१२.२६७.१भीष्म उवाच
१२.२६७.२अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं देवलस्यासितस्य च
१२.२६७.३आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्
१२.२६७.४कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम्
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे
१२.२६७.५असित उवाच
१२.२६७.६येभ्यः सृजति भूतानि कालो भावप्रचोदितः
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः
१२.२६७.७तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम्
१२.२६७.८विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान्
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः
१२.२६७.९आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम्
१२.२६७.१०नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम्
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः
१२.२६७.११पञ्चैव तानि कालश्च भावाभावौ च केवलौ
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ
१२.२६७.१२अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा
१२.२६७.१३तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम्
सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम्
१२.२६७.१४चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः
१२.२६७.१५दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा
१२.२६७.१६रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः
१२.२६७.१७रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान्
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते
१२.२६७.१८चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः
१२.२६७.१९पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति
इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति
१२.२६७.२०चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम्
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः
१२.२६७.२१पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम्
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि
१२.२६७.२२जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ
१२.२६७.२३पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके
१२.२६७.२४बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम्
ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया
१२.२६७.२५इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः
१२.२६७.२६इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्
१२.२६७.२७सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः
कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा
१२.२६७.२८आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः
सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः
१२.२६७.२९जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः
भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः
१२.२६७.३०इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः
तेषामष्टादशो देही यः शरीरे स शाश्वतः
१२.२६७.३१अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम्
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते
१२.२६७.३२अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम्
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम्
ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः
१२.२६७.३३महान्संधारयत्येतच्छरीरं वायुना सह
तस्यास्य भावयुक्तस्य निमित्तं देहभेदने
१२.२६७.३४यथैवोत्पद्यते किंचित्पञ्चत्वं गच्छते तथा
पुण्यपापविनाशान्ते पुण्यपापसमीरितम्
देहं विशति कालेन ततोऽयं कर्मसंभवम्
१२.२६७.३५हित्वा हित्वा ह्ययं प्रैति देहाद्देहं कृताश्रयः
कालसंचोदितः क्षेत्री विशीर्णाद्वा गृहाद्गृहम्
१२.२६७.३६तत्र नैवानुतप्यन्ते प्राज्ञा निश्चितनिश्चयाः
कृपणास्त्वनुतप्यन्ते जनाः संबन्धिमानिनः
१२.२६७.३७न ह्ययं कस्यचित्कश्चिन्नास्य कश्चन विद्यते
भवत्येको ह्ययं नित्यं शरीरे सुखदुःखभाक्
१२.२६७.३८नैव संजायते जन्तुर्न च जातु विपद्यते
याति देहमयं भुक्त्वा कदाचित्परमां गतिम्
१२.२६७.३९पुण्यपापमयं देहं क्षपयन्कर्मसंचयात्
क्षीणदेहः पुनर्देही ब्रह्मत्वमुपगच्छति
१२.२६७.४०पुण्यपापक्षयार्थं च सांख्यं ज्ञानं विधीयते
तत्क्षये ह्यस्य पश्यन्ति ब्रह्मभावे परां गतिम्