१२. शान्तिपर्व
१२.२३९.१शुक उवाच

१२.२३९.२अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे
यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम

१२.२३९.३व्यास उवाच

१२.२३९.४अध्यात्मं यदिदं तात पुरुषस्येह विद्यते
तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु

१२.२३९.५भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च
महाभूतानि भूतानां सागरस्योर्मयो यथा

१२.२३९.६प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः
तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते

१२.२३९.७इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्
सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा

१२.२३९.८महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्
अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति

१२.२३९.९शुक उवाच

१२.२३९.१०अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्
इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्

१२.२३९.११व्यास उवाच

१२.२३९.१२एतत्ते वर्तयिष्यामि यथावदिह दर्शनम्
शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत्

१२.२३९.१३शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्
प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः

१२.२३९.१४रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते
रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम्

१२.२३९.१५घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः
एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः

१२.२३९.१६वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते
आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः

१२.२३९.१७मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः
न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः

१२.२३९.१८इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते
सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्

१२.२३९.१९चक्षुरालोचनायैव संशयं कुरुते मनः
बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते

१२.२३९.२०रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः
समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्

१२.२३९.२१यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति
एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति

१२.२३९.२२यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति
एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा

१२.२३९.२३गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि
मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

१२.२३९.२४तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्
प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्

१२.२३९.२५यत्तु संतापसंयुक्तं काये मनसि वा भवेत्
रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्

१२.२३९.२६यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्
अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्

१२.२३९.२७प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता
अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः

१२.२३९.२८अभिमानो मृषावादो लोभो मोहस्तथाक्षमा
लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः

१२.२३९.२९तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता
कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः