१२. शान्तिपर्व
१२.३३५.१जनमेजय उवाच

१२.३३५.२श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम्
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी

१२.३३५.३प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः
स तथा नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयानघ

१२.३३५.४यच्च तत्कथितं पूर्वं त्वया हयशिरो महत्
हव्यकव्यभुजो विष्णोरुदक्पूर्वे महोदधौ
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना

१२.३३५.५किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा
रूपं प्रभावमहतामपूर्वं धीमतां वर

१२.३३५.६दृष्ट्वा हि विबुधश्रेष्ठमपूर्वममितौजसम्
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने

१२.३३५.७एतन्नः संशयं ब्रह्मन्पुराणज्ञानसंभवम्
कथयस्वोत्तममते महापुरुषनिर्मितम्
पाविताः स्म त्वया ब्रह्मन्पुण्यां कथयता कथाम्

१२.३३५.८वैशंपायन उवाच

१२.३३५.९कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्
जगौ यद्भगवान्व्यासो राज्ञो धर्मसुतस्य वै

१२.३३५.१०श्रुत्वाश्वशिरसो मूर्तिं देवस्य हरिमेधसः
उत्पन्नसंशयो राजा तमेव समचोदयत्

१२.३३५.११युधिष्ठिर उवाच

१२.३३५.१२यत्तद्दर्शितवान्ब्रह्मा देवं हयशिरोधरम्
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम्

१२.३३५.१३व्यास उवाच

१२.३३५.१४यत्किंचिदिह लोके वै देहबद्धं विशां पते
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः

१२.३३५.१५ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट्
भूतान्तरात्मा वरदः सगुणो निर्गुणोऽपि च
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम

१२.३३५.१६धरण्यामथ लीनायामप्सु चैकार्णवे पुरा
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले

१२.३३५.१७वायौ चाकाशसंलीने आकाशे च मनोनुगे
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते

१२.३३५.१८अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च
तम एवाभवत्सर्वं न प्राज्ञायत किंचन

१२.३३५.१९तमसो ब्रह्म संभूतं तमोमूलमृतात्मकम्
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमास्थितम्

१२.३३५.२०सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम

१२.३३५.२१विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम्

१२.३३५.२२तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः
अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः
हिरण्यगर्भो भगवान्सर्वलोकपितामहः

१२.३३५.२३पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः

१२.३३५.२४ददृशेऽद्भुतसंकाशे लोकानापोमयान्प्रभुः
सत्त्वस्थः परमेष्ठी स ततो भूतगणान्सृजत्

१२.३३५.२५पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ

१२.३३५.२६तावपश्यत्स भगवाननादिनिधनोऽच्युतः
एकस्तत्राभवद्बिन्दुर्मध्वाभो रुचिरप्रभः

१२.३३५.२७स तामसो मधुर्जातस्तदा नारायणाज्ञया
कठिनस्त्वपरो बिन्दुः कैटभो राजसस्तु सः

१२.३३५.२८तावभ्यधावतां श्रेष्ठौ तमोरजगुणान्वितौ
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ

१२.३३५.२९ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभम्
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान्

१२.३३५.३०ततो विग्रहवन्तौ तौ वेदान्दृष्ट्वासुरोत्तमौ
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा

१२.३३५.३१अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान्
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ

१२.३३५.३२ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत्
ततो वचनमीशानं प्राह वेदैर्विनाकृतः

१२.३३५.३३वेदा मे परमं चक्षुर्वेदा मे परमं बलम्
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तमम्

१२.३३५.३४मम वेदा हृताः सर्वे दानवाभ्यां बलादितः
अन्धकारा हि मे लोका जाता वेदैर्विनाकृताः
वेदानृते हि किं कुर्यां लोकान्वै स्रष्टुमुद्यतः

१२.३३५.३५अहो बत महद्दुःखं वेदनाशनजं मम
प्राप्तं दुनोति हृदयं तीव्रशोकाय रन्धयन्

१२.३३५.३६को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत्
वेदांस्तानानयेन्नष्टान्कस्य चाहं प्रियो भवे

१२.३३५.३७इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः

१२.३३५.३८नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज
लोकाद्य भुवनश्रेष्ठ सांख्ययोगनिधे विभो

१२.३३५.३९व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थित
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज

१२.३३५.४०अहं प्रसादजस्तुभ्यं लोकधाम्ने स्वयंभुवे
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम्

१२.३३५.४१चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम्
त्वत्प्रसादाच्च मे जन्म तृतीयं वाचिकं महत्

१२.३३५.४२त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो
नासिक्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते

१२.३३५.४३अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितम्
इदं च सप्तमं जन्म पद्मजं मेऽमितप्रभ

१२.३३५.४४सर्गे सर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जितः
प्रथितः पुण्डरीकाक्ष प्रधानगुणकल्पितः

१२.३३५.४५त्वमीश्वरस्वभावश्च स्वयंभूः पुरुषोत्तमः
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिगः

१२.३३५.४६ते मे वेदा हृताश्चक्षुरन्धो जातोऽस्मि जागृहि
ददस्व चक्षुषी मह्यं प्रियोऽहं ते प्रियोऽसि मे

१२.३३५.४७एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः
जहौ निद्रामथ तदा वेदकार्यार्थमुद्यतः
ऐश्वरेण प्रयोगेण द्वितीयां तनुमास्थितः

१२.३३५.४८सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः

१२.३३५.४९तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारका
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः

