१२.२३७.१शुक उवाच
१२.२३७.२वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा
योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम्
१२.२३७.३व्यास उवाच
१२.२३७.४प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्
यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु
१२.२३७.५कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु
प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम्
१२.२३७.६तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा
एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्
१२.२३७.७एकश्चरति यः पश्यन्न जहाति न हीयते
अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत्
१२.२३७.८अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः
लघ्वाशी नियताहारः सकृदन्ननिषेविता
१२.२३७.९कपालं वृक्षमूलानि कुचेलमसहायता
उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम्
१२.२३७.१०यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव
न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्
१२.२३७.११नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्
ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन
१२.२३७.१२यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्
तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः
१२.२३७.१३येन पूर्णमिवाकाशं भवत्येकेन सर्वदा
शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः
१२.२३७.१४येन केनचिदाच्छन्नो येन केनचिदाशितः
यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः
१२.२३७.१५अहेरिव गणाद्भीतः सौहित्यान्नरकादिव
कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः
१२.२३७.१६न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः
सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः
१२.२३७.१७नाभिनन्देत मरणं नाभिनन्देत जीवितम्
कालमेव प्रतीक्षेत निदेशं भृतको यथा
१२.२३७.१८अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा
निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्
१२.२३७.१९अभयं सर्वभूतेभ्यो भूतानामभयं यतः
तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन
१२.२३७.२०यथा नागपदेऽन्यानि पदानि पदगामिनाम्
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे
१२.२३७.२१एवं सर्वमहिंसायां धर्मार्थमपिधीयते
अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते
१२.२३७.२२अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः
शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्
१२.२३७.२३एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः
न मृत्युरतिगो भावः स मृत्युमधिगच्छति
१२.२३७.२४विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्
अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः
१२.२३७.२५जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च
अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः
१२.२३७.२६निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः
१२.२३७.२७सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति
तेषां भयोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः
१२.२३७.२८दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्यधितिष्ठतीह
तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः
१२.२३७.२९उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा
तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे
१२.२३७.३०प्रादेशमात्रे हृदि निश्रितं य;त्तस्मिन्प्राणानात्मयाजी जुहोति
तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु
१२.२३७.३१दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च
ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति
१२.२३७.३२वेदांश्च वेद्यं च विधिं च कृत्स्न;मथो निरुक्तं परमार्थतां च
सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम्
१२.२३७.३३भूमावसक्तं दिवि चाप्रमेयं; हिरण्मयं योऽण्डजमण्डमध्ये
पतत्रिणं पक्षिणमन्तरिक्षे; यो वेद भोग्यात्मनि दीप्तरश्मिः
१२.२३७.३४आवर्तमानमजरं विवर्तनं; षण्णेमिकं द्वादशारं सुपर्व
यस्येदमास्ये परियाति विश्वं; तत्कालचक्रं निहितं गुहायाम्
१२.२३७.३५यः संप्रसादं जगतः शरीरं; सर्वान्स लोकानधिगच्छतीह
तस्मिन्हुतं तर्पयतीह देवां;स्ते वै तृप्तास्तर्पयन्त्यास्यमस्य
१२.२३७.३६तेजोमयो नित्यतनुः पुराणो; लोकाननन्तानभयानुपैति
भूतानि यस्मान्न त्रसन्ते कदाचि;त्स भूतेभ्यो न त्रसते कदाचित्
१२.२३७.३७अगर्हणीयो न च गर्हतेऽन्या;न्स वै विप्रः परमात्मानमीक्षेत्
विनीतमोहो व्यपनीतकल्मषो; न चेह नामुत्र च योऽर्थमृच्छति
१२.२३७.३८अरोषमोहः समलोष्टकाञ्चनः; प्रहीणशोको गतसंधिविग्रहः
अपेतनिन्दास्तुतिरप्रियाप्रिय;श्चरन्नुदासीनवदेष भिक्षुकः