१२.२३६.१भीष्म उवाच
१२.२३६.२प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिणाम्
तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर
१२.२३६.३क्रमशस्त्ववधूयैनां तृतीयां वृत्तिमुत्तमाम्
संयोगव्रतखिन्नानां वानप्रस्थाश्रमौकसाम्
१२.२३६.४श्रूयतां पार्थ भद्रं ते सर्वलोकाश्रयात्मनाम्
प्रेक्षापूर्वं प्रवृत्तानां पुण्यदेशनिवासिनाम्
१२.२३६.५व्यास उवाच
१२.२३६.६गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः
अपत्यस्यैव चापत्यं वनमेव तदाश्रयेत्
१२.२३६.७तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत्
तानेवाग्नीन्परिचरेद्यजमानो दिवौकसः
१२.२३६.८नियतो नियताहारः षष्ठभक्तोऽप्रमादवान्
तदग्निहोत्रं ता गावो यज्ञाङ्गानि च सर्वशः
१२.२३६.९अकृष्टं वै व्रीहियवं नीवारं विघसानि च
हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु
१२.२३६.१०वानप्रस्थाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः
सद्यःप्रक्षालकाः केचित्केचिन्मासिकसंचयाः
१२.२३६.११वार्षिकं संचयं केचित्केचिद्द्वादशवार्षिकम्
कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थसिद्धये
१२.२३६.१२अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः
ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः
१२.२३६.१३भूमौ विपरिवर्तन्ते तिष्ठेद्वा प्रपदैरपि
स्थानासनैर्वर्तयन्ति सवनेष्वभिषिञ्चते
१२.२३६.१४दन्तोलूखलिनः केचिदश्मकुट्टास्तथापरे
शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्
१२.२३६.१५कृष्णपक्षे पिबन्त्येके भुञ्जते च यथाक्रमम्
मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः
१२.२३६.१६वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः
एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्
१२.२३६.१७चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः
वानप्रस्थो गृहस्थश्च ततोऽन्यः संप्रवर्तते
१२.२३६.१८अस्मिन्नेव युगे तात विप्रैः सर्वार्थदर्शिभिः
अगस्त्यः सप्त ऋषयो मधुच्छन्दोऽघमर्षणः
१२.२३६.१९सांकृतिः सुदिवा तण्डिर्यवान्नोऽथ कृतश्रमः
अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिर्बुधः
१२.२३६.२०शलो वाकश्च निर्वाकः शून्यपालः कृतश्रमः
एवंधर्मसु विद्वांसस्ततः स्वर्गमुपागमन्
१२.२३६.२१तात प्रत्यक्षधर्माणस्तथा यायावरा गणाः
ऋषीणामुग्रतपसां धर्मनैपुणदर्शिनाम्
१२.२३६.२२अवाच्यापरिमेयाश्च ब्राह्मणा वनमाश्रिताः
वैखानसा वालखिल्याः सिकताश्च तथापरे
१२.२३६.२३कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः
गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः
अनक्षत्रा अनाधृष्या दृश्यन्ते ज्योतिषां गणाः
१२.२३६.२४जरया च परिद्यूनो व्याधिना च प्रपीडितः
चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत्
सद्यस्कारां निरूप्येष्टिं सर्ववेदसदक्षिणाम्
१२.२३६.२५आत्मयाजी सोऽऽत्मरतिरात्मक्रीडात्मसंश्रयः
आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्
१२.२३६.२६सद्यस्क्रांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा
सदैव याजिनां यज्ञादात्मनीज्या निवर्तते
१२.२३६.२७त्रींश्चैवाग्नीन्यजेत्सम्यगात्मन्येवात्ममोक्षणात्
प्राणेभ्यो यजुषा पञ्च षट्प्राश्नीयादकुत्सयन्
१२.२३६.२८केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः
आश्रमादाश्रमं सद्यः पूतो गच्छति कर्मभिः
१२.२३६.२९अभयं सर्वभूतेभ्यो यो दत्त्वा प्रव्रजेद्द्विजः
लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते
१२.२३६.३०सुशीलवृत्तो व्यपनीतकल्मषो; न चेह नामुत्र च कर्तुमीहते
अरोषमोहो गतसंधिविग्रहो; भवेदुदासीनवदात्मविन्नरः
१२.२३६.३१यमेषु चैवात्मगतेषु न व्यथे;त्स्वशास्त्रसूत्राहुतिमन्त्रविक्रमः
भवेद्यथेष्टा गतिरात्मयाजिनो; न संशयो धर्मपरे जितेन्द्रिये
१२.२३६.३२ततः परं श्रेष्ठमतीव सद्गुणै;रधिष्ठितं त्रीनधिवृत्तमुत्तमम्
चतुर्थमुक्तं परमाश्रमं शृणु; प्रकीर्त्यमानं परमं परायणम्