१२.३००.१याज्ञवल्क्य उवाच
१२.३००.२तत्त्वानां सर्गसंख्या च कालसंख्या तथैव च
मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु
१२.३००.३यथा संहरते जन्तून्ससर्ज च पुनः पुनः
अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च
१२.३००.४अहःक्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा
चोदयामास भगवानव्यक्तोऽहंकृतं नरम्
१२.३००.५ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत्
१२.३००.६चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा
जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप
१२.३००.७एतदुन्मेषमात्रेण विनष्टं स्थाणुजङ्गमम्
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः
१२.३००.८जगद्दग्ध्वामितबलः केवलं जगतीं ततः
अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः
१२.३००.९ततः कालाग्निमासाद्य तदम्भो याति संक्षयम्
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान्
१२.३००.१०तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम्
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा
१२.३००.११भक्षयामास बलवान्वायुरष्टात्मको बली
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा
१२.३००.१२तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना
आकाशमप्यतिनदन्मनो ग्रसति चारिकम्
१२.३००.१३मनो ग्रसति सर्वात्मा सोऽहंकारः प्रजापतिः
अहंकारं महानात्मा भूतभव्यभविष्यवित्
१२.३००.१४तमप्यनुपमात्मानं विश्वं शंभुः प्रजापतिः
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः
१२.३००.१५सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति
१२.३००.१६हृदयं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः
१२.३००.१७ततः समभवत्सर्वमक्षयाव्ययमव्रणम्
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा
१२.३००.१८एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम्