१२.२८९.१युधिष्ठिर उवाच
१२.२८९.२सांख्ये योगे च मे तात विशेषं वक्तुमर्हसि
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम
१२.२८९.३भीष्म उवाच
१२.२८९.४सांख्याः सांख्यं प्रशंसन्ति योगा योगं द्विजातयः
वदन्ति कारणैः श्रैष्ठ्यं स्वपक्षोद्भावनाय वै
१२.२८९.५अनीश्वरः कथं मुच्येदित्येवं शत्रुकर्शन
वदन्ति कारणैः श्रैष्ठ्यं योगाः सम्यङ्मनीषिणः
१२.२८९.६वदन्ति कारणं चेदं सांख्याः सम्यग्द्विजातयः
विज्ञायेह गतीः सर्वा विरक्तो विषयेषु यः
१२.२८९.७ऊर्ध्वं स देहात्सुव्यक्तं विमुच्येदिति नान्यथा
एतदाहुर्महाप्राज्ञाः सांख्यं वै मोक्षदर्शनम्
१२.२८९.८स्वपक्षे कारणं ग्राह्यं समर्थं वचनं हितम्
शिष्टानां हि मतं ग्राह्यं त्वद्विधैः शिष्टसंमतैः
१२.२८९.९प्रत्यक्षहेतवो योगाः सांख्याः शास्त्रविनिश्चयाः
उभे चैते मते तत्त्वे मम तात युधिष्ठिर
१२.२८९.१०उभे चैते मते ज्ञाने नृपते शिष्टसंमते
अनुष्ठिते यथाशास्त्रं नयेतां परमां गतिम्
१२.२८९.११तुल्यं शौचं तयोर्युक्तं दया भूतेषु चानघ
व्रतानां धारणं तुल्यं दर्शनं न समं तयोः
१२.२८९.१२युधिष्ठिर उवाच
१२.२८९.१३यदि तुल्यं व्रतं शौचं दया चात्र पितामह
तुल्यं न दर्शनं कस्मात्तन्मे ब्रूहि पितामह
१२.२८९.१४भीष्म उवाच
१२.२८९.१५रागं मोहं तथा स्नेहं कामं क्रोधं च केवलम्
योगाच्छित्त्वादितो दोषान्पञ्चैतान्प्राप्नुवन्ति तत्
१२.२८९.१६यथा चानिमिषाः स्थूला जालं छित्त्वा पुनर्जलम्
प्राप्नुवन्ति तथा योगास्तत्पदं वीतकल्मषाः
१२.२८९.१७तथैव वागुरां छित्त्वा बलवन्तो यथा मृगाः
प्राप्नुयुर्विमलं मार्गं विमुक्ताः सर्वबन्धनैः
१२.२८९.१८लोभजानि तथा राजन्बन्धनानि बलान्विताः
छित्त्वा योगाः परं मार्गं गच्छन्ति विमलाः शिवम्
१२.२८९.१९अबलाश्च मृगा राजन्वागुरासु तथापरे
विनश्यन्ति न संदेहस्तद्वद्योगबलादृते
१२.२८९.२०बलहीनाश्च कौन्तेय यथा जालगता झषाः
अन्तं गच्छन्ति राजेन्द्र तथा योगाः सुदुर्बलाः
१२.२८९.२१यथा च शकुनाः सूक्ष्माः प्राप्य जालमरिंदम
तत्र सक्ता विपद्यन्ते मुच्यन्ते च बलान्विताः
१२.२८९.२२कर्मजैर्बन्धनैर्बद्धास्तद्वद्योगाः परंतप
अबला वै विनश्यन्ति मुच्यन्ते च बलान्विताः
१२.२८९.२३अल्पकश्च यथा राजन्वह्निः शाम्यति दुर्बलः
आक्रान्त इन्धनैः स्थूलैस्तद्वद्योगोऽबलः प्रभो
१२.२८९.२४स एव च यदा राजन्वह्निर्जातबलः पुनः
समीरणयुतः कृत्स्नां दहेत्क्षिप्रं महीमपि
१२.२८९.२५तद्वज्जातबलो योगी दीप्ततेजा महाबलः
अन्तकाल इवादित्यः कृत्स्नं संशोषयेज्जगत्
१२.२८९.२६दुर्बलश्च यथा राजन्स्रोतसा ह्रियते नरः
बलहीनस्तथा योगो विषयैर्ह्रियतेऽवशः
१२.२८९.२७तदेव च यथा स्रोतो विष्टम्भयति वारणः
तद्वद्योगबलं लब्ध्वा व्यूहते विषयान्बहून्
१२.२८९.२८विशन्ति चावशाः पार्थ योगा योगबलान्विताः
प्रजापतीनृषीन्देवान्महाभूतानि चेश्वराः
१२.२८९.२९न यमो नान्तकः क्रुद्धो न मृत्युर्भीमविक्रमः
ईशते नृपते सर्वे योगस्यामिततेजसः
१२.२८९.३०आत्मनां च सहस्राणि बहूनि भरतर्षभ
योगः कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्
१२.२८९.३१प्राप्नुयाद्विषयांश्चैव पुनश्चोग्रं तपश्चरेत्
संक्षिपेच्च पुनः पार्थ सूर्यस्तेजोगुणानिव
१२.२८९.३२बलस्थस्य हि योगस्य बन्धनेशस्य पार्थिव
विमोक्षप्रभविष्णुत्वमुपपन्नमसंशयम्
१२.२८९.३३बलानि योगे प्रोक्तानि मयैतानि विशां पते
निदर्शनार्थं सूक्ष्माणि वक्ष्यामि च पुनस्तव
१२.२८९.३४आत्मनश्च समाधाने धारणां प्रति चाभिभो
निदर्शनानि सूक्ष्माणि शृणु मे भरतर्षभ
१२.२८९.३५अप्रमत्तो यथा धन्वी लक्ष्यं हन्ति समाहितः
युक्तः सम्यक्तथा योगी मोक्षं प्राप्नोत्यसंशयम्
१२.२८९.३६स्नेहपूर्णे यथा पात्रे मन आधाय निश्चलम्
पुरुषो यत्त आरोहेत्सोपानं युक्तमानसः
१२.२८९.३७युक्त्वा तथायमात्मानं योगः पार्थिव निश्चलम्
करोत्यमलमात्मानं भास्करोपमदर्शनम्
१२.२८९.३८यथा च नावं कौन्तेय कर्णधारः समाहितः
महार्णवगतां शीघ्रं नयेत्पार्थिव पत्तनम्
१२.२८९.३९तद्वदात्मसमाधानं युक्त्वा योगेन तत्त्ववित्
दुर्गमं स्थानमाप्नोति हित्वा देहमिमं नृप
१२.२८९.४०सारथिश्च यथा युक्त्वा सदश्वान्सुसमाहितः
देशमिष्टं नयत्याशु धन्विनं पुरुषर्षभ
१२.२८९.४१तथैव नृपते योगी धारणासु समाहितः
प्राप्नोत्याशु परं स्थानं लक्षं मुक्त इवाशुगः
१२.२८९.४२आवेश्यात्मनि चात्मानं योगी तिष्ठति योऽचलः
पापं हन्तेव मीनानां पदमाप्नोति सोऽजरम्
१२.२८९.४३नाभ्यां कण्ठे च शीर्षे च हृदि वक्षसि पार्श्वयोः
दर्शने स्पर्शने चापि घ्राणे चामितविक्रम
१२.२८९.४४स्थानेष्वेतेषु यो योगी महाव्रतसमाहितः
आत्मना सूक्ष्ममात्मानं युङ्क्ते सम्यग्विशां पते
१२.२८९.४५स शीघ्रममलप्रज्ञः कर्म दग्ध्वा शुभाशुभम्
उत्तमं योगमास्थाय यदीच्छति विमुच्यते
१२.२८९.४६युधिष्ठिर उवाच
१२.२८९.४७आहारान्कीदृशान्कृत्वा कानि जित्वा च भारत
योगी बलमवाप्नोति तद्भवान्वक्तुमर्हति
१२.२८९.४८भीष्म उवाच
१२.२८९.४९कणानां भक्षणे युक्तः पिण्याकस्य च भक्षणे
स्नेहानां वर्जने युक्तो योगी बलमवाप्नुयात्
१२.२८९.५०भुञ्जानो यावकं रूक्षं दीर्घकालमरिंदम
एकारामो विशुद्धात्मा योगी बलमवाप्नुयात्
१२.२८९.५१पक्षान्मासानृतूंश्चित्रान्संचरंश्च गुहास्तथा
अपः पीत्वा पयोमिश्रा योगी बलमवाप्नुयात्
१२.२८९.५२अखण्डमपि वा मासं सततं मनुजेश्वर
उपोष्य सम्यक्शुद्धात्मा योगी बलमवाप्नुयात्
१२.२८९.५३कामं जित्वा तथा क्रोधं शीतोष्णे वर्षमेव च
भयं निद्रां तथा श्वासं पौरुषं विषयांस्तथा
१२.२८९.५४अरतिं दुर्जयां चैव घोरां तृष्णां च पार्थिव
स्पर्शान्सर्वांस्तथा तन्द्रीं दुर्जयां नृपसत्तम
१२.२८९.५५दीपयन्ति महात्मानः सूक्ष्ममात्मानमात्मना
वीतरागा महाप्राज्ञा ध्यानाध्ययनसंपदा
१२.२८९.५६दुर्गस्त्वेष मतः पन्था ब्राह्मणानां विपश्चिताम्
न कश्चिद्व्रजति ह्यस्मिन्क्षेमेण भरतर्षभ
१२.२८९.५७यथा कश्चिद्वनं घोरं बहुसर्पसरीसृपम्
श्वभ्रवत्तोयहीनं च दुर्गमं बहुकण्टकम्
१२.२८९.५८अभक्तमटवीप्रायं दावदग्धमहीरुहम्
पन्थानं तस्कराकीर्णं क्षेमेणाभिपतेद्युवा
१२.२८९.५९योगमार्गं तथासाद्य यः कश्चिद्भजते द्विजः
क्षेमेणोपरमेन्मार्गाद्बहुदोषो हि स स्मृतः
१२.२८९.६०सुस्थेयं क्षुरधारासु निशितासु महीपते
धारणासु तु योगस्य दुःस्थेयमकृतात्मभिः
१२.२८९.६१विपन्ना धारणास्तात नयन्ति नशुभां गतिम्
नेतृहीना यथा नावः पुरुषानर्णवे नृप
१२.२८९.६२यस्तु तिष्ठति कौन्तेय धारणासु यथाविधि
मरणं जन्म दुःखं च सुखं च स विमुञ्चति
१२.२८९.६३नानाशास्त्रेषु निष्पन्नं योगेष्विदमुदाहृतम्
परं योगं तु यत्कृत्स्नं निश्चितं तद्द्विजातिषु
१२.२८९.६४परं हि तद्ब्रह्म महन्महात्म;न्ब्रह्माणमीशं वरदं च विष्णुम्
भवं च धर्मं च षडाननं च; षड्ब्रह्मपुत्रांश्च महानुभावान्
१२.२८९.६५तमश्च कष्टं सुमहद्रजश्च; सत्त्वं च शुद्धं प्रकृतिं परां च
सिद्धिं च देवीं वरुणस्य पत्नीं; तेजश्च कृत्स्नं सुमहच्च धैर्यम्
१२.२८९.६६ताराधिपं वै विमलं सतारं; विश्वांश्च देवानुरगान्पितॄंश्च
शैलांश्च कृत्स्नानुदधींश्च घोरा;न्नदीश्च सर्वाः सवनान्घनांश्च
१२.२८९.६७नागान्नगान्यक्षगणान्दिशश्च; गन्धर्वसंघान्पुरुषान्स्त्रियश्च
परस्परं प्राप्य महान्महात्मा; विशेत योगी नचिराद्विमुक्तः
१२.२८९.६८कथा च येयं नृपते प्रसक्ता; देवे महावीर्यमतौ शुभेयम्
योगान्स सर्वानभिभूय मर्त्या;न्नारायणात्मा कुरुते महात्मा