१२. शान्तिपर्व
१२.२६८.१युधिष्ठिर उवाच

१२.२६८.२भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा
अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः

१२.२६८.३येयमर्थोद्भवा तृष्णा कथमेतां पितामह
निवर्तयेम पापं हि तृष्णया कारिता वयम्

१२.२६८.४भीष्म उवाच

१२.२६८.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गीतं विदेहराजेन माण्डव्यायानुपृच्छते

१२.२६८.६सुसुखं बत जीवामि यस्य मे नास्ति किंचन
मिथिलायां प्रदीप्तायां न मे दह्यति किंचन

१२.२६८.७अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम्
असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान्

१२.२६८.८यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

१२.२६८.९यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते
तथैव तृष्णा वित्तेन वर्धमानेन वर्धते

१२.२६८.१०किंचिदेव ममत्वेन यदा भवति कल्पितम्
तदेव परितापाय नाशे संपद्यते पुनः

१२.२६८.११न कामाननुरुध्येत दुःखं कामेषु वै रतिः
प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत्

१२.२६८.१२विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत्
कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह

१२.२६८.१३उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये
भयाभये च संत्यज्य संप्रशान्तो निरामयः

१२.२६८.१४या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

१२.२६८.१५चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम्
धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम्

१२.२६८.१६राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः
पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः