१२. शान्तिपर्व
१२.३०.१युधिष्ठिर उवाच

१२.३०.२स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत्
पर्वतेन किमर्थं च दत्तः केन ममार च

१२.३०.३यदा वर्षसहस्रायुस्तदा भवति मानवः
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः

१२.३०.४उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत्
तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम्

१२.३०.५वासुदेव उवाच

१२.३०.६अत्र ते कथयिष्यामि यथा वृत्तं जनेश्वर
नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ

१२.३०.७मातुलो भागिनेयश्च देवलोकादिहागतौ
विहर्तुकामौ संप्रीत्या मानुष्येषु पुरा प्रभू

१२.३०.८हविःपवित्रभोज्येन देवभोज्येन चैव ह
नारदो मातुलश्चैव भागिनेयश्च पर्वतः

१२.३०.९तावुभौ तपसोपेताववनीतलचारिणौ
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम्

१२.३०.१०प्रीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः
यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः
अन्योन्यस्य स आख्येयो मृषा शापोऽन्यथा भवेत्

१२.३०.११तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः

१२.३०.१२आवां भवति वत्स्यावः कंचित्कालं हिताय ते
यथावत्पृथिवीपाल आवयोः प्रगुणीभव
तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह

१२.३०.१३ततः कदाचित्तौ राजा महात्मानौ तथागतौ
अब्रवीत्परमप्रीतः सुतेयं वरवर्णिनी

१२.३०.१४एकैव मम कन्यैषा युवां परिचरिष्यति
दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता
सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा

१२.३०.१५परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम्
कन्ये विप्रावुपचर देववत्पितृवच्च ह

१२.३०.१६सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह

१२.३०.१७तस्यास्तथोपचारेण रूपेणाप्रतिमेन च
नारदं हृच्छयस्तूर्णं सहसैवान्वपद्यत

१२.३०.१८ववृधे च ततस्तस्य हृदि कामो महात्मनः
यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः

१२.३०.१९न च तं भागिनेयाय पर्वताय महात्मने
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित्

१२.३०.२०तपसा चेङ्गितेनाथ पर्वतोऽथ बुबोध तत्
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम्

१२.३०.२१कृत्वा समयमव्यग्रो भवान्वै सहितो मया
यो भवेद्धृदि संकल्पः शुभो वा यदि वाशुभः

१२.३०.२२अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम्
भवता वचनं ब्रह्मंस्तस्मादेतद्वदाम्यहम्

१२.३०.२३न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा
सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम्

१२.३०.२४ब्रह्मवादी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन्
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः

१२.३०.२५शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे
सुकुमारी च ते भार्या भविष्यति न संशयः

१२.३०.२६वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम्

१२.३०.२७स तद्वाक्यं तु विज्ञाय नारदः पर्वतात्तदा
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः

१२.३०.२८तपसा ब्रह्मचर्येण सत्येन च दमेन च
युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि

१२.३०.२९तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ

१२.३०.३०पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः
पूज्यमानो यथान्यायं तेजसा स्वेन भारत

१२.३०.३१अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम्
धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम्

१२.३०.३२सा तु कन्या यथाशापं नारदं तं ददर्श ह
पाणिग्रहणमन्त्राणां प्रयोगादेव वानरम्

१२.३०.३३सुकुमारी च देवर्षिं वानरप्रतिमाननम्
नैवावमन्यत तदा प्रीतिमत्येव चाभवत्

१२.३०.३४उपतस्थे च भर्तारं न चान्यं मनसाप्यगात्
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला

१२.३०.३५ततः कदाचिद्भगवान्पर्वतोऽनुससार ह
वनं विरहितं किंचित्तत्रापश्यत्स नारदम्

१२.३०.३६ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा
भवान्प्रसादं कुरुतां स्वर्गादेशाय मे प्रभो

१२.३०.३७तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम्

१२.३०.३८त्वयाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि
इत्युक्तेन मया पश्चाच्छप्तस्त्वमपि मत्सरात्
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह

१२.३०.३९तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान्
निवर्तयेतां तौ शापमन्योऽन्येन तदा मुनी

१२.३०.४०श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम्
सुकुमारी प्रदुद्राव परपत्यभिशङ्कया

१२.३०.४१तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम्
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा

१२.३०.४२ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः

१२.३०.४३सानुनीता बहुविधं पर्वतेन महात्मना
शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता
पर्वतोऽथ ययौ स्वर्गं नारदोऽथ ययौ गृहान्

१२.३०.४४प्रत्यक्षकर्मा सर्वस्य नारदोऽयं महानृषिः
एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम