१२. शान्तिपर्व
१२.२२८.१व्यास उवाच

१२.२२८.२अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा
उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत्

१२.२२८.३प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः
नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन

१२.२२८.४छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश
दशकर्मसुखानर्थानुपायापायनिर्भयः

१२.२२८.५चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च
यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्
ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः

१२.२२८.६एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः
यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः

१२.२२८.७यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः
यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता

१२.२२८.८तरत्येव महादुर्गं जरामरणसागरम्
एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः
अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते

१२.२२८.९धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः
अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः

१२.२२८.१०चेतनाबन्धुरश्चारुराचारग्रहनेमिवान्
दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः

१२.२२८.११प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः
क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः

१२.२२८.१२त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः
जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते

१२.२२८.१३अथ संत्वरमाणस्य रथमेतं युयुक्षतः
अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्

१२.२२८.१४सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते
पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः

१२.२२८.१५क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः
ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः

१२.२२८.१६अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते
विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः

१२.२२८.१७अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः
निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत्

१२.२२८.१८शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः
तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत

१२.२२८.१९अथ धूमस्य विरमे द्वितीयं रूपदर्शनम्
जलरूपमिवाकाशे तत्रैवात्मनि पश्यति

१२.२२८.२०अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते
तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते
ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते

१२.२२८.२१अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः
अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै

१२.२२८.२२एतेष्वपि हि जातेषु फलजातानि मे शृणु
जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते

१२.२२८.२३प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः
अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा

१२.२२८.२४पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः
आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति

१२.२२८.२५वर्णतो गृह्यते चापि कामात्पिबति चाशयान्
न चास्य तेजसा रूपं दृश्यते शाम्यते तथा

१२.२२८.२६अहंकारस्य विजितेः पञ्चैते स्युर्वशानुगाः
षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ

१२.२२८.२७निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते
तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते

१२.२२८.२८यतो निःसरते लोको भवति व्यक्तसंज्ञकः
तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे
तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे

१२.२२८.२९पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम्
योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु

१२.२२८.३०प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्
जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्

१२.२२८.३१विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्
द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ

१२.२२८.३२चतुर्लक्षणजं त्वन्यं चतुर्वर्गं प्रचक्षते
व्यक्तमव्यक्तजं चैव तथा बुद्धमथेतरत्
सत्त्वं क्षेत्रज्ञ इत्येतद्द्वयमप्यनुदर्शितम्

१२.२२८.३३द्वावात्मानौ च वेदेषु विषयेषु च रज्यतः
विषयात्प्रतिसंहारः सांख्यानां सिद्धिलक्षणम्

१२.२२८.३४निर्ममश्चानहंकारो निर्द्वंद्वश्छिन्नसंशयः
नैव क्रुध्यति न द्वेष्टि नानृता भाषते गिरः

१२.२२८.३५आक्रुष्टस्ताडितश्चैव मैत्रेण ध्याति नाशुभम्
वाग्दण्डकर्ममनसां त्रयाणां च निवर्तकः

१२.२२८.३६समः सर्वेषु भूतेषु ब्रह्माणमभिवर्तते
नैवेच्छति न चानिच्छो यात्रामात्रव्यवस्थितः

१२.२२८.३७अलोलुपोऽव्यथो दान्तो न कृती न निराकृतिः
नास्येन्द्रियमनेकाग्रं नातिक्षिप्तमनोरथः
अहिंस्रः सर्वभूतानामीदृक्सांख्यो विमुच्यते

१२.२२८.३८अथ योगाद्विमुच्यन्ते कारणैर्यैर्निबोध मे
योगैश्वर्यमतिक्रान्तो योऽतिक्रामति मुच्यते

१२.२२८.३९इत्येषा भावजा बुद्धिः कथिता ते न संशयः
एवं भवति निर्द्वंद्वो ब्रह्माणं चाधिगच्छति