१२. शान्तिपर्व
१२.२७८.१युधिष्ठिर उवाच

१२.२७८.२तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह

१२.२७८.३कथं देवर्षिरुशना सदा काव्यो महामतिः
असुराणां प्रियकरः सुराणामप्रिये रतः

१२.२७८.४वर्धयामास तेजश्च किमर्थममितौजसाम्
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः

१२.२७८.५कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे

१२.२७८.६न याति च स तेजस्वी मध्येन नभसः कथम्
एतदिच्छामि विज्ञातुं निखिलेन पितामह

१२.२७८.७भीष्म उवाच

१२.२७८.८शृणु राजन्नवहितः सर्वमेतद्यथातथम्
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ

१२.२७८.९एष भार्गवदायादो मुनिः सत्यो दृढव्रतः
असुराणां प्रियकरो निमित्ते करुणात्मके

१२.२७८.१०इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः

१२.२७८.११तस्यात्मानमथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु

१२.२७८.१२हृते धने ततः शर्म न लेभे धनदस्तथा
आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम्

१२.२७८.१३निवेदयामास तदा शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे

१२.२७८.१४कुबेर उवाच

१२.२७८.१५योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः

१२.२७८.१६भीष्म उवाच

१२.२७८.१७एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो राजञ्शूलमादाय तस्थिवान्

१२.२७८.१८क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम्
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्

१२.२७८.१९स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः

१२.२७८.२०संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत

१२.२७८.२१विज्ञातरूपः स तदा तपःसिद्धेन धन्विना
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्

१२.२७८.२२आनतेनाथ शूलेन पाणिनामिततेजसा
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः

१२.२७८.२३पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः
आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः

१२.२७८.२४स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः

१२.२७८.२५युधिष्ठिर उवाच

१२.२७८.२६किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः

१२.२७८.२७भीष्म उवाच

१२.२७८.२८पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च

१२.२७८.२९उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात्
ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत

१२.२७८.३०तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम्
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः

१२.२७८.३१तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा

१२.२७८.३२स तेनाढ्यो महायोगी तपसा च धनेन च
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्

१२.२७८.३३ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समुद्विग्नो निलिल्ये जठरे ततः

१२.२७८.३४तुष्टाव च महायोगी देवं तत्रस्थ एव च
निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत

१२.२७८.३५उशना तु तदोवाच जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम

१२.२७८.३६तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः

१२.२७८.३७अपश्यमानः स द्वारं सर्वतःपिहितो मुनिः
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा

१२.२७८.३८स विनिष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान्
कार्येण तेन नभसो नागच्छत च मध्यतः

१२.२७८.३९निष्क्रान्तमथ तं दृष्ट्वा ज्वलन्तमिव तेजसा
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः

१२.२७८.४०न्यवारयत तं देवी क्रुद्धं पशुपतिं पतिम्
पुत्रत्वमगमद्देव्या वारिते शंकरे च सः

१२.२७८.४१देव्युवाच

१२.२७८.४२हिंसनीयस्त्वया नैष मम पुत्रत्वमागतः
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्छति

१२.२७८.४३भीष्म उवाच

१२.२७८.४४ततः प्रीतोऽभवद्देव्याः प्रहसंश्चेदमब्रवीत्
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः

१२.२७८.४५ततः प्रणम्य वरदं देवं देवीमुमां तथा
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः

१२.२७८.४६एतत्ते कथितं तात भार्गवस्य महात्मनः
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि