१२. शान्तिपर्व
१२.२७७.१युधिष्ठिर उवाच

१२.२७७.२कथं नु मुक्तः पृथिवीं चरेदस्मद्विधो नृपः
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते

१२.२७७.३भीष्म उवाच

१२.२७७.४अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते

१२.२७७.५सगर उवाच

१२.२७७.६किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम्

१२.२७७.७भीष्म उवाच

१२.२७७.८एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविशारदः
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत्

१२.२७७.९सुखं मोक्षसुखं लोके न च लोकोऽवगच्छति
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः

१२.२७७.१०सक्तबुद्धिरशान्तात्मा न स शक्यश्चिकित्सितुम्
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते

१२.२७७.११स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता

१२.२७७.१२संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च
समर्थाञ्जीवने ज्ञात्वा मुक्तश्चर यथासुखम्

१२.२७७.१३भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम्
ज्ञात्वा प्रजहि काले त्वं परार्थमनुदृश्य च

१२.२७७.१४सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम्
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि

१२.२७७.१५कृतकौतूहलस्तेषु मुक्तश्चर यथासुखम्
उपपत्त्योपलब्धेषु लाभेषु च समो भव

१२.२७७.१६एष तावत्समासेन तव संकीर्तितो मया
मोक्षार्थो विस्तरेणापि भूयो वक्ष्यामि तच्छृणु

१२.२७७.१७मुक्ता वीतभया लोके चरन्ति सुखिनो नराः
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः

१२.२७७.१८आहारसंचयाश्चैव तथा कीटपिपीलिकाः
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः

१२.२७७.१९स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना
इमे मया विनाभूता भविष्यन्ति कथं त्विति

१२.२७७.२०स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति

१२.२७७.२१भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम्
स्वकृतेनाधिगच्छन्ति लोके नास्त्यकृतं पुरा

१२.२७७.२२धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम्
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः

१२.२७७.२३स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा
को हेतुः स्वजनं पोष्टुं रक्षितुं वादृढात्मनः

१२.२७७.२४स्वजनं हि यदा मृत्युर्हन्त्येव तव पश्यतः
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना

१२.२७७.२५जीवन्तमपि चैवैनं भरणे रक्षणे तथा
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि

१२.२७७.२६यदा मृतश्च स्वजनं न ज्ञास्यसि कथंचन
सुखितं दुःखितं वापि ननु बोद्धव्यमात्मना

१२.२७७.२७मृते वा त्वयि जीवे वा यदि भोक्ष्यति वै जनः
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः

१२.२७७.२८एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः
मोक्षे निवेशय मनो भूयश्चाप्युपधारय

१२.२७७.२९क्षुत्पिपासादयो भावा जिता यस्येह देहिनः
क्रोधो लोभस्तथा मोहः सत्त्ववान्मुक्त एव सः

१२.२७७.३०द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः
न प्रमाद्यति संमोहात्सततं मुक्त एव सः

१२.२७७.३१दिवसे दिवसे नाम रात्रौ रात्रौ सदा सदा
भोक्तव्यमिति यः खिन्नो दोषबुद्धिः स उच्यते

१२.२७७.३२आत्मभावं तथा स्त्रीषु मुक्तमेव पुनः पुनः
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः

१२.२७७.३३संभवं च विनाशं च भूतानां चेष्टितं तथा
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः

१२.२७७.३४प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु
प्रासादे मञ्चकस्थानं यः पश्यति स मुच्यते

१२.२७७.३५मृत्युनाभ्याहतं लोकं व्याधिभिश्चोपपीडितम्
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते

१२.२७७.३६यः पश्यति सुखी तुष्टो नपश्यंश्च विहन्यते
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः

१२.२७७.३७अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः

१२.२७७.३८पर्यङ्कशय्या भूमिश्च समाने यस्य देहिनः
शालयश्च कदन्नं च यस्य स्यान्मुक्त एव सः

१२.२७७.३९क्षौमं च कुशचीरं च कौशेयं वल्कलानि च
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः

१२.२७७.४०पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति
तथा च वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः

१२.२७७.४१सुखदुःखे समे यस्य लाभालाभौ जयाजयौ
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः

१२.२७७.४२रक्तमूत्रपुरीषाणां दोषाणां संचयं तथा
शरीरं दोषबहुलं दृष्ट्वा चेदं विमुच्यते

१२.२७७.४३वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च
कुब्जभावं च जरया यः पश्यति स मुच्यते

१२.२७७.४४पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते

१२.२७७.४५गतानृषींस्तथा देवानसुरांश्च तथा गतान्
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते

१२.२७७.४६प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते

१२.२७७.४७अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते

१२.२७७.४८अपत्यानां च वैगुण्यं जनं विगुणमेव च
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत्

१२.२७७.४९शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः
असारमिव मानुष्यं सर्वथा मुक्त एव सः

१२.२७७.५०एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत्
गार्हस्थ्ये यदि ते मोक्षे कृता बुद्धिरविक्लवा

१२.२७७.५१तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः