१२.२८.१वैशंपायन उवाच
१२.२८.२ज्ञातिशोकाभितप्तस्य प्राणानभ्युत्सिसृक्षतः
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत्
१२.२८.३व्यास उवाच
१२.२८.४अत्राप्युदाहरन्तीममितिहासं पुरातनम्
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर
१२.२८.५अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः
संशयं परिपप्रच्छ दुःखशोकपरिप्लुतः
१२.२८.६जनक उवाच
१२.२८.७आगमे यदि वापाये ज्ञातीनां द्रविणस्य च
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता
१२.२८.८अश्मोवाच
१२.२८.९उत्पन्नमिममात्मानं नरस्यानन्तरं ततः
तानि तान्यभिवर्तन्ते दुःखानि च सुखानि च
१२.२८.१०तेषामन्यतरापत्तौ यद्यदेवोपसेवते
तत्तद्धि चेतनामस्य हरत्यभ्रमिवानिलः
१२.२८.११अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः
इत्येवं हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यति
१२.२८.१२स प्रसिक्तमना भोगान्विसृज्य पितृसंचितान्
परिक्षीणः परस्वानामादानं साधु मन्यते
१२.२८.१३तमतिक्रान्तमर्यादमाददानमसांप्रतम्
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः
१२.२८.१४ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव
१२.२८.१५तेषां परमदुःखानां बुद्ध्या भेषजमादिशेत्
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः
१२.२८.१६मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते
१२.२८.१७एवमेतानि दुःखानि तानि तानीह मानवम्
विविधान्युपवर्तन्ते तथा सांस्पर्शकानि च
१२.२८.१८जरामृत्यू ह भूतानि खादितारौ वृकाविव
बलिनां दुर्बलानां च ह्रस्वानां महतामपि
१२.२८.१९न कश्चिज्जात्वतिक्रामेज्जरामृत्यू ह मानवः
अपि सागरपर्यन्तां विजित्येमां वसुंधराम्
१२.२८.२०सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते
१२.२८.२१पूर्वे वयसि मध्ये वाप्युत्तमे वा नराधिप
अवर्जनीयास्तेऽर्था वै काङ्क्षिताश्च ततोऽन्यथा
१२.२८.२२सुप्रियैर्विप्रयोगश्च संप्रयोगस्तथाप्रियैः
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते
१२.२८.२३प्रादुर्भावश्च भूतानां देहन्यासस्तथैव च
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम्
१२.२८.२४गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः
तथैव सुखदुःखानि विधानमनुवर्तते
१२.२८.२५आसनं शयनं यानमुत्थानं पानभोजनम्
नियतं सर्वभूतानां कालेनैव भवन्त्युत
१२.२८.२६वैद्याश्चाप्यातुराः सन्ति बलवन्तः सुदुर्बलाः
स्त्रीमन्तश्च तथा षण्ढा विचित्रः कालपर्ययः
१२.२८.२७कुले जन्म तथा वीर्यमारोग्यं धैर्यमेव च
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते
१२.२८.२८सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्
बहूनामिच्छतां नास्ति समृद्धानां विचेष्टताम्
१२.२८.२९व्याधिरग्निर्जलं शस्त्रं बुभुक्षा श्वापदं विषम्
रज्ज्वा च मरणं जन्तोरुच्चाच्च पतनं तथा
१२.२८.३०निर्याणं यस्य यद्दिष्टं तेन गच्छति हेतुना
दृश्यते नाभ्यतिक्रामन्नतिक्रान्तो न वा पुनः
१२.२८.३१दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः
दरिद्रश्च परिक्लिष्टः शतवर्षो जनाधिप
१२.२८.३२अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः
समृद्धे च कुले जाता विनश्यन्ति पतंगवत्
१२.२८.३३प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते
काष्ठान्यपि हि जीर्यन्ते दरिद्राणां नराधिप
१२.२८.३४अहमेतत्करोमीति मन्यते कालचोदितः
यद्यदिष्टमसंतोषाद्दुरात्मा पापमाचरन्
१२.२८.३५स्त्रियोऽक्षा मृगया पानं प्रसङ्गान्निन्दिता बुधैः
दृश्यन्ते चापि बहवः संप्रसक्ता बहुश्रुताः
१२.२८.३६इति कालेन सर्वार्थानीप्सितानीप्सितानि च
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते
१२.२८.३७वायुमाकाशमग्निं च चन्द्रादित्यावहःक्षपे
ज्योतींषि सरितः शैलान्कः करोति बिभर्ति वा
१२.२८.३८शीतमुष्णं तथा वर्षं कालेन परिवर्तते
एवमेव मनुष्याणां सुखदुःखे नरर्षभ
१२.२८.३९नौषधानि न शास्त्राणि न होमा न पुनर्जपाः
त्रायन्ते मृत्युनोपेतं जरया वापि मानवम्
१२.२८.४०यथा काष्ठं च काष्ठं च समेयातां महोदधौ
समेत्य च व्यतीयातां तद्वद्भूतसमागमः
१२.२८.४१ये चापि पुरुषैः स्त्रीभिर्गीतवाद्यैरुपस्थिताः
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः
१२.२८.४२मातृपितृसहस्राणि पुत्रदारशतानि च
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्
१२.२८.४३नैवास्य कश्चिद्भविता नायं भवति कस्यचित्
पथि संगतमेवेदं दारबन्धुसुहृद्गणैः
१२.२८.४४क्वासं क्वास्मि गमिष्यामि को न्वहं किमिहास्थितः
कस्मात्कमनुशोचेयमित्येवं स्थापयेन्मनः
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ
१२.२८.४५न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता
१२.२८.४६कुर्वीत पितृदैवत्यं धर्माणि च समाचरेत्
यजेच्च विद्वान्विधिवत्त्रिवर्गं चाप्यनुव्रजेत्
१२.२८.४७संनिमज्जज्जगदिदं गम्भीरे कालसागरे
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते
१२.२८.४८आयुर्वेदमधीयानाः केवलं सपरिग्रहम्
दृश्यन्ते बहवो वैद्या व्याधिभिः समभिप्लुताः
१२.२८.४९ते पिबन्तः कषायांश्च सर्पींषि विविधानि च
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः
१२.२८.५०रसायनविदश्चैव सुप्रयुक्तरसायनाः
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः
१२.२८.५१तथैव तपसोपेताः स्वाध्यायाभ्यसने रताः
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ
१२.२८.५२न ह्यहानि निवर्तन्ते न मासा न पुनः समाः
जातानां सर्वभूतानां न पक्षा न पुनः क्षपाः
१२.२८.५३सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः
नरोऽवशः समभ्येति सर्वभूतनिषेवितम्
१२.२८.५४देहो वा जीवतोऽभ्येति जीवो वाभ्येति देहतः
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः
१२.२८.५५नायमत्यन्तसंवासो लभ्यते जातु केनचित्
अपि स्वेन शरीरेण किमुतान्येन केनचित्
१२.२८.५६क्व नु तेऽद्य पिता राजन्क्व नु तेऽद्य पितामहः
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽपि च
१२.२८.५७न ह्येव पुरुषो द्रष्टा स्वर्गस्य नरकस्य वा
आगमस्तु सतां चक्षुर्नृपते तमिहाचर
१२.२८.५८चरितब्रह्मचर्यो हि प्रजायेत यजेत च
पितृदेवमहर्षीणामानृण्यायानसूयकः
१२.२८.५९स यज्ञशीलः प्रजने निविष्टः; प्राग्ब्रह्मचारी प्रविभक्तपक्षः
आराधयन्स्वर्गमिमं च लोकं; परं च मुक्त्वा हृदयव्यलीकम्
१२.२८.६०सम्यग्घि धर्मं चरतो नृपस्य; द्रव्याणि चाप्याहरतो यथावत्
प्रवृत्तचक्रस्य यशोऽभिवर्धते; सर्वेषु लोकेषु चराचरेषु
१२.२८.६१व्यास उवाच
१२.२८.६२इत्येवमाज्ञाय विदेहराजो; वाक्यं समग्रं परिपूर्णहेतुः
अश्मानमामन्त्र्य विशुद्धबुद्धि;र्ययौ गृहं स्वं प्रति शान्तशोकः
१२.२८.६३तथा त्वमप्यच्युत मुञ्च शोक;मुत्तिष्ठ शक्रोपम हर्षमेहि
क्षात्रेण धर्मेण मही जिता ते; तां भुङ्क्ष्व कुन्तीसुत मा विषादीः