१२. शान्तिपर्व
१२.२३८.१व्यास उवाच

१२.२३८.२प्रकृतेस्तु विकारा ये क्षेत्रज्ञस्तैः परिश्रितः
ते चैनं न प्रजानन्ति स तु जानाति तानपि

१२.२३८.३तैश्चैष कुरुते कार्यं मनःषष्ठैरिहेन्द्रियैः
सुदान्तैरिव संयन्ता दृढैः परमवाजिभिः

१२.२३८.४इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः

१२.२३८.५महतः परमव्यक्तमव्यक्तात्परतोऽमृतम्
अमृतान्न परं किंचित्सा काष्ठा सा परा गतिः

१२.२३८.६एवं सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया तत्त्वदर्शिभिः

१२.२३८.७अन्तरात्मनि संलीय मनःषष्ठानि मेधया
इन्द्रियाणीन्द्रियार्थांश्च बहु चिन्त्यमचिन्तयन्

१२.२३८.८ध्यानोपरमणं कृत्वा विद्यासंपादितं मनः
अनीश्वरः प्रशान्तात्मा ततोऽर्छत्यमृतं पदम्

१२.२३८.९इन्द्रियाणां तु सर्वेषां वश्यात्मा चलितस्मृतिः
आत्मनः संप्रदानेन मर्त्यो मृत्युमुपाश्नुते

१२.२३८.१०हित्वा तु सर्वसंकल्पान्सत्त्वे चित्तं निवेशयेत्
सत्त्वे चित्तं समावेश्य ततः कालंजरो भवेत्

१२.२३८.११चित्तप्रसादेन यतिर्जहाति हि शुभाशुभम्
प्रसन्नात्मात्मनि स्थित्वा सुखमानन्त्यमश्नुते

१२.२३८.१२लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत्
निवाते वा यथा दीपो दीप्यमानो न कम्पते

१२.२३८.१३एवं पूर्वापरे रात्रे युञ्जन्नात्मानमात्मना
सत्त्वाहारविशुद्धात्मा पश्यत्यात्मानमात्मनि

१२.२३८.१४रहस्यं सर्ववेदानामनैतिह्यमनागमम्
आत्मप्रत्ययिकं शास्त्रमिदं पुत्रानुशासनम्

१२.२३८.१५धर्माख्यानेषु सर्वेषु सत्याख्यानेषु यद्वसु
दशेदमृक्सहस्राणि निर्मथ्यामृतमुद्धृतम्

१२.२३८.१६नवनीतं यथा दध्नः काष्ठादग्निर्यथैव च
तथैव विदुषां ज्ञानं पुत्रहेतोः समुद्धृतम्
स्नातकानामिदं शास्त्रं वाच्यं पुत्रानुशासनम्

१२.२३८.१७तदिदं नाप्रशान्ताय नादान्तायातपस्विने
नावेदविदुषे वाच्यं तथा नानुगताय च

१२.२३८.१८नासूयकायानृजवे न चानिर्दिष्टकारिणे
न तर्कशास्त्रदग्धाय तथैव पिशुनाय च

१२.२३८.१९श्लाघते श्लाघनीयाय प्रशान्ताय तपस्विने
इदं प्रियाय पुत्राय शिष्यायानुगताय च
रहस्यधर्मं वक्तव्यं नान्यस्मै तु कथंचन

१२.२३८.२०यद्यप्यस्य महीं दद्याद्रत्नपूर्णामिमां नरः
इदमेव ततः श्रेय इति मन्येत तत्त्ववित्

१२.२३८.२१अतो गुह्यतरार्थं तदध्यात्ममतिमानुषम्
यत्तन्महर्षिभिर्दृष्टं वेदान्तेषु च गीयते
तत्तेऽहं संप्रवक्ष्यामि यन्मां त्वं परिपृच्छसि