१२.३२१.१युधिष्ठिर उवाच
१२.३२१.२गृहस्थो ब्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः
१२.३२१.३कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेयसं परम्
विधिना केन जुहुयाद्दैवं पित्र्यं तथैव च
१२.३२१.४मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः
१२.३२१.५देवतानां च को देवः पितॄणां च तथा पिता
तस्मात्परतरं यच्च तन्मे ब्रूहि पितामह
१२.३२१.६भीष्म उवाच
१२.३२१.७गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ
न ह्येष तर्कया शक्यो वक्तुं वर्षशतैरपि
१२.३२१.८ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन्
१२.३२१.९अत्राप्युदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादमृषेर्नारायणस्य च
१२.३२१.१०नारायणो हि विश्वात्मा चतुर्मूर्तिः सनातनः
धर्मात्मजः संबभूव पितैवं मेऽभ्यभाषत
१२.३२१.११कृते युगे महाराज पुरा स्वायंभुवेऽन्तरे
नरो नारायणश्चैव हरिः कृष्णस्तथैव च
१२.३२१.१२तेभ्यो नारायणनरौ तपस्तेपतुरव्ययौ
बदर्याश्रममासाद्य शकटे कनकामये
१२.३२१.१३अष्टचक्रं हि तद्यानं भूतयुक्तं मनोरमम्
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसंततौ
१२.३२१.१४तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति
१२.३२१.१५नूनं तयोरनुमते हृदि हृच्छयचोदितः
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम्
१२.३२१.१६नारदः सुमहद्भूतं लोकान्सर्वानचीचरत्
तं देशमगमद्राजन्बदर्याश्रममाशुगः
१२.३२१.१७तयोराह्निकवेलायां तस्य कौतूहलं त्वभूत्
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः
१२.३२१.१८सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः
एका मूर्तिरियं पूर्वं जाता भूयश्चतुर्विधा
१२.३२१.१९धर्मस्य कुलसंतानो महानेभिर्विवर्धितः
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह
नरनारायणाभ्यां च कृष्णेन हरिणा तथा
१२.३२१.२०तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ
१२.३२१.२१एतौ हि परमं धाम कानयोराह्निकक्रिया
पितरौ सर्वभूतानां दैवतं च यशस्विनौ
कां देवतां नु यजतः पितॄन्वा कान्महामती
१२.३२१.२२इति संचिन्त्य मनसा भक्त्या नारायणस्य ह
सहसा प्रादुरभवत्समीपे देवयोस्तदा
१२.३२१.२३कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः
१२.३२१.२४तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम्
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः
१२.३२१.२५नारायणं संनिरीक्ष्य प्रसन्नेनान्तरात्मना
नमस्कृत्वा महादेवमिदं वचनमब्रवीत्
१२.३२१.२६वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीयसे
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम्
प्रतिष्ठितं भूतभव्यं त्वयि सर्वमिदं जगत्
१२.३२१.२७चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम्
१२.३२१.२८पिता माता च सर्वस्य जगतः शाश्वतो गुरुः
कं त्वद्य यजसे देवं पितरं कं न विद्महे
१२.३२१.२९श्रीभगवानुवाच
१२.३२१.३०अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम्
तव भक्तिमतो ब्रह्मन्वक्ष्यामि तु यथातथम्
१२.३२१.३१यत्तत्सूक्ष्ममविज्ञेयमव्यक्तमचलं ध्रुवम्
इन्द्रियैरिन्द्रियार्थैश्च सर्वभूतैश्च वर्जितम्
१२.३२१.३२स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम
१२.३२१.३३अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया
तां योनिमावयोर्विद्धि योऽसौ सदसदात्मकः
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते
१२.३२१.३४नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः
आत्मा हि नौ स विज्ञेयस्ततस्तं पूजयावहे
१२.३२१.३५तेनैषा प्रथिता ब्रह्मन्मर्यादा लोकभाविनी
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम्
१२.३२१.३६ब्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः
१२.३२१.३७वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च
१२.३२१.३८एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः
तस्य देवस्य मर्यादां पूजयन्ति सनातनीम्
१२.३२१.३९दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः
१२.३२१.४०स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम्
१२.३२१.४१ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः
१२.३२१.४२मुक्तानां तु गतिर्ब्रह्मन्क्षेत्रज्ञ इति कल्पितः
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते
१२.३२१.४३दृश्यते ज्ञानयोगेन आवां च प्रसृतौ ततः
एवं ज्ञात्वा तमात्मानं पूजयावः सनातनम्
१२.३२१.४४तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः
भक्त्या संपूजयन्त्याद्यं गतिं चैषां ददाति सः
१२.३२१.४५ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत
१२.३२१.४६इति गुह्यसमुद्देशस्तव नारद कीर्तितः
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः