१२.२६६.१युधिष्ठिर उवाच
१२.२६६.२मोक्षः पितामहेनोक्त उपायान्नानुपायतः
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत
१२.२६६.३भीष्म उवाच
१२.२६६.४त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्
यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ
१२.२६६.५करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ
एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम्
१२.२६६.६पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम्
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु
१२.२६६.७क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति
१२.२६६.८अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
१२.२६६.९भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत्
निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्
१२.२६६.१०उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात्
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्
१२.२६६.११अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्
१२.२६६.१२अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः
कारुण्येनात्मनो मानं तृष्णां च परितोषतः
१२.२६६.१३उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्
मौनेन बहुभाष्यं च शौर्येण च भयं जयेत्
१२.२६६.१४यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा
ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः
१२.२६६.१५तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः
१२.२६६.१६कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
परित्यज्य निषेवेत तथेमान्योगसाधनान्
१२.२६६.१७ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः
१२.२६६.१८एतैर्विवर्धते तेजः पाप्मानमपहन्ति च
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते
१२.२६६.१९धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
१२.२६६.२०अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः
१२.२६६.२१एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः
तथा वाक्कायमनसां नियमः कामतोऽन्यथा