१२. शान्तिपर्व
१२.२७३.१भीष्म उवाच

१२.२७३.२वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु

१२.२७३.३ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम्
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान्
रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप

१२.२७३.४शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा
निष्पपात महाघोरा स्मृतिः सा तस्य भारत
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे

१२.२७३.५गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः

१२.२७३.६ततस्तं रथमास्थाय देवाप्यायितमाहवे
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत

१२.२७३.७अमानुषमथो नादं स मुमोच महासुरः
व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत्

१२.२७३.८स वज्रः सुमहातेजाः कालाग्निसदृशोपमः
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्

१२.२७३.९ततो नादः समभवत्पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ

१२.२७३.१०वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्

१२.२७३.११अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा

१२.२७३.१२करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत

१२.२७३.१३कपालमालिनी चैव कृशा च भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी

१२.२७३.१४साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
वज्रिणं मृगयामास तदा भरतसत्तम

१२.२७३.१५कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया

१२.२७३.१६बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम्
कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा

१२.२७३.१७स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये
नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्

१२.२७३.१८अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया
तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत

१२.२७३.१९तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्

१२.२७३.२०गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहमुपागम्य शिरसा प्रत्यपूजयत्

१२.२७३.२१ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया
ब्रह्मा संचिन्तयामास तदा भरतसत्तम

१२.२७३.२२तामुवाच महाबाहो ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत

१२.२७३.२३मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि

१२.२७३.२४ब्रह्महत्योवाच

१२.२७३.२५त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे

१२.२७३.२६त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापना वै सुमहती त्वया देव प्रवर्तिता

१२.२७३.२७प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो
शक्रादपगमिष्यामि निवासं तु विधत्स्व मे

१२.२७३.२८भीष्म उवाच

१२.२७३.२९तथेति तां प्राह तदा ब्रह्महत्यां पितामहः
उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत

१२.२७३.३०ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना
ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्

१२.२७३.३१प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति

१२.२७३.३२ब्रह्मोवाच

१२.२७३.३३बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम्
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे

१२.२७३.३४अग्निरुवाच

१२.२७३.३५मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित

१२.२७३.३६ब्रह्मोवाच

१२.२७३.३७यस्त्वां ज्वलन्तमासाद्य स्वयं वै मानवः क्वचित्
बीजौषधिरसैर्वह्ने न यक्ष्यति तमोवृतः

१२.२७३.३८तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
ब्रह्महत्या हव्यवाह व्येतु ते मानसो ज्वरः

१२.२७३.३९भीष्म उवाच

१२.२७३.४०इत्युक्तः प्रतिजग्राह तद्वचो हव्यकव्यभुक्
पितामहस्य भगवांस्तथा च तदभूत्प्रभो

१२.२७३.४१ततो वृक्षौषधितृणं समाहूय पितामहः
इममर्थं महाराज वक्तुं समुपचक्रमे

१२.२७३.४२ततो वृक्षौषधितृणं तथैवोक्तं यथातथम्
व्यथितं वह्निवद्राजन्ब्रह्माणमिदमब्रवीत्

१२.२७३.४३अस्माकं ब्रह्महत्यातो कोऽन्तो लोकपितामह
स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि

१२.२७३.४४वयमग्निं तथा शीतं वर्षं च पवनेरितम्
सहामः सततं देव तथा छेदनभेदनम्

१२.२७३.४५ब्रह्महत्यामिमामद्य भवतः शासनाद्वयम्
ग्रहीष्यामस्त्रिलोकेश मोक्षं चिन्तयतां भवान्

१२.२७३.४६ब्रह्मोवाच

१२.२७३.४७पर्वकाले तु संप्राप्ते यो वै छेदनभेदनम्
करिष्यति नरो मोहात्तमेषानुगमिष्यति

१२.२७३.४८भीष्म उवाच

१२.२७३.४९ततो वृक्षौषधितृणमेवमुक्तं महात्मना
ब्रह्माणमभिसंपूज्य जगामाशु यथागतम्

१२.२७३.५०आहूयाप्सरसो देवस्ततो लोकपितामहः
वाचा मधुरया प्राह सान्त्वयन्निव भारत

१२.२७३.५१इयमिन्द्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः
चतुर्थमस्या भागं हि मयोक्ताः संप्रतीच्छत

