१२.३२३.१भीष्म उवाच
१२.३२३.२ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते
बभूवुर्निर्वृता देवा जाते देवपुरोहिते
१२.३२३.३बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः
१२.३२३.४तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम्
१२.३२३.५स राजा भावितः पूर्वं दैवेन विधिना वसुः
पालयामास पृथिवीं दिवमाखण्डलो यथा
१२.३२३.६तस्य यज्ञो महानासीदश्वमेधो महात्मनः
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह
१२.३२३.७प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रयः
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः
१२.३२३.८धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः
१२.३२३.९ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः
१२.३२३.१०आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः
संभृताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ
१२.३२३.११न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत्
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः
१२.३२३.१२प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः
साक्षात्तं दर्शयामास सोऽदृश्योऽन्येन केनचित्
१२.३२३.१३स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान्
अदृश्येन हृतो भागो देवेन हरिमेधसा
१२.३२३.१४बृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तयत्
१२.३२३.१५उवाच चोपरिचरं मया भागोऽयमुद्यतः
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः
१२.३२३.१६उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः
१२.३२३.१७ततः स तं समुद्धूतं भूमिपालो महान्वसुः
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः
१२.३२३.१८ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि
नैष धर्मः कृतयुगे यस्त्वं रोषमचीकृथाः
१२.३२३.१९अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः
न स शक्यस्त्वया द्रष्टुमस्माभिर्वा बृहस्पते
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति
१२.३२३.२०एकतद्वितत्रिता ऊचुः
१२.३२३.२१वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम्
१२.३२३.२२तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम्
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः
१२.३२३.२३मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः
स देशो यत्र नस्तप्तं तपः परमदारुणम्
कथं पश्येमहि वयं देवं नारायणं त्विति
१२.३२३.२४ततो व्रतस्यावभृथे वागुवाचाशरीरिणी
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना
१२.३२३.२५यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम्
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः
१२.३२३.२६तत्र नारायणपरा मानवाश्चन्द्रवर्चसः
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम्
१२.३२३.२७ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम्
अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः
१२.३२३.२८एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः
गच्छध्वं तत्र मुनयस्तत्रात्मा मे प्रकाशितः
१२.३२३.२९अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम्
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे
१२.३२३.३०प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः
ततो नो दृष्टिविषयस्तदा प्रतिहतोऽभवत्
१२.३२३.३१न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम्
१२.३२३.३२न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत्
१२.३२३.३३व्रतावसाने सुशुभान्नरान्ददृशिरे वयम्
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान्
१२.३२३.३४नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्मुखान्
मानसो नाम स जपो जप्यते तैर्महात्मभिः
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः
१२.३२३.३५या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षये
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह
१२.३२३.३६तेजोनिवासः स द्वीप इति वै मेनिरे वयम्
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः
१२.३२३.३७अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम्
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते
१२.३२३.३८सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम्
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः
१२.३२३.३९ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम्
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः
१२.३२३.४०वयं तु तेजसा तस्य सहसा हृतचेतसः
न किंचिदपि पश्यामो हृतदृष्टिबलेन्द्रियाः
१२.३२३.४१एकस्तु शब्दोऽविरतः श्रुतोऽस्माभिरुदीरितः
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन
१२.३२३.४२नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः
१२.३२३.४३एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा
१२.३२३.४४तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया
१२.३२३.४५मारुते संनिवृत्ते च बलौ च प्रतिपादिते
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर
१२.३२३.४६मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजयत्
१२.३२३.४७तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः
१२.३२३.४८ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान्
उवाच खस्थं किमपि भूतं तत्राशरीरकम्
१२.३२३.४९दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः
१२.३२३.५०गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात्
न स शक्यो अभक्तेन द्रष्टुं देवः कथंचन
१२.३२३.५१कामं कालेन महता एकान्तित्वं समागतैः
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः
१२.३२३.५२महत्कार्यं तु कर्तव्यं युष्माभिर्द्विजसत्तमाः
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च
१२.३२३.५३वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे ततः
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ
१२.३२३.५४ततस्तदद्भुतं वाक्यं निशम्यैवं स्म सोमप
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सितमञ्जसा
१२.३२३.५५एवं सुतपसा चैव हव्यकव्यैस्तथैव च
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक्
१२.३२३.५६भीष्म उवाच
१२.३२३.५७एवमेकतवाक्येन द्वितत्रितमतेन च
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः
समानीय ततो यज्ञं दैवतं समपूजयत्
१२.३२३.५८समाप्तयज्ञो राजापि प्रजाः पालितवान्वसुः
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः
१२.३२३.५९अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः
नारायणपरो भूत्वा नारायणपदं जगौ
१२.३२३.६०तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम्
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा