१२.२३४.१शुक उवाच
१२.२३४.२क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च
बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम्
१२.२३४.३भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम्
यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम्
१२.२३४.४वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च
कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि
१२.२३४.५लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात्
कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः
१२.२३४.६व्यास उवाच
१२.२३४.७यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम्
एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः
१२.२३४.८ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः
आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि
१२.२३४.९वने मूलफलाशी च तप्यन्सुविपुलं तपः
पुण्यायतनचारी च भूतानामविहिंसकः
१२.२३४.१०विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये
काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे
१२.२३४.११निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे
अरण्ये विचरैकाकी येन केनचिदाशितः
१२.२३४.१२शुक उवाच
१२.२३४.१३यदिदं वेदवचनं लोकवादे विरुध्यते
प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः
१२.२३४.१४इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे
कर्मणामविरोधेन कथमेतत्प्रवर्तते
१२.२३४.१५भीष्म उवाच
१२.२३४.१६इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्
ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः
१२.२३४.१७गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः
यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्
१२.२३४.१८एको य आश्रमानेताननुतिष्ठेद्यथाविधि
अकामद्वेषसंयुक्तः स परत्र महीयते
१२.२३४.१९चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता
एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते
१२.२३४.२०आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः
गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः
१२.२३४.२१कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता
दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत्
१२.२३४.२२जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि
यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः
१२.२३४.२३कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः
किंकरः सर्वकारी च सर्वकर्मसु कोविदः
१२.२३४.२४शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः
चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः
१२.२३४.२५नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्
न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च
१२.२३४.२६उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्
दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्
१२.२३४.२७अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति
इदं करिष्ये भगवन्निदं चापि कृतं मया
१२.२३४.२८इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम्
कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः
१२.२३४.२९यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते
सेवेत तान्समावृत्त इति धर्मेषु निश्चयः
१२.२३४.३०ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः
तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः
१२.२३४.३१स एवं गुरवे प्रीतिमुपहृत्य यथाबलम्
आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा
१२.२३४.३२वेदव्रतोपवासेन चतुर्थे चायुषो गते
गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि
१२.२३४.३३धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः
द्वितीयमायुषो भागं गृहमेधिव्रती भवेत्