१२. शान्तिपर्व
१२.२४३.१व्यास उवाच

१२.२४३.२गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालंकारांश्चाप्नुयात्तस्य तस्य
मानं च कीर्तिं च यशश्च नेच्छे;त्स वै प्रचारः पश्यतो ब्राह्मणस्य

१२.२४३.३सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्
ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः

१२.२४३.४ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित्
नाकामो म्रियते जातु न तेन न च ब्राह्मणः

१२.२४३.५इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान्
नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन

१२.२४३.६यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा

१२.२४३.७यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

१२.२४३.८कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्
कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते

१२.२४३.९कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते

१२.२४३.१०आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत्
स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही

१२.२४३.११वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषद्दानं दानस्योपनिषत्तपः

१२.२४३.१२तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम्
सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः

१२.२४३.१३क्लेदनं शोकमनसोः संतापं तृष्णया सह
सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम्

१२.२४३.१४विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः
षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति

१२.२४३.१५षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः
ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः

१२.२४३.१६अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्
अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते

१२.२४३.१७निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः
यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा

१२.२४३.१८येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान्
येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्

१२.२४३.१९संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन्
यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते

१२.२४३.२०समाहितं परे तत्त्वे क्षीणकाममवस्थितम्
सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा

१२.२४३.२१सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः
सुखेनापोह्यते दुःखं भास्करेण तमो यथा

१२.२४३.२२तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्
ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः

१२.२४३.२३स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते
इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते

१२.२४३.२४कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्
पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम्