१२.२७५.१युधिष्ठिर उवाच
१२.२७५.२शोकाद्दुःखाच्च मृत्योश्च त्रस्यन्ति प्राणिनः सदा
उभयं मे यथा न स्यात्तन्मे ब्रूहि पितामह
१२.२७५.३भीष्म उवाच
१२.२७५.४अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं समङ्गस्य च भारत
१२.२७५.५नारद उवाच
१२.२७५.६उरसेव प्रणमसे बाहुभ्यां तरसीव च
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे
१२.२७५.७उद्वेगं नेह ते किंचित्सुसूक्ष्ममपि लक्षये
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे
१२.२७५.८समङ्ग उवाच
१२.२७५.९भूतं भव्यं भविष्यच्च सर्वं सत्त्वेषु मानद
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्
१२.२७५.१०उपक्रमानहं वेद पुनरेव फलोदयान्
लोके फलानि चित्राणि ततो न विमना ह्यहम्
१२.२७५.११अगाधाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः
१२.२७५.१२विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय
१२.२७५.१३सहस्रिणश्च जीवन्ति जीवन्ति शतिनस्तथा
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः
१२.२७५.१४यदा न शोचेमहि किं नु न स्या;द्धर्मेण वा नारद कर्मणा वा
कृतान्तवश्यानि यदा सुखानि; दुःखानि वा यन्न विधर्षयन्ति
१२.२७५.१५यस्मै प्रज्ञां कथयन्ते मनुष्याः; प्रज्ञामूलो हीन्द्रियाणां प्रसादः
मुह्यन्ति शोचन्ति यदेन्द्रियाणि; प्रज्ञालाभो नास्ति मूढेन्द्रियस्य
१२.२७५.१६मूढस्य दर्पः स पुनर्मोह एव; मूढस्य नायं न परोऽस्ति लोकः
न ह्येव दुःखानि सदा भवन्ति; सुखस्य वा नित्यशो लाभ एव
१२.२७५.१७भावात्मकं संपरिवर्तमानं; न मादृशः संज्वरं जातु कुर्यात्
इष्टान्भोगान्नानुरुध्येत्सुखं वा; न चिन्तयेद्दुःखमभ्यागतं वा
१२.२७५.१८समाहितो न स्पृहयेत्परेषां; नानागतं नाभिनन्देत लाभम्
न चापि हृष्येद्विपुलेऽर्थलाभे; तथार्थनाशे च न वै विषीदेत्
१२.२७५.१९न बान्धवा न च वित्तं न कौली; न च श्रुतं न च मन्त्रा न वीर्यम्
दुःखात्त्रातुं सर्व एवोत्सहन्ते; परत्र शीले न तु यान्ति शान्तिम्
१२.२७५.२०नास्ति बुद्धिरयुक्तस्य नायोगाद्विद्यते सुखम्
धृतिश्च दुःखत्यागश्चाप्युभयं नः सुखोदयम्
१२.२७५.२१प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः
उत्सेको नरकायैव तस्मात्तं संत्यजाम्यहम्
१२.२७५.२२एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्
१२.२७५.२३अर्थकामौ परित्यज्य विशोको विगतज्वरः
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्
१२.२७५.२४न मृत्युतो न चाधर्मान्न लोभान्न कुतश्चन
पीतामृतस्येवात्यन्तमिह चामुत्र वा भयम्
१२.२७५.२५एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्
तेन नारद संप्राप्तो न मां शोकः प्रबाधते