१२.२८८.१युधिष्ठिर उवाच
१२.२८८.२सत्यं क्षमां दमं प्रज्ञां प्रशंसन्ति पितामह
विद्वांसो मनुजा लोके कथमेतन्मतं तव
१२.२८८.३भीष्म उवाच
१२.२८८.४अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्
साध्यानामिह संवादं हंसस्य च युधिष्ठिर
१२.२८८.५हंसो भूत्वाथ सौवर्णस्त्वजो नित्यः प्रजापतिः
स वै पर्येति लोकांस्त्रीनथ साध्यानुपागमत्
१२.२८८.६साध्या ऊचुः
१२.२८८.७शकुने वयं स्म देवा वै साध्यास्त्वामनुयुज्महे
पृच्छामस्त्वां मोक्षधर्मं भवांश्च किल मोक्षवित्
१२.२८८.८श्रुतोऽसि नः पण्डितो धीरवादी; साधुशब्दः पतते ते पतत्रिन्
किं मन्यसे श्रेष्ठतमं द्विज त्वं; कस्मिन्मनस्ते रमते महात्मन्
१२.२८८.९तन्नः कार्यं पक्षिवर प्रशाधि; यत्कार्याणां मन्यसे श्रेष्ठमेकम्
यत्कृत्वा वै पुरुषः सर्वबन्धै;र्विमुच्यते विहगेन्द्रेह शीघ्रम्
१२.२८८.१०हंस उवाच
१२.२८८.११इदं कार्यममृताशाः शृणोमि; तपो दमः सत्यमात्माभिगुप्तिः
ग्रन्थीन्विमुच्य हृदयस्य सर्वा;न्प्रियाप्रिये स्वं वशमानयीत
१२.२८८.१२नारुंतुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत
ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम्
१२.२८८.१३वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि
परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु
१२.२८८.१४परश्चेदेनमतिवादबाणै;र्भृशं विध्येच्छम एवेह कार्यः
संरोष्यमाणः प्रतिमृष्यते यः; स आदत्ते सुकृतं वै परस्य
१२.२८८.१५क्षेपाभिमानादभिषङ्गव्यलीकं; निगृह्णाति ज्वलितं यश्च मन्युम्
अदुष्टचेता मुदितोऽनसूयुः; स आदत्ते सुकृतं वै परेषाम्
१२.२८८.१६आक्रुश्यमानो न वदामि किंचि;त्क्षमाम्यहं ताड्यमानश्च नित्यम्
श्रेष्ठं ह्येतत्क्षममप्याहुरार्याः; सत्यं तथैवार्जवमानृशंस्यम्
१२.२८८.१७वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः
दमस्योपनिषन्मोक्ष एतत्सर्वानुशासनम्
१२.२८८.१८वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्यो विषहत्युदीर्णां;स्तं मन्येऽहं ब्राह्मणं वै मुनिं च
१२.२८८.१९अक्रोधनः क्रुध्यतां वै विशिष्ट;स्तथा तितिक्षुरतितिक्षोर्विशिष्टः
अमानुषान्मानुषो वै विशिष्ट;स्तथाज्ञानाज्ज्ञानवान्वै प्रधानः
१२.२८८.२०आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः
आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति
१२.२८८.२१यो नात्युक्तः प्राह रूक्षं प्रियं वा; यो वा हतो न प्रतिहन्ति धैर्यात्
पापं च यो नेच्छति तस्य हन्तु;स्तस्मै देवाः स्पृहयन्ते सदैव
१२.२८८.२२पापीयसः क्षमेतैव श्रेयसः सदृशस्य च
विमानितो हतोऽऽक्रुष्ट एवं सिद्धिं गमिष्यति
१२.२८८.२३सदाहमार्यान्निभृतोऽप्युपासे; न मे विवित्सा न च मेऽस्ति रोषः
न चाप्यहं लिप्समानः परैमि; न चैव किंचिद्विषमेण यामि
१२.२८८.२४नाहं शप्तः प्रतिशपामि किंचि;द्दमं द्वारं ह्यमृतस्येह वेद्मि
गुह्यं ब्रह्म तदिदं वो ब्रवीमि; न मानुषाच्छ्रेष्ठतरं हि किंचित्
१२.२८८.२५विमुच्यमानः पापेभ्यो घनेभ्य इव चन्द्रमाः
विरजाः कालमाकाङ्क्षन्धीरो धैर्येण सिध्यति
१२.२८८.२६यः सर्वेषां भवति ह्यर्चनीय; उत्सेचने स्तम्भ इवाभिजातः
यस्मै वाचं सुप्रशस्तां वदन्ति; स वै देवान्गच्छति संयतात्मा
१२.२८८.२७न तथा वक्तुमिच्छन्ति कल्याणान्पुरुषे गुणान्
यथैषां वक्तुमिच्छन्ति नैर्गुण्यमनुयुञ्जकाः
१२.२८८.२८यस्य वाङ्मनसी गुप्ते सम्यक्प्रणिहिते सदा
वेदास्तपश्च त्यागश्च स इदं सर्वमाप्नुयात्
१२.२८८.२९आक्रोशनावमानाभ्यामबुधाद्वर्धते बुधः
तस्मान्न वर्धयेदन्यं न चात्मानं विहिंसयेत्
१२.२८८.३०अमृतस्येव संतृप्येदवमानस्य वै द्विजः
सुखं ह्यवमतः शेते योऽवमन्ता स नश्यति
१२.२८८.३१यत्क्रोधनो यजते यद्ददाति; यद्वा तपस्तप्यति यज्जुहोति
वैवस्वतस्तद्धरतेऽस्य सर्वं; मोघः श्रमो भवति क्रोधनस्य
१२.२८८.३२चत्वारि यस्य द्वाराणि सुगुप्तान्यमरोत्तमाः
उपस्थमुदरं हस्तौ वाक्चतुर्थी स धर्मवित्
१२.२८८.३३सत्यं दमं ह्यार्जवमानृशंस्यं; धृतिं तितिक्षामभिसेवमानः
स्वाध्यायनित्योऽस्पृहयन्परेषा;मेकान्तशील्यूर्ध्वगतिर्भवेत्सः
१२.२८८.३४सर्वानेताननुचरन्वत्सवच्चतुरः स्तनान्
न पावनतमं किंचित्सत्यादध्यगमं क्वचित्
१२.२८८.३५आचक्षेऽहं मनुष्येभ्यो देवेभ्यः प्रतिसंचरन्
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव
१२.२८८.३६यादृशैः संनिवसति यादृशांश्चोपसेवते
यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः
१२.२८८.३७यदि सन्तं सेवते यद्यसन्तं; तपस्विनं यदि वा स्तेनमेव
वासो यथा रङ्गवशं प्रयाति; तथा स तेषां वशमभ्युपैति
१२.२८८.३८सदा देवाः साधुभिः संवदन्ते; न मानुषं विषयं यान्ति द्रष्टुम्
नेन्दुः समः स्यादसमो हि वायु;रुच्चावचं विषयं यः स वेद
१२.२८८.३९अदुष्टं वर्तमाने तु हृदयान्तरपूरुषे
तेनैव देवाः प्रीयन्ते सतां मार्गस्थितेन वै
१२.२८८.४०शिश्नोदरे येऽभिरताः सदैव; स्तेना नरा वाक्परुषाश्च नित्यम्
अपेतदोषानिति तान्विदित्वा; दूराद्देवाः संपरिवर्जयन्ति
१२.२८८.४१न वै देवा हीनसत्त्वेन तोष्याः; सर्वाशिना दुष्कृतकर्मणा वा
सत्यव्रता ये तु नराः कृतज्ञा; धर्मे रतास्तैः सह संभजन्ते
१२.२८८.४२अव्याहृतं व्याहृताच्छ्रेय आहुः; सत्यं वदेद्व्याहृतं तद्द्वितीयम्
धर्मं वदेद्व्याहृतं तत्तृतीयं; प्रियं वदेद्व्याहृतं तच्चतुर्थम्
१२.२८८.४३साध्या ऊचुः
१२.२८८.४४केनायमावृतो लोकः केन वा न प्रकाशते
केन त्यजति मित्राणि केन स्वर्गं न गच्छति
१२.२८८.४५हंस उवाच
१२.२८८.४६अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते
लोभात्त्यजति मित्राणि सङ्गात्स्वर्गं न गच्छति
१२.२८८.४७साध्या ऊचुः
१२.२८८.४८कः स्विदेको रमते ब्राह्मणानां; कः स्विदेको बहुभिर्जोषमास्ते
कः स्विदेको बलवान्दुर्बलोऽपि; कः स्विदेषां कलहं नान्ववैति
१२.२८८.४९हंस उवाच
१२.२८८.५०प्राज्ञ एको रमते ब्राह्मणानां; प्राज्ञ एको बहुभिर्जोषमास्ते
प्राज्ञ एको बलवान्दुर्बलोऽपि; प्राज्ञ एषां कलहं नान्ववैति
१२.२८८.५१साध्या ऊचुः
१२.२८८.५२किं ब्राह्मणानां देवत्वं किं च साधुत्वमुच्यते
असाधुत्वं च किं तेषां किमेषां मानुषं मतम्
१२.२८८.५३हंस उवाच
१२.२८८.५४स्वाध्याय एषां देवत्वं व्रतं साधुत्वमुच्यते
असाधुत्वं परीवादो मृत्युर्मानुषमुच्यते
१२.२८८.५५भीष्म उवाच
१२.२८८.५६संवाद इत्ययं श्रेष्ठः साध्यानां परिकीर्तितः
क्षेत्रं वै कर्मणां योनिः सद्भावः सत्यमुच्यते