१२. शान्तिपर्व
१२.३२०.१भीष्म उवाच

१२.३२०.२इत्येवमुक्त्वा वचनं ब्रह्मर्षिः सुमहातपाः
प्रातिष्ठत शुकः सिद्धिं हित्वा लोकांश्चतुर्विधान्

१२.३२०.३तमो ह्यष्टविधं हित्वा जहौ पञ्चविधं रजः
ततः सत्त्वं जहौ धीमांस्तदद्भुतमिवाभवत्

१२.३२०.४ततस्तस्मिन्पदे नित्ये निर्गुणे लिङ्गवर्जिते
ब्रह्मणि प्रत्यतिष्ठत्स विधूमोऽग्निरिव ज्वलन्

१२.३२०.५उल्कापाता दिशां दाहा भूमिकम्पास्तथैव च
प्रादुर्भूताः क्षणे तस्मिंस्तदद्भुतमिवाभवत्

१२.३२०.६द्रुमाः शाखाश्च मुमुचुः शिखराणि च पर्वताः
निर्घातशब्दैश्च गिरिर्हिमवान्दीर्यतीव ह

१२.३२०.७न बभासे सहस्रांशुर्न जज्वाल च पावकः
ह्रदाश्च सरितश्चैव चुक्षुभुः सागरास्तथा

१२.३२०.८ववर्ष वासवस्तोयं रसवच्च सुगन्धि च
ववौ समीरणश्चापि दिव्यगन्धवहः शुचिः

१२.३२०.९स शृङ्गेऽप्रतिमे दिव्ये हिमवन्मेरुसंभवे
संश्लिष्टे श्वेतपीते द्वे रुक्मरूप्यमये शुभे

१२.३२०.१०शतयोजनविस्तारे तिर्यगूर्ध्वं च भारत
उदीचीं दिशमाश्रित्य रुचिरे संददर्श ह

१२.३२०.११सोऽविशङ्केन मनसा तथैवाभ्यपतच्छुकः
ततः पर्वतशृङ्गे द्वे सहसैव द्विधाकृते
अदृश्येतां महाराज तदद्भुतमिवाभवत्

१२.३२०.१२ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः
न च प्रतिजघानास्य स गतिं पर्वतोत्तमः

१२.३२०.१३ततो महानभूच्छब्दो दिवि सर्वदिवौकसाम्
गन्धर्वाणामृषीणां च ये च शैलनिवासिनः

१२.३२०.१४दृष्ट्वा शुकमतिक्रान्तं पर्वतं च द्विधाकृतम्
साधु साध्विति तत्रासीन्नादः सर्वत्र भारत

१२.३२०.१५स पूज्यमानो देवैश्च गन्धर्वैरृषिभिस्तथा
यक्षराक्षससंघैश्च विद्याधरगणैस्तथा

१२.३२०.१६दिव्यैः पुष्पैः समाकीर्णमन्तरिक्षं समन्ततः
आसीत्किल महाराज शुकाभिपतने तदा

१२.३२०.१७ततो मन्दाकिनीं रम्यामुपरिष्टादभिव्रजन्
शुको ददर्श धर्मात्मा पुष्पितद्रुमकाननाम्

१२.३२०.१८तस्यां क्रीडन्त्यभिरताः स्नान्ति चैवाप्सरोगणाः
शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः

१२.३२०.१९तं प्रक्रमन्तमाज्ञाय पिता स्नेहसमन्वितः
उत्तमां गतिमास्थाय पृष्ठतोऽनुससार ह

१२.३२०.२०शुकस्तु मारुतादूर्ध्वं गतिं कृत्वान्तरिक्षगाम्
दर्शयित्वा प्रभावं स्वं सर्वभूतोऽभवत्तदा

१२.३२०.२१महायोगगतिं त्वग्र्यां व्यासोत्थाय महातपाः
निमेषान्तरमात्रेण शुकाभिपतनं ययौ

१२.३२०.२२स ददर्श द्विधा कृत्वा पर्वताग्रं शुकं गतम्
शशंसुरृषयस्तस्मै कर्म पुत्रस्य तत्तदा

१२.३२०.२३ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस्तदा
स्वयं पित्रा स्वरेणोच्चैस्त्रीँल्लोकाननुनाद्य वै

१२.३२०.२४शुकः सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः
प्रत्यभाषत धर्मात्मा भोःशब्देनानुनादयन्

१२.३२०.२५तत एकाक्षरं नादं भो इत्येव समीरयन्
प्रत्याहरज्जगत्सर्वमुच्चैः स्थावरजङ्गमम्

१२.३२०.२६ततः प्रभृति चाद्यापि शब्दानुच्चारितान्पृथक्
गिरिगह्वरपृष्ठेषु व्याजहार शुकं प्रति

१२.३२०.२७अन्तर्हितः प्रभावं तु दर्शयित्वा शुकस्तदा
गुणान्संत्यज्य शब्दादीन्पदमध्यगमत्परम्

१२.३२०.२८महिमानं तु तं दृष्ट्वा पुत्रस्यामिततेजसः
निषसाद गिरिप्रस्थे पुत्रमेवानुचिन्तयन्

१२.३२०.२९ततो मन्दाकिनीतीरे क्रीडन्तोऽप्सरसां गणाः
आसाद्य तमृषिं सर्वाः संभ्रान्ता गतचेतसः

१२.३२०.३०जले निलिल्यिरे काश्चित्काश्चिद्गुल्मान्प्रपेदिरे
वसनान्याददुः काश्चिद्दृष्ट्वा तं मुनिसत्तमम्

१२.३२०.३१तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा
सक्ततामात्मनश्चैव प्रीतोऽभूद्व्रीडितश्च ह

१२.३२०.३२तं देवगन्धर्ववृतो महर्षिगणपूजितः
पिनाकहस्तो भगवानभ्यागच्छत शंकरः

१२.३२०.३३तमुवाच महादेवः सान्त्वपूर्वमिदं वचः
पुत्रशोकाभिसंतप्तं कृष्णद्वैपायनं तदा

१२.३२०.३४अग्नेर्भूमेरपां वायोरन्तरिक्षस्य चैव ह
वीर्येण सदृशः पुत्रस्त्वया मत्तः पुरा वृतः

१२.३२०.३५स तथालक्षणो जातस्तपसा तव संभृतः
मम चैव प्रभावेन ब्रह्मतेजोमयः शुचिः

१२.३२०.३६स गतिं परमां प्राप्तो दुष्प्रापामजितेन्द्रियैः
दैवतैरपि विप्रर्षे तं त्वं किमनुशोचसि

१२.३२०.३७यावत्स्थास्यन्ति गिरयो यावत्स्थास्यन्ति सागराः
तावत्तवाक्षया कीर्तिः सपुत्रस्य भविष्यति

१२.३२०.३८छायां स्वपुत्रसदृशीं सर्वतोऽनपगां सदा
द्रक्ष्यसे त्वं च लोकेऽस्मिन्मत्प्रसादान्महामुने

१२.३२०.३९सोऽनुनीतो भगवता स्वयं रुद्रेण भारत
छायां पश्यन्समावृत्तः स मुनिः परया मुदा

१२.३२०.४०इति जन्म गतिश्चैव शुकस्य भरतर्षभ
विस्तरेण मयाख्यातं यन्मां त्वं परिपृच्छसि

१२.३२०.४१एतदाचष्ट मे राजन्देवर्षिर्नारदः पुरा
व्यासश्चैव महायोगी संजल्पेषु पदे पदे

१२.३२०.४२इतिहासमिमं पुण्यं मोक्षधर्मार्थसंहितम्
धारयेद्यः शमपरः स गच्छेत्परमां गतिम्