वृत्तमुह्यते सततं जगत्

१२.२२७.१४कालोदकेन महता वर्षावर्तेन संततम्
मासोर्मिणर्तुवेगेन पक्षोलपतृणेन च

१२.२२७.१५निमेषोन्मेषफेनेन अहोरात्रजवेन च
कामग्राहेण घोरेण वेदयज्ञप्लवेन च

१२.२२७.१६धर्मद्वीपेन भूतानां चार्थकामरवेण च
ऋतसोपानतीरेण विहिंसातरुवाहिना

१२.२२७.१७युगह्रदौघमध्येन ब्रह्मप्रायभवेन च
धात्रा सृष्टानि भूतानि कृष्यन्ते यमसादनम्

१२.२२७.१८एतत्प्रज्ञामयैर्धीरा निस्तरन्ति मनीषिणः
प्लवैरप्लववन्तो हि किं करिष्यन्त्यचेतसः

१२.२२७.१९उपपन्नं हि यत्प्राज्ञो निस्तरेन्नेतरो जनः
दूरतो गुणदोषौ हि प्राज्ञः सर्वत्र पश्यति

१२.२२७.२०संशयात्मा स कामात्मा चलचित्तोऽल्पचेतनः
अप्राज्ञो न तरत्येव यो ह्यास्ते न स गच्छति

१२.२२७.२१अप्लवो हि महादोषमुह्यमानोऽधिगच्छति
कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः

१२.२२७.२२तस्मादुन्मज्जनस्यार्थे प्रयतेत विचक्षणः
एतदुन्मज्जनं तस्य यदयं ब्राह्मणो भवेत्

१२.२२७.२३त्र्यवदाते कुले जातस्त्रिसंदेहस्त्रिकर्मकृत्
तस्मादुन्मज्जनस्तिष्ठेन्निस्तरेत्प्रज्ञया यथा

१२.२२७.२४संस्कृतस्य हि दान्तस्य नियतस्य कृतात्मनः
प्राज्ञस्यानन्तरा सिद्धिरिह लोके परत्र च

१२.२२७.२५वर्तते तेषु गृहवानक्रुध्यन्ननसूयकः
पञ्चभिः सततं यज्ञैर्विघसाशी यजेत च

१२.२२७.२६सतां वृत्तेन वर्तेत क्रियाः शिष्टवदाचरेत्
असंरोधेन धर्मस्य वृत्तिं लिप्सेदगर्हिताम्

१२.२२७.२७श्रुतिविज्ञानतत्त्वज्ञः शिष्टाचारो विचक्षणः
स्वधर्मेण क्रियावांश्च कर्मणा सोऽप्यसंकरः

१२.२२७.२८क्रियावाञ्श्रद्दधानश्च दाता प्राज्ञोऽनसूयकः
धर्माधर्मविशेषज्ञः सर्वं तरति दुस्तरम्

१२.२२७.२९धृतिमानप्रमत्तश्च दान्तो धर्मविदात्मवान्
वीतहर्षभयक्रोधो ब्राह्मणो नावसीदति

१२.२२७.३०एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानवित्त्वेन कर्माणि कुर्वन्सर्वत्र सिध्यति

१२.२२७.३१अधर्मं धर्मकामो हि करोतीहाविचक्षणः
धर्मं चाधर्मसंकाशं शोचन्निव करोति सः

१२.२२७.३२धर्मं करोमीति करोत्यधर्म;मधर्मकामश्च करोति धर्मम्
उभे बालः कर्मणी न प्रजान;न्स जायते म्रियते चापि देही