१२.२५४.१भीष्म उवाच
१२.२५४.२इत्युक्तः स तदा तेन तुलाधारेण धीमता
प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः
१२.२५४.३विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज
वनस्पतीनोषधीश्च तेषां मूलफलानि च
१२.२५४.४अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम्
एतदाचक्ष्व मे सर्वं निखिलेन महामते
१२.२५४.५एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्
जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप
१२.२५४.६वेदाहं जाजले धर्मं सरहस्यं सनातनम्
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः
१२.२५४.७अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले
१२.२५४.८परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा
१२.२५४.९रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून्
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया
१२.२५४.१०सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः
कर्मणा मनसा वाचा स धर्मं वेद जाजले
१२.२५४.११नाहं परेषां कर्माणि प्रशंसामि शपामि वा
आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम्
१२.२५४.१२नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये
समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम्
१२.२५४.१३इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः
तुला मे सर्वभूतेषु समा तिष्ठति जाजले
१२.२५४.१४इति मां त्वं विजानीहि सर्वलोकस्य जाजले
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्
१२.२५४.१५यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा
देवैरपिहितद्वाराः सोपमा पश्यतो मम
१२.२५४.१६यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति
तथार्थकामभोगेषु ममापि विगता स्पृहा
१२.२५४.१७यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः
१२.२५४.१८यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
१२.२५४.१९न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्
१२.२५४.२०यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव
वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम्
१२.२५४.२१यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम्
१२.२५४.२२प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः
तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते
१२.२५४.२३आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा
१२.२५४.२४नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया
यदृच्छयैव काष्ठेन संधिं गच्छेत केनचित्
१२.२५४.२५तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः
तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः
१२.२५४.२६यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने
१२.२५४.२७यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः
१२.२५४.२८सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः
१२.२५४.२९तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते
१२.२५४.३०लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्
स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन
१२.२५४.३१यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने
१२.२५४.३२यस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव
न स धर्ममवाप्नोति इह लोके परत्र च
१२.२५४.३३सर्वभूतात्मभूतस्य सम्यग्भूतानि पश्यतः
देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः
१२.२५४.३४दानं भूताभयस्याहुः सर्वदानेभ्य उत्तमम्
ब्रवीमि ते सत्यमिदं श्रद्दधस्व च जाजले
१२.२५४.३५स एव सुभगो भूत्वा पुनर्भवति दुर्भगः
व्यापत्तिं कर्मणां दृष्ट्वा जुगुप्सन्ति जनाः सदा
१२.२५४.३६अकारणो हि नेहास्ति धर्मः सूक्ष्मोऽपि जाजले
भूतभव्यार्थमेवेह धर्मप्रवचनं कृतम्
१२.२५४.३७सूक्ष्मत्वान्न स विज्ञातुं शक्यते बहुनिह्नवः
उपलभ्यान्तरा चान्यानाचारानवबुध्यते
१२.२५४.३८ये च छिन्दन्ति वृषणान्ये च भिन्दन्ति नस्तकान्
वहन्ति महतो भारान्बध्नन्ति दमयन्ति च
१२.२५४.३९हत्वा सत्त्वानि खादन्ति तान्कथं न विगर्हसे
मानुषा मानुषानेव दासभोगेन भुञ्जते
१२.२५४.४०वधबन्धविरोधेन कारयन्ति दिवानिशम्
आत्मना चापि जानासि यद्दुःखं वधताडने
१२.२५४.४१पञ्चेन्द्रियेषु भूतेषु सर्वं वसति दैवतम्
आदित्यश्चन्द्रमा वायुर्ब्रह्मा प्राणः क्रतुर्यमः
१२.२५४.४२तानि जीवानि विक्रीय का मृतेषु विचारणा
का तैले का घृते ब्रह्मन्मधुन्यप्स्वौषधेषु वा
१२.२५४.४३अदंशमशके देशे सुखं संवर्धितान्पशून्
तांश्च मातुः प्रियाञ्जानन्नाक्रम्य बहुधा नराः
बहुदंशकुशान्देशान्नयन्ति बहुकर्दमान्
१२.२५४.४४वाहसंपीडिता धुर्याः सीदन्त्यविधिनापरे
न मन्ये भ्रूणहत्यापि विशिष्टा तेन कर्मणा
१२.२५४.४५कृषिं साध्विति मन्यन्ते सा च वृत्तिः सुदारुणा
भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम्
तथैवानडुहो युक्तान्समवेक्षस्व जाजले
१२.२५४.४६अघ्न्या इति गवां नाम क एनान्हन्तुमर्हति
महच्चकाराकुशलं पृषध्रो गालभन्निव
१२.२५४.४७ऋषयो यतयो ह्येतन्नहुषे प्रत्यवेदयन्
गां मातरं चाप्यवधीर्वृषभं च प्रजापतिम्
अकार्यं नहुषाकार्षीर्लप्स्यामस्त्वत्कृते भयम्
१२.२५४.४८शतं चैकं च रोगाणां सर्वभूतेष्वपातयन्
ऋषयस्ते महाभागाः प्रजास्वेव हि जाजले
भ्रूणहं नहुषं त्वाहुर्न ते होष्यामहे हविः
१२.२५४.४९इत्युक्त्वा ते महात्मानः सर्वे तत्त्वार्थदर्शिनः
ऋषयो यतयः शान्तास्तरसा प्रत्यवेदयन्
१२.२५४.५०ईदृशानशिवान्घोरानाचारानिह जाजले
केवलाचरितत्वात्तु निपुणान्नावबुध्यसे
१२.२५४.५१कारणाद्धर्ममन्विच्छेन्न लोकचरितं चरेत्
यो हन्याद्यश्च मां स्तौति तत्रापि शृणु जाजले
१२.२५४.५२समौ तावपि मे स्यातां न हि मे स्तः प्रियाप्रिये
एतदीदृशकं धर्मं प्रशंसन्ति मनीषिणः
१२.२५४.५३उपपत्त्या हि संपन्नो यतिभिश्चैव सेव्यते
सततं धर्मशीलैश्च नैपुण्येनोपलक्षितः