१२. शान्तिपर्व
१२.२७२.१युधिष्ठिर उवाच

१२.२७२.२अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी

१२.२७२.३दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः
कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ

१२.२७२.४भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत
भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्

१२.२७२.५कथं विनिहतो वृत्रः शक्रेण भरतर्षभ
धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये

१२.२७२.६एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ
वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः

१२.२७२.७यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह
विस्तरेण महाबाहो परं कौतूहलं हि मे

१२.२७२.८भीष्म उवाच

१२.२७२.९रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा
ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्

१२.२७२.१०योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम
शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु

१२.२७२.११तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्
वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे

१२.२७२.१२शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत
भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्

१२.२७२.१३ततो नादः समभवद्वादित्राणां च निस्वनः
देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते

१२.२७२.१४अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम्
न संभ्रमो न भीः काचिदास्था वा समजायत

१२.२७२.१५ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम्
शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः

१२.२७२.१६असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः
शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः

१२.२७२.१७अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च
देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्

१२.२७२.१८पितामहपुरोगाश्च सर्वे देवगणास्तथा
ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्

१२.२७२.१९विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ
गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन्

१२.२७२.२०ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः
अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत्

१२.२७२.२१ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः
अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे

१२.२७२.२२वृत्रश्च कुरुशार्दूल महामायो महाबलः
मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः

१२.२७२.२३तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः
रथंतरेण तं तत्र वसिष्ठः समबोधयत्

१२.२७२.२४वसिष्ठ उवाच

१२.२७२.२५देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण
त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि

१२.२७२.२६एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः
सोमश्च भगवान्देवः सर्वे च परमर्षयः

१२.२७२.२७मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा
आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर

१२.२७२.२८एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः
निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर

१२.२७२.२९एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः
स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै

१२.२७२.३०भीष्म उवाच

१२.२७२.३१एवं संबोध्यमानस्य वसिष्ठेन महात्मना
अतीव वासवस्यासीद्बलमुत्तमतेजसः

१२.२७२.३२ततो बुद्धिमुपागम्य भगवान्पाकशासनः
योगेन महता युक्तस्तां मायां व्यपकर्षत

१२.२७२.३३ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः
दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम्
ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया

१२.२७२.३४ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः
समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा

१२.२७२.३५विष्णुश्च भगवान्देवः सर्वलोकाभिपूजितः
ऐन्द्रं समाविशद्वज्रं लोकसंरक्षणे रतः

१२.२७२.३६ततो बृहस्पतिर्धीमानुपागम्य शतक्रतुम्
वसिष्ठश्च महातेजाः सर्वे च परमर्षयः

१२.२७२.३७ते समासाद्य वरदं वासवं लोकपूजितम्
ऊचुरेकाग्रमनसो जहि वृत्रमिति प्रभो

१२.२७२.३८महेश्वर उवाच

१२.२७२.३९एष वृत्रो महाञ्शक्र बलेन महता वृतः
विश्वात्मा सर्वगश्चैव बहुमायश्च विश्रुतः

१२.२७२.४०तदेनमसुरश्रेष्ठं त्रैलोक्येनापि दुर्जयम्
जहि त्वं योगमास्थाय मावमंस्थाः सुरेश्वर

१२.२७२.४१अनेन हि तपस्तप्तं बलार्थममराधिप
षष्टिं वर्षसहस्राणि ब्रह्मा चास्मै वरं ददौ

१२.२७२.४२महत्त्वं योगिनां चैव महामायत्वमेव च
महाबलत्वं च तथा तेजश्चाग्र्यं सुरेश्वर

१२.२७२.४३एतद्वै मामकं तेजः समाविशति वासव
वृत्रमेनं त्वमप्येवं जहि वज्रेण दानवम्

१२.२७२.४४शक्र उवाच

१२.२७२.४५भगवंस्त्वत्प्रसादेन दितिजं सुदुरासदम्
वज्रेण निहनिष्यामि पश्यतस्ते सुरर्षभ

१२.२७२.४६भीष्म उवाच

१२.२७२.४७आविश्यमाने दैत्ये तु ज्वरेणाथ महासुरे
देवतानामृषीणां च हर्षान्नादो महानभूत्

१२.२७२.४८ततो दुन्दुभयश्चैव शङ्खाश्च सुमहास्वनाः
मुरजा डिण्डिमाश्चैव प्रावाद्यन्त सहस्रशः

१२.२७२.४९असुराणां तु सर्वेषां स्मृतिलोपोऽभवन्महान्
प्रज्ञानाशश्च बलवान्क्षणेन समपद्यत

१२.२७२.५०तमाविष्टमथो ज्ञात्वा ऋषयो देवतास्तथा
स्तुवन्तः शक्रमीशानं तथा प्राचोदयन्नपि

१२.२७२.५१रथस्थस्य हि शक्रस्य युद्धकाले महात्मनः
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्दृशम्