१२.२३५.१व्यास उवाच
१२.२३५.२द्वितीयमायुषो भागं गृहमेधी गृहे वसेत्
धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः
१२.२३५.३गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः
कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम्
१२.२३५.४अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्
तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः
१२.२३५.५षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते
द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः
गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते
१२.२३५.६नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून्
प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति
१२.२३५.७न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः
न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम्
१२.२३५.८नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः
तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा
१२.२३५.९वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः
स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः
तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते
१२.२३५.१०न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च
अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः
१२.२३५.११संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते
तथैवापचमानेभ्यः प्रदेयं गृहमेधिना
१२.२३५.१२विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः
अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्
भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम्
१२.२३५.१३स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः
ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः
१२.२३५.१४वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः
मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया
१२.२३५.१५दुहित्रा दासवर्गेण विवादं न समाचरेत्
एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते
१२.२३५.१६एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः
आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः
१२.२३५.१७अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः
जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः
१२.२३५.१८संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ
वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः
१२.२३५.१९भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः
छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम्
१२.२३५.२०तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः
गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः
१२.२३५.२१न चार्थबद्धः कर्माणि धर्मं वा कंचिदाचरेत्
गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम्
१२.२३५.२२परस्परं तथैवाहुश्चातुराश्रम्यमेव तत्
ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता
१२.२३५.२३कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा
यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते
१२.२३५.२४दश पूर्वान्दश परान्पुनाति च पितामहान्
गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः
१२.२३५.२५स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम्
यतेन्द्रियाणामथ वा गतिरेषा विधीयते
१२.२३५.२६स्वर्गलोको गृहस्थानामुदारमनसां हितः
स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः
१२.२३५.२७स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम्
ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते
द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते
१२.२३५.२८अतः परं परममुदारमाश्रमं; तृतीयमाहुस्त्यजतां कलेवरम्
वनौकसां गृहपतिनामनुत्तमं; शृणुष्वैतत्क्लिष्टशरीरकारिणाम्