१२.२७६.१युधिष्ठिर उवाच
१२.२७६.२अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह
१२.२७६.३भीष्म उवाच
१२.२७६.४गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते
१२.२७६.५अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गालवस्य च संवादं देवर्षेर्नारदस्य च
१२.२७६.६वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्
श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत्
१२.२७६.७यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम्
१२.२७६.८भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्
१२.२७६.९ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति
१२.२७६.१०भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः
इदं श्रेय इदं श्रेय इति नानाप्रधाविताः
१२.२७६.११तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे
१२.२७६.१२शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्
१२.२७६.१३एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम्
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः
१२.२७६.१४नारद उवाच
१२.२७६.१५आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव
१२.२७६.१६तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक्
नयन्ति चैव ते सम्यगभिप्रेतमसंशयम्
१२.२७६.१७ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम्
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम्
१२.२७६.१८अनुग्रहं च मित्राणाममित्राणां च निग्रहम्
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः
१२.२७६.१९निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्
१२.२७६.२०मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्
१२.२७६.२१देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्
१२.२७६.२२सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम्
१२.२७६.२३अहंकारस्य च त्यागः प्रणयस्य च निग्रहः
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते
१२.२७६.२४धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम्
१२.२७६.२५शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्
नात्यर्थमुपसेवेत श्रेयसोऽर्थी परंतप
१२.२७६.२६नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्
१२.२७६.२७कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्
१२.२७६.२८निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात्
१२.२७६.२९अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात्
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः
१२.२७६.३०अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः
१२.२७६.३१अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः
तथैवाव्याहरन्भाति विमलो भानुरम्बरे
१२.२७६.३२एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च
१२.२७६.३३न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते
१२.२७६.३४असन्नुच्चैरपि प्रोक्तः शब्दः समुपशाम्यति
दीप्यते त्वेव लोकेषु शनैरपि सुभाषितम्
१२.२७६.३५मूढानामवलिप्तानामसारं भाषितं बहु
दर्शयत्यन्तरात्मानं दिवा रूपमिवांशुमान्
१२.२७६.३६एतस्मात्कारणात्प्रज्ञां मृगयन्ते पृथग्विधाम्
प्रज्ञालाभो हि भूतानामुत्तमः प्रतिभाति माम्
१२.२७६.३७नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः
ज्ञानवानपि मेधावी जडवल्लोकमाचरेत्
१२.२७६.३८ततो वासं परीक्षेत धर्मनित्येषु साधुषु
मनुष्येषु वदान्येषु स्वधर्मनिरतेषु च
१२.२७६.३९चतुर्णां यत्र वर्णानां धर्मव्यतिकरो भवेत्
न तत्र वासं कुर्वीत श्रेयोर्थी वै कथंचन
१२.२७६.४०निरारम्भोऽप्ययमिह यथालब्धोपजीवनः
पुण्यं पुण्येषु विमलं पापं पापेषु चाप्नुयात्
१२.२७६.४१अपामग्नेस्तथेन्दोश्च स्पर्शं वेदयते यथा
तथा पश्यामहे स्पर्शमुभयोः पापपुण्ययोः
१२.२७६.४२अपश्यन्तोऽन्नविषयं भुञ्जते विघसाशिनः
भुञ्जानं चान्नविषयान्विषयं विद्धि कर्मणाम्
१२.२७६.४३यत्रागमयमानानामसत्कारेण पृच्छताम्
प्रब्रूयाद्ब्रह्मणो धर्मं त्यजेत्तं देशमात्मवान्
१२.२७६.४४शिष्योपाध्यायिका वृत्तिर्यत्र स्यात्सुसमाहिता
यथावच्छास्त्रसंपन्ना कस्तं देशं परित्यजेत्
१२.२७६.४५आकाशस्था ध्रुवं यत्र दोषं ब्रूयुर्विपश्चिताम्
आत्मपूजाभिकामा वै को वसेत्तत्र पण्डितः
१२.२७६.४६यत्र संलोडिता लुब्धैः प्रायशो धर्मसेतवः
प्रदीप्तमिव शैलान्तं कस्तं देशं न संत्यजेत्
१२.२७६.४७यत्र धर्ममनाशङ्काश्चरेयुर्वीतमत्सराः
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु
१२.२७६.४८धर्ममर्थनिमित्तं तु चरेयुर्यत्र मानवाः
न ताननुवसेज्जातु ते हि पापकृतो जनाः
१२.२७६.४९कर्मणा यत्र पापेन वर्तन्ते जीवितेस्पवः
व्यवधावेत्ततस्तूर्णं ससर्पाच्छरणादिव
१२.२७६.५०येन खट्वां समारूढः कर्मणानुशयी भवेत्
आदितस्तन्न कर्तव्यमिच्छता भवमात्मनः
१२.२७६.५१यत्र राजा च राज्ञश्च पुरुषाः प्रत्यनन्तराः
कुटुम्बिनामग्रभुजस्त्यजेत्तद्राष्ट्रमात्मवान्
१२.२७६.५२श्रोत्रियास्त्वग्रभोक्तारो धर्मनित्याः सनातनाः
याजनाध्यापने युक्ता यत्र तद्राष्ट्रमावसेत्
१२.२७६.५३स्वाहास्वधावषट्कारा यत्र सम्यगनुष्ठिताः
अजस्रं चैव वर्तन्ते वसेत्तत्राविचारयन्
१२.२७६.५४अशुचीन्यत्र पश्येत ब्राह्मणान्वृत्तिकर्शितान्
त्यजेत्तद्राष्ट्रमासन्नमुपसृष्टमिवामिषम्
१२.२७६.५५प्रीयमाणा नरा यत्र प्रयच्छेयुरयाचिताः
स्वस्थचित्तो वसेत्तत्र कृतकृत्य इवात्मवान्
१२.२७६.५६दण्डो यत्राविनीतेषु सत्कारश्च कृतात्मसु
चरेत्तत्र वसेच्चैव पुण्यशीलेषु साधुषु
१२.२७६.५७उपसृष्टेष्वदान्तेषु दुराचारेष्वसाधुषु
अविनीतेषु लुब्धेषु सुमहद्दण्डधारणम्
१२.२७६.५८यत्र राजा धर्मनित्यो राज्यं वै पर्युपासिता
अपास्य कामान्कामेशो वसेत्तत्राविचारयन्
१२.२७६.५९तथाशीला हि राजानः सर्वान्विषयवासिनः
श्रेयसा योजयन्त्याशु श्रेयसि प्रत्युपस्थिते
१२.२७६.६०पृच्छतस्ते मया तात श्रेय एतदुदाहृतम्
न हि शक्यं प्रधानेन श्रेयः संख्यातुमात्मनः
१२.२७६.६१एवं प्रवर्तमानस्य वृत्तिं प्रणिहितात्मनः
तपसैवेह बहुलं श्रेयो व्यक्तं भविष्यति