१२.२४१.१व्यास उवाच
१२.२४१.२सृजते तु गुणान्सत्त्वं क्षेत्रज्ञस्त्वनुतिष्ठति
गुणान्विक्रियतः सर्वानुदासीनवदीश्वरः
१२.२४१.३स्वभावयुक्तं तत्सर्वं यदिमान्सृजते गुणान्
ऊर्णनाभिर्यथा सूत्रं सृजते तन्तुवद्गुणान्
१२.२४१.४प्रध्वस्ता न निवर्तन्ते प्रवृत्तिर्नोपलभ्यते
एवमेके व्यवस्यन्ति निवृत्तिरिति चापरे
१२.२४१.५उभयं संप्रधार्यैतदध्यवस्येद्यथामति
अनेनैव विधानेन भवेद्गर्भशयो महान्
१२.२४१.६अनादिनिधनं नित्यमासाद्य विचरेन्नरः
अक्रुध्यन्नप्रहृष्यंश्च नित्यं विगतमत्सरः
१२.२४१.७इत्येवं हृदयग्रन्थिं बुद्धिचिन्तामयं दृढम्
अतीत्य सुखमासीत अशोचंश्छिन्नसंशयः
१२.२४१.८तप्येयुः प्रच्युताः पृथ्व्या यथा पूर्णां नदीं नराः
अवगाढा ह्यविद्वांसो विद्धि लोकमिमं तथा
१२.२४१.९न तु ताम्यति वै विद्वान्स्थले चरति तत्त्ववित्
एवं यो विन्दतेऽऽत्मानं केवलं ज्ञानमात्मनः
१२.२४१.१०एवं बुद्ध्वा नरः सर्वां भूतानामागतिं गतिम्
समवेक्ष्य शनैः सम्यग्लभते शममुत्तमम्
१२.२४१.११एतद्वै जन्मसामर्थ्यं ब्राह्मणस्य विशेषतः
आत्मज्ञानं शमश्चैव पर्याप्तं तत्परायणम्
१२.२४१.१२एतद्बुद्ध्वा भवेद्बुद्धः किमन्यद्बुद्धलक्षणम्
विज्ञायैतद्विमुच्यन्ते कृतकृत्या मनीषिणः
१२.२४१.१३न भवति विदुषां महद्भयं; यदविदुषां सुमहद्भयं भवेत्
न हि गतिरधिकास्ति कस्यचि;द्भवति हि या विदुषः सनातनी
१२.२४१.१४लोकमातुरमसूयते जन;स्तत्तदेव च निरीक्ष्य शोचते
तत्र पश्य कुशलानशोचतो; ये विदुस्तदुभयं कृताकृतम्
१२.२४१.१५यत्करोत्यनभिसंधिपूर्वकं; तच्च निर्णुदति यत्पुरा कृतम्
न प्रियं तदुभयं न चाप्रियं; तस्य तज्जनयतीह कुर्वतः