१२.२७३.५२अप्सरस ऊचुः

१२.२७३.५३ग्रहणे कृतबुद्धीनां देवेश तव शासनात्
मोक्षं समयतोऽस्माकं चिन्तयस्व पितामह

१२.२७३.५४ब्रह्मोवाच

१२.२७३.५५रजस्वलासु नारीषु यो वै मैथुनमाचरेत्
तमेषा यास्यति क्षिप्रं व्येतु वो मानसो ज्वरः

१२.२७३.५६भीष्म उवाच

१२.२७३.५७तथेति हृष्टमनस उक्त्वाथाप्सरसां गणाः
स्वानि स्थानानि संप्राप्य रेमिरे भरतर्षभ

१२.२७३.५८ततस्त्रिलोककृद्देवः पुनरेव महातपाः
अपः संचिन्तयामास ध्यातास्ताश्चाप्यथागमन्

१२.२७३.५९तास्तु सर्वाः समागम्य ब्रह्माणममितौजसम्
इदमूचुर्वचो राजन्प्रणिपत्य पितामहम्

१२.२७३.६०इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम
शासनात्तव देवेश समाज्ञापय नो विभो

१२.२७३.६१ब्रह्मोवाच

१२.२७३.६२इयं वृत्रादनुप्राप्ता पुरुहूतं महाभया
ब्रह्महत्या चतुर्थांशमस्या यूयं प्रतीच्छत

१२.२७३.६३आप ऊचुः

१२.२७३.६४एवं भवतु लोकेश यथा वदसि नः प्रभो
मोक्षं समयतोऽस्माकं संचिन्तयितुमर्हसि

१२.२७३.६५त्वं हि देवेश सर्वस्य जगतः परमो गुरुः
कोऽन्यः प्रसादो हि भवेद्यः कृच्छ्रान्नः समुद्धरेत्

१२.२७३.६६ब्रह्मोवाच

१२.२७३.६७अल्पा इति मतिं कृत्वा यो नरो बुद्धिमोहितः
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति

१२.२७३.६८तमेषा यास्यति क्षिप्रं तत्रैव च निवत्स्यति
तथा वो भविता मोक्ष इति सत्यं ब्रवीमि वः

१२.२७३.६९भीष्म उवाच

१२.२७३.७०ततो विमुच्य देवेन्द्रं ब्रह्महत्या युधिष्ठिर
यथानिसृष्टं तं देशमगच्छद्देवशासनात्

१२.२७३.७१एवं शक्रेण संप्राप्ता ब्रह्महत्या जनाधिप
पितामहमनुज्ञाप्य सोऽश्वमेधमकल्पयत्

१२.२७३.७२श्रूयते हि महाराज संप्राप्ता वासवेन वै
ब्रह्महत्या ततः शुद्धिं हयमेधेन लब्धवान्

१२.२७३.७३समवाप्य श्रियं देवो हत्वारींश्च सहस्रशः
प्रहर्षमतुलं लेभे वासवः पृथिवीपते

१२.२७३.७४वृत्रस्य रुधिराच्चैव खुखुण्डाः पार्थ जज्ञिरे
द्विजातिभिरभक्ष्यास्ते दीक्षितैश्च तपोधनैः

१२.२७३.७५सर्वावस्थं त्वमप्येषां द्विजातीनां प्रियं कुरु
इमे हि भूतले देवाः प्रथिताः कुरुनन्दन

१२.२७३.७६एवं शक्रेण कौरव्य बुद्धिसौक्ष्म्यान्महासुरः
उपायपूर्वं निहतो वृत्रोऽथामिततेजसा

१२.२७३.७७एवं त्वमपि कौरव्य पृथिव्यामपराजितः
भविष्यसि यथा देवः शतक्रतुरमित्रहा

१२.२७३.७८ये तु शक्रकथां दिव्यामिमां पर्वसु पर्वसु
विप्रमध्ये पठिष्यन्ति न ते प्राप्स्यन्ति किल्बिषम्

१२.२७३.७९इत्येतद्वृत्रमाश्रित्य शक्रस्यात्यद्भुतं महत्
कथितं कर्म ते तात किं भूयः श्रोतुमिच्छसि