१२.२४४.१व्यास उवाच
१२.२४४.२द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः
वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्
१२.२४४.३आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी
भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु
१२.२४४.४अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्
तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्
१२.२४४.५चरणं मारुतात्मेति प्राणापानौ च तन्मयौ
स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्
१२.२४४.६ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्
तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम्
१२.२४४.७प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः
१२.२४४.८संघातः पार्थिवो धातुरस्थिदन्तनखानि च
श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च
१२.२४४.९इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते
गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः
१२.२४४.१०उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः
पञ्चानां भूतसंघानां संततिं मुनयो विदुः
१२.२४४.११मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता
एकादशोऽन्तरात्मा च सर्वतः पर उच्यते
१२.२४४.१२व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्
कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः
१२.२४४.१३एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम्
पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते