१२. शान्तिपर्व
१२.२९९.१याज्ञवल्क्य उवाच

१२.२९९.२अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबोध मे
पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते

१२.२९९.३रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप
सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम्

१२.२९९.४ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम्
सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम

१२.२९९.५संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः
संदधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः

१२.२९९.६द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते
तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः

१२.२९९.७एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः
दश कल्पसहस्राणि पादोनान्यहरुच्यते
रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः

१२.२९९.८सृजत्यहंकारमृषिर्भूतं दिव्यात्मकं तथा
चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः
ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम

१२.२९९.९देवाः पितॄणां च सुता देवैर्लोकाः समावृताः
चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम

१२.२९९.१०परमेष्ठी त्वहंकारोऽसृजद्भूतानि पञ्चधा
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्

१२.२९९.११एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः
पञ्च कल्पसहस्राणि तावदेवाहरुच्यते

१२.२९९.१२शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु
यैराविष्टानि भूतानि अहन्यहनि पार्थिव

१२.२९९.१३अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः
अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा

१२.२९९.१४ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः
इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः

१२.२९९.१५त्रीणि कल्पसहस्राणि एतेषामहरुच्यते
रात्रिरेतावती चैव मनसश्च नराधिप

१२.२९९.१६मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः
न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति

१२.२९९.१७चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति
तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते

१२.२९९.१८मनस्युपरते राजन्निन्द्रियोपरमो भवेत्
न चेन्द्रियव्युपरमे मनस्युपरमो भवेत्
एवं मनःप्रधानानि इन्द्रियाणि विभावयेत्

१२.२९९.१९इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते
एतद्विशन्ति भूतानि सर्वाणीह महायशाः