१२. शान्तिपर्व
१२.२७०.१युधिष्ठिर उवाच

१२.२७०.२धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत
न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह

१२.२७०.३लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम
प्राप्य जातिं मनुष्येषु देवैरपि पितामह

१२.२७०.४कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम्
दुःखमेतच्छरीराणां धारणं कुरुसत्तम

१२.२७०.५विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः
इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह

१२.२७०.६न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः
कदा वयं भविष्यामो राज्यं हित्वा परंतप

१२.२७०.७भीष्म उवाच

१२.२७०.८नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम्
पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम्

१२.२७०.९न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः
उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ

१२.२७०.१०ईशोऽयं सततं देही नृपते पुण्यपापयोः
तत एव समुत्थेन तमसा रुध्यतेऽपि च

१२.२७०.११यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः
अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः

१२.२७०.१२तथा कर्मफलैर्देही रञ्जितस्तमसावृतः
विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते

१२.२७०.१३ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः
व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्

१२.२७०.१४अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः
त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसंघाः

१२.२७०.१५अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप
यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्

१२.२७०.१६निर्जितेनासहायेन हृतराज्येन भारत
अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्

१२.२७०.१७भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्
कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव

१२.२७०.१८वृत्र उवाच

१२.२७०.१९सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम्
न शोचामि न हृष्यामि भूतानामागतिं गतिम्

१२.२७०.२०कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः
परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः

१२.२७०.२१क्षपयित्वा तु तं कालं गणितं कालचोदिताः
सावशेषेण कालेन संभवन्ति पुनः पुनः

१२.२७०.२२तिर्यग्योनिसहस्राणि गत्वा नरकमेव च
निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः

१२.२७०.२३एवं संसरमाणानि जीवान्यहमदृष्टवान्
यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्

१२.२७०.२४तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च
सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च

१२.२७०.२५कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते
गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा

१२.२७०.२६भीष्म उवाच

१२.२७०.२७कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम्
तं भाषमाणं भगवानुशना प्रत्यभाषत
भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे

१२.२७०.२८वृत्र उवाच

१२.२७०.२९प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम्
मया यज्जयलुब्धेन पुरा तप्तं महत्तपः

१२.२७०.३०गन्धानादाय भूतानां रसांश्च विविधानपि
अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा

१२.२७०.३१ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा
अजेयः सर्वभूतानामासं नित्यमपेतभीः

१२.२७०.३२ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः
धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्

१२.२७०.३३युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना
ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः

१२.२७०.३४वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः
मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः

१२.२७०.३५नूनं तु तस्य तपसः सावशेषं ममास्ति वै
यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्

१२.२७०.३६ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम्
निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम्

१२.२७०.३७कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः
किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः

१२.२७०.३८केन वा कर्मणा शक्यमथ ज्ञानेन केन वा
ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि

१२.२७०.३९इतीदमुक्तः स मुनिस्तदानीं; प्रत्याह यत्तच्छृणु राजसिंह
मयोच्यमानं पुरुषर्षभ त्व;मनन्यचित्तः सह सोदरीयैः