१२.२६९.१युधिष्ठिर उवाच
१२.२६९.२किंशीलः किंसमाचारः किंविद्यः किंपरायणः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
१२.२६९.३भीष्म उवाच
१२.२६९.४मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्
१२.२६९.५स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्
१२.२६९.६न चक्षुषा न मनसा न वाचा दूषयेदपि
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्
१२.२६९.७न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
१२.२६९.८अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्
१२.२६९.९प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत्
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः
१२.२६९.१०अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत्
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः
१२.२६९.११विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः
१२.२६९.१२अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्
१२.२६९.१३लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः
१२.२६९.१४न चान्नदोषान्निन्देत न गुणानभिपूजयेत्
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्
१२.२६९.१५शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम्
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्
१२.२६९.१६अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि
१२.२६९.१७वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्विनयेद्वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात्
१२.२६९.१८मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः
एतत्पवित्रं परमं परिव्राजक आश्रमे
१२.२६९.१९महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः
अपूर्वचारकः सौम्यो अनिकेतः समाहितः
१२.२६९.२०वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्
१२.२६९.२१विजानतां मोक्ष एष श्रमः स्यादविजानताम्
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्
१२.२६९.२२अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते