१२.३१९.१भीष्म उवाच
१२.३१९.२गिरिपृष्ठं समारुह्य सुतो व्यासस्य भारत
समे देशे विविक्ते च निःशलाक उपाविशत्
१२.३१९.३धारयामास चात्मानं यथाशास्त्रं महामुनिः
पादात्प्रभृति गात्रेषु क्रमेण क्रमयोगवित्
१२.३१९.४ततः स प्राङ्मुखो विद्वानादित्ये नचिरोदिते
पाणिपादं समाधाय विनीतवदुपाविशत्
१२.३१९.५न तत्र पक्षिसंघातो न शब्दो नापि दर्शनम्
यत्र वैयासकिर्धीमान्योक्तुं समुपचक्रमे
१२.३१९.६स ददर्श तदात्मानं सर्वसङ्गविनिःसृतम्
प्रजहास ततो हासं शुकः संप्रेक्ष्य भास्करम्
१२.३१९.७स पुनर्योगमास्थाय मोक्षमार्गोपलब्धये
महायोगीश्वरो भूत्वा सोऽत्यक्रामद्विहायसम्
१२.३१९.८ततः प्रदक्षिणं कृत्वा देवर्षिं नारदं तदा
निवेदयामास तदा स्वं योगं परमर्षये
१२.३१९.९दृष्टो मार्गः प्रवृत्तोऽस्मि स्वस्ति तेऽस्तु तपोधन
त्वत्प्रसादाद्गमिष्यामि गतिमिष्टां महाद्युते
१२.३१९.१०नारदेनाभ्यनुज्ञातस्ततो द्वैपायनात्मजः
अभिवाद्य पुनर्योगमास्थायाकाशमाविशत्
१२.३१९.११कैलासपृष्ठादुत्पत्य स पपात दिवं तदा
अन्तरिक्षचरः श्रीमान्व्यासपुत्रः सुनिश्चितः
१२.३१९.१२तमुद्यन्तं द्विजश्रेष्ठं वैनतेयसमद्युतिम्
ददृशुः सर्वभूतानि मनोमारुतरंहसम्
१२.३१९.१३व्यवसायेन लोकांस्त्रीन्सर्वान्सोऽथ विचिन्तयन्
आस्थितो दिव्यमध्वानं पावकार्कसमप्रभः
१२.३१९.१४तमेकमनसं यान्तमव्यग्रमकुतोभयम्
ददृशुः सर्वभूतानि जङ्गमानीतराणि च
१२.३१९.१५यथाशक्ति यथान्यायं पूजयां चक्रिरे तदा
पुष्पवर्षैश्च दिव्यैस्तमवचक्रुर्दिवौकसः
१२.३१९.१६तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः
ऋषयश्चैव संसिद्धाः परं विस्मयमागताः
१२.३१९.१७अन्तरिक्षचरः कोऽयं तपसा सिद्धिमागतः
अधःकायोर्ध्ववक्त्रश्च नेत्रैः समभिवाह्यते
१२.३१९.१८ततः परमधीरात्मा त्रिषु लोकेषु विश्रुतः
भास्करं समुदीक्षन्स प्राङ्मुखो वाग्यतोऽगमत्
शब्देनाकाशमखिलं पूरयन्निव सर्वतः
१२.३१९.१९तमापतन्तं सहसा दृष्ट्वा सर्वाप्सरोगणाः
संभ्रान्तमनसो राजन्नासन्परमविस्मिताः
पञ्चचूडाप्रभृतयो भृशमुत्फुल्ललोचनाः
१२.३१९.२०दैवतं कतमं ह्येतदुत्तमां गतिमास्थितम्
सुनिश्चितमिहायाति विमुक्तमिव निःस्पृहम्
१२.३१९.२१ततः समतिचक्राम मलयं नाम पर्वतम्
उर्वशी पूर्वचित्तिश्च यं नित्यमुपसेवते
ते स्म ब्रह्मर्षिपुत्रस्य विस्मयं ययतुः परम्
१२.३१९.२२अहो बुद्धिसमाधानं वेदाभ्यासरते द्विजे
अचिरेणैव कालेन नभश्चरति चन्द्रवत्
पितृशुश्रूषया सिद्धिं संप्राप्तोऽयमनुत्तमाम्
१२.३१९.२३पितृभक्तो दृढतपाः पितुः सुदयितः सुतः
अनन्यमनसा तेन कथं पित्रा विवर्जितः
१२.३१९.२४उर्वश्या वचनं श्रुत्वा शुकः परमधर्मवित्
उदैक्षत दिशः सर्वा वचने गतमानसः
१२.३१९.२५सोऽन्तरिक्षं महीं चैव सशैलवनकाननाम्
आलोकयामास तदा सरांसि सरितस्तथा
१२.३१९.२६ततो द्वैपायनसुतं बहुमानपुरःसरम्
कृताञ्जलिपुटाः सर्वा निरीक्षन्ते स्म देवताः
१२.३१९.२७अब्रवीत्तास्तदा वाक्यं शुकः परमधर्मवित्
पिता यद्यनुगच्छेन्मां क्रोशमानः शुकेति वै
१२.३१९.२८ततः प्रतिवचो देयं सर्वैरेव समाहितैः
एतन्मे स्नेहतः सर्वे वचनं कर्तुमर्हथ
१२.३१९.२९शुकस्य वचनं श्रुत्वा दिशः सवनकाननाः
समुद्राः सरितः शैलाः प्रत्यूचुस्तं समन्ततः
१२.३१९.३०यथाज्ञापयसे विप्र बाढमेवं भविष्यति
ऋषेर्व्याहरतो वाक्यं प्रतिवक्ष्यामहे वयम्