१२.२४२.१शुक उवाच
१२.२४२.२यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन
यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे
१२.२४२.३व्यास उवाच
१२.२४२.४धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम्
विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु
१२.२४२.५इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः
सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्
१२.२४२.६मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते
१२.२४२.७तानि सर्वाणि संधाय मनःषष्ठानि मेधया
आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन्
१२.२४२.८गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि
तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम्
१२.२४२.९सर्वात्मानं महात्मानं विधूममिव पावकम्
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
१२.२४२.१०यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः
आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्
१२.२४२.११एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम्
अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति
१२.२४२.१२ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना
दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित्
१२.२४२.१३विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः
परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः
१२.२४२.१४सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम्
पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्
१२.२४२.१५लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्
सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्
१२.२४२.१६अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः
प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्
१२.२४२.१७संसारसागरगमां योनिपातालदुस्तराम्
आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्
१२.२४२.१८यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः
तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः
१२.२४२.१९उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि
संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः
१२.२४२.२०भूमिष्ठानीव भूतानि पर्वतस्थो निशामय
अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा
ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ
१२.२४२.२१एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः
धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः
१२.२४२.२२आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम्
प्रयताय प्रवक्तव्यं हितायानुगताय च
१२.२४२.२३आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्
अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा
१२.२४२.२४नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्
अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्
१२.२४२.२५नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात्
अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते
१२.२४२.२६यथा मतानि सर्वाणि न चैतानि यथा तथा
कथितानि मया पुत्र भवन्ति न भवन्ति च
१२.२४२.२७तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन
पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत्