१२. शान्तिपर्व
१२.२७४.१युधिष्ठिर उवाच

१२.२७४.२पितामह महाप्राज्ञ सर्वशास्त्रविशारद
अस्ति वृत्रवधादेव विवक्षा मम जायते

१२.२७४.३ज्वरेण मोहितो वृत्रः कथितस्ते जनाधिप
निहतो वासवेनेह वज्रेणेति ममानघ

१२.२७४.४कथमेष महाप्राज्ञ ज्वरः प्रादुरभूत्कुतः
ज्वरोत्पत्तिं निपुणतः श्रोतुमिच्छाम्यहं प्रभो

१२.२७४.५भीष्म उवाच

१२.२७४.६शृणु राजञ्ज्वरस्येह संभवं लोकविश्रुतम्
विस्तरं चास्य वक्ष्यामि यादृशं चैव भारत

१२.२७४.७पुरा मेरोर्महाराज शृङ्गं त्रैलोक्यविश्रुतम्
ज्योतिष्कं नाम सावित्रं सर्वरत्नविभूषितम्
अप्रमेयमनाधृष्यं सर्वलोकेषु भारत

१२.२७४.८तत्र देवो गिरितटे हेमधातुविभूषिते
पर्यङ्क इव विभ्राजन्नुपविष्टो बभूव ह

१२.२७४.९शैलराजसुता चास्य नित्यं पार्श्वे स्थिता बभौ
तथा देवा महात्मानो वसवश्च महौजसः

१२.२७४.१०तथैव च महात्मानावश्विनौ भिषजां वरौ
तथा वैश्रवणो राजा गुह्यकैरभिसंवृतः

१२.२७४.११यक्षाणामधिपः श्रीमान्कैलासनिलयः प्रभुः
अङ्गिरःप्रमुखाश्चैव तथा देवर्षयोऽपरे

१२.२७४.१२विश्वावसुश्च गन्धर्वस्तथा नारदपर्वतौ
अप्सरोगणसंघाश्च समाजग्मुरनेकशः

१२.२७४.१३ववौ शिवः सुखो वायुर्नानागन्धवहः शुचिः
सर्वर्तुकुसुमोपेताः पुष्पवन्तो महाद्रुमाः

१२.२७४.१४तथा विद्याधराश्चैव सिद्धाश्चैव तपोधनाः
महादेवं पशुपतिं पर्युपासन्त भारत

१२.२७४.१५भूतानि च महाराज नानारूपधराण्यथ
राक्षसाश्च महारौद्राः पिशाचाश्च महाबलाः

१२.२७४.१६बहुरूपधरा हृष्टा नानाप्रहरणोद्यताः
देवस्यानुचरास्तत्र तस्थिरे चानलोपमाः

१२.२७४.१७नन्दी च भगवांस्तत्र देवस्यानुमते स्थितः
प्रगृह्य ज्वलितं शूलं दीप्यमानं स्वतेजसा

१२.२७४.१८गङ्गा च सरितां श्रेष्ठा सर्वतीर्थजलोद्भवा
पर्युपासत तं देवं रूपिणी कुरुनन्दन

१२.२७४.१९एवं स भगवांस्तत्र पूज्यमानः सुरर्षिभिः
देवैश्च सुमहाभागैर्महादेवो व्यतिष्ठत

१२.२७४.२०कस्यचित्त्वथ कालस्य दक्षो नाम प्रजापतिः
पूर्वोक्तेन विधानेन यक्ष्यमाणोऽन्वपद्यत

१२.२७४.२१ततस्तस्य मखं देवाः सर्वे शक्रपुरोगमाः
गमनाय समागम्य बुद्धिमापेदिरे तदा

१२.२७४.२२ते विमानैर्महात्मानो ज्वलितैर्ज्वलनप्रभाः
देवस्यानुमतेऽगच्छन्गङ्गाद्वारमिति श्रुतिः

१२.२७४.२३प्रस्थिता देवता दृष्ट्वा शैलराजसुता तदा
उवाच वचनं साध्वी देवं पशुपतिं पतिम्

१२.२७४.२४भगवन्क्व नु यान्त्येते देवाः शक्रपुरोगमाः
ब्रूहि तत्त्वेन तत्त्वज्ञ संशयो मे महानयम्

१२.२७४.२५महेश्वर उवाच

१२.२७४.२६दक्षो नाम महाभागे प्रजानां पतिरुत्तमः
हयमेधेन यजते तत्र यान्ति दिवौकसः

१२.२७४.२७उमा उवाच

१२.२७४.२८यज्ञमेतं महाभाग किमर्थं नाभिगच्छसि
केन वा प्रतिषेधेन गमनं ते न विद्यते

१२.२७४.२९महेश्वर उवाच

१२.२७४.३०सुरैरेव महाभागे सर्वमेतदनुष्ठितम्
यज्ञेषु सर्वेषु मम न भाग उपकल्पितः

१२.२७४.३१पूर्वोपायोपपन्नेन मार्गेण वरवर्णिनि
न मे सुराः प्रयच्छन्ति भागं यज्ञस्य धर्मतः

१२.२७४.३२उमा उवाच

१२.२७४.३३भगवन्सर्वभूतेषु प्रभवाभ्यधिको गुणैः
अजेयश्चाप्रधृष्यश्च तेजसा यशसा श्रिया

१२.२७४.३४अनेन ते महाभाग प्रतिषेधेन भागतः
अतीव दुःखमुत्पन्नं वेपथुश्च ममानघ

१२.२७४.३५भीष्म उवाच

१२.२७४.३६एवमुक्त्वा तु सा देवी देवं पशुपतिं पतिम्
तूष्णींभूताभवद्राजन्दह्यमानेन चेतसा

१२.२७४.३७अथ देव्या मतं ज्ञात्वा हृद्गतं यच्चिकीर्षितम्
स समाज्ञापयामास तिष्ठ त्वमिति नन्दिनम्

१२.२७४.३८ततो योगबलं कृत्वा सर्वयोगेश्वरेश्वरः
तं यज्ञं सुमहातेजा भीमैरनुचरैस्तदा
सहसा घातयामास देवदेवः पिनाकधृक्

१२.२७४.३९केचिन्नादानमुञ्चन्त केचिद्धासांश्च चक्रिरे
रुधिरेणापरे राजंस्तत्राग्निं समवाकिरन्

१२.२७४.४०केचिद्यूपान्समुत्पाट्य बभ्रमुर्विकृताननाः
आस्यैरन्ये चाग्रसन्त तथैव परिचारकान्

१२.२७४.४१ततः स यज्ञो नृपते वध्यमानः समन्ततः
आस्थाय मृगरूपं वै खमेवाभ्यपतत्तदा

१२.२७४.४२तं तु यज्ञं तथारूपं गच्छन्तमुपलभ्य सः
धनुरादाय बाणं च तदान्वसरत प्रभुः

१२.२७४.४३ततस्तस्य सुरेशस्य क्रोधादमिततेजसः
ललाटात्प्रसृतो घोरः स्वेदबिन्दुर्बभूव ह

१२.२७४.४४तस्मिन्पतितमात्रे तु स्वेदबिन्दौ तथा भुवि
प्रादुर्बभूव सुमहानग्निः कालानलोपमः

१२.२७४.४५तत्र चाजायत तदा पुरुषः पुरुषर्षभ
ह्रस्वोऽतिमात्ररक्ताक्षो हरिश्मश्रुर्विभीषणः

१२.२७४.४६ऊर्ध्वकेशोऽतिलोमाङ्गः श्येनोलूकस्तथैव च
करालः कृष्णवर्णश्च रक्तवासास्तथैव च

१२.२७४.४७तं यज्ञं स महासत्त्वोऽदहत्कक्षमिवानलः
देवाश्चाप्यद्रवन्सर्वे ततो भीता दिशो दश

१२.२७४.४८तेन तस्मिन्विचरता पुरुषेण विशां पते
पृथिवी व्यचलद्राजन्नतीव भरतर्षभ

१२.२७४.४९हाहाभूते प्रवृत्ते तु नादे लोकभयंकरे
पितामहो महादेवं दर्शयन्प्रत्यभाषत

१२.२७४.५०भवतोऽपि सुराः सर्वे भागं दास्यन्ति वै प्रभो
क्रियतां प्रतिसंहारः सर्वदेवेश्वर त्वया

१२.२७४.५१इमा हि देवताः सर्वा ऋषयश्च परंतप
तव क्रोधान्महादेव न शान्तिमुपलेभिरे

१२.२७४.५२यश्चैष पुरुषो जातः स्वेदात्ते विबुधोत्तम
ज्वरो नामैष धर्मज्ञ लोकेषु प्रचरिष्यति

१२.२७४.५३एकीभूतस्य न ह्यस्य धारणे तेजसः प्रभो
समर्था सकला पृथ्वी बहुधा सृज्यतामयम्

१२.२७४.५४इत्युक्तो ब्रह्मणा देवो भागे चापि प्रकल्पिते
भगवन्तं तथेत्याह ब्रह्माणममितौजसम्

१२.२७४.५५परां च प्रीतिमगमदुत्स्मयंश्च पिनाकधृक्
अवाप च तदा भागं यथोक्तं ब्रह्मणा भवः

१२.२७४.५६ज्वरं च सर्वधर्मज्ञो बहुधा व्यसृजत्तदा
शान्त्यर्थं सर्वभूतानां शृणु तच्चापि पुत्रक

१२.२७४.५७शीर्षाभितापो नागानां पर्वतानां शिलाजतुः
अपां तु नीलिकां विद्यान्निर्मोकं भुजगेषु च

१२.२७४.५८खोरकः सौरभेयाणामूषरं पृथिवीतले
पशूनामपि धर्मज्ञ दृष्टिप्रत्यवरोधनम्

१२.२७४.५९रन्ध्रागतमथाश्वानां शिखोद्भेदश्च बर्हिणाम्
नेत्ररोगः कोकिलानां ज्वरः प्रोक्तो महात्मना

१२.२७४.६०अब्जानां पित्तभेदश्च सर्वेषामिति नः श्रुतम्
शुकानामपि सर्वेषां हिक्किका प्रोच्यते ज्वरः

१२.२७४.६१शार्दूलेष्वथ धर्मज्ञ श्रमो ज्वर इहोच्यते
मानुषेषु तु धर्मज्ञ ज्वरो नामैष विश्रुतः
मरणे जन्मनि तथा मध्ये चाविशते नरम्

१२.२७४.६२एतन्माहेश्वरं तेजो ज्वरो नाम सुदारुणः
नमस्यश्चैव मान्यश्च सर्वप्राणिभिरीश्वरः

१२.२७४.६३अनेन हि समाविष्टो वृत्रो धर्मभृतां वरः
व्यजृम्भत ततः शक्रस्तस्मै वज्रमवासृजत्

१२.२७४.६४प्रविश्य वज्रो वृत्रं तु दारयामास भारत
दारितश्च स वज्रेण महायोगी महासुरः
जगाम परमं स्थानं विष्णोरमिततेजसः

१२.२७४.६५विष्णुभक्त्या हि तेनेदं जगद्व्याप्तमभूत्पुरा
तस्माच्च निहतो युद्धे विष्णोः स्थानमवाप्तवान्

१२.२७४.६६इत्येष वृत्रमाश्रित्य ज्वरस्य महतो मया
विस्तरः कथितः पुत्र किमन्यत्प्रब्रवीमि ते

१२.२७४.६७इमां ज्वरोत्पत्तिमदीनमानसः; पठेत्सदा यः सुसमाहितो नरः
विमुक्तरोगः स सुखी मुदा युतो; लभेत कामान्स यथामनीषितान्