१२.३३५.५०कर्णावाकाशपाताले ललाटं भूतधारिणी
गङ्गा सरस्वती पुण्या भ्रुवावास्तां महानदी

१२.३३५.५१चक्षुषी सोमसूर्यौ ते नासा संध्या पुनः स्मृता
ओंकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता

१२.३३५.५२दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा

१२.३३५.५३एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम्
अन्तर्दधे स विश्वेशो विवेश च रसां प्रभुः

१२.३३५.५४रसां पुनः प्रविष्टश्च योगं परममास्थितः
शैक्षं स्वरं समास्थाय ओमिति प्रासृजत्स्वरम्

१२.३३५.५५स स्वरः सानुनादी च सर्वगः स्निग्ध एव च
बभूवान्तर्महीभूतः सर्वभूतगुणोदितः

१२.३३५.५६ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान्
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ

१२.३३५.५७एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः
जग्राह वेदानखिलान्रसातलगतान्हरिः
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः

१२.३३५.५८स्थापयित्वा हयशिर उदक्पूर्वे महोदधौ
वेदानामालयश्चापि बभूवाश्वशिरास्ततः

१२.३३५.५९अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ
पुनराजग्मतुस्तत्र वेगितौ पश्यतां च तौ
यत्र वेदा विनिक्षिप्तास्तत्स्थानं शून्यमेव च

१२.३३५.६०तत उत्तममास्थाय वेगं बलवतां वरौ
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा
ददृशाते च पुरुषं तमेवादिकरं प्रभुम्

१२.३३५.६१श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्
भूयोऽप्यमितविक्रान्तं निद्रायोगमुपागतम्

१२.३३५.६२आत्मप्रमाणरचिते अपामुपरि कल्पिते
शयने नागभोगाढ्ये ज्वालामालासमावृते

१२.३३५.६३निष्कल्मषेण सत्त्वेन संपन्नं रुचिरप्रभम्
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम्

१२.३३५.६४ऊचतुश्च समाविष्टौ रजसा तमसा च तौ
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः

१२.३३५.६५अनेन नूनं वेदानां कृतमाहरणं रसात्
कस्यैष को नु खल्वेष किं च स्वपिति भोगवान्

१२.३३५.६६इत्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम्
युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषोत्तमः

१२.३३५.६७निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनो दधे
अथ युद्धं समभवत्तयोर्नारायणस्य च

१२.३३५.६८रजस्तमोविष्टतनू तावुभौ मधुकैटभौ
ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः

१२.३३५.६९ततस्तयोर्वधेनाशु वेदापहरणेन च
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः

१२.३३५.७०ततः परिवृतो ब्रह्मा हतारिर्वेदसत्कृतः
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्

१२.३३५.७१दत्त्वा पितामहायाग्र्यां बुद्धिं लोकविसर्गिकीम्
तत्रैवान्तर्दधे देवो यत एवागतो हरिः

१२.३३५.७२तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम्
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम्

१२.३३५.७३एवमेष महाभागो बभूवाश्वशिरा हरिः
पौराणमेतदाख्यातं रूपं वरदमैश्वरम्

१२.३३५.७४यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयेत वा
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन

१२.३३५.७५आराध्य तपसोग्रेण देवं हयशिरोधरम्
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते

१२.३३५.७६एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम्
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि

१२.३३५.७७यां यामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित्
तां तां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना

१२.३३५.७८एष वेदनिधिः श्रीमानेष वै तपसो निधिः
एष योगश्च सांख्यं च ब्रह्म चाग्र्यं हरिर्विभुः

१२.३३५.७९नारायणपरा वेदा यज्ञा नारायणात्मकाः
तपो नारायणपरं नारायणपरा गतिः

१२.३३५.८०नारायणपरं सत्यमृतं नारायणात्मकम्
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः

१२.३३५.८१प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः

१२.३३५.८२अपां चैव गुणो राजन्रसो नारायणात्मकः
ज्योतिषां च गुणो रूपं स्मृतं नारायणात्मकम्

१२.३३५.८३नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः
नारायणात्मकश्चापि शब्द आकाशसंभवः

१२.३३५.८४मनश्चापि ततो भूतमव्यक्तगुणलक्षणम्
नारायणपरः कालो ज्योतिषामयनं च यत्

१२.३३५.८५नारायणपरा कीर्तिः श्रीश्च लक्ष्मीश्च देवताः
नारायणपरं सांख्यं योगो नारायणात्मकः

१२.३३५.८६कारणं पुरुषो येषां प्रधानं चापि कारणम्
स्वभावश्चैव कर्माणि दैवं येषां च कारणम्

१२.३३५.८७पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः
तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतोमुखैः

१२.३३५.८८तत्त्वमेको महायोगी हरिर्नारायणः प्रभुः
सब्रह्मकानां लोकानामृषीणां च महात्मनाम्

१२.३३५.८९सांख्यानां योगिनां चापि यतीनामात्मवेदिनाम्
मनीषितं विजानाति केशवो न तु तस्य ते

१२.३३५.९०ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते
दानानि च प्रयच्छन्ति तप्यन्ति च तपो महत्

१२.३३५.९१सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः
सर्वभूतकृतावासो वासुदेवेति चोच्यते

१२.३३५.९२अयं हि नित्यः परमो महर्षि;र्महाविभूतिर्गुणवान्निर्गुणाख्यः
गुणैश्च संयोगमुपैति शीघ्रं; कालो यथर्तावृतुसंप्रयुक्तः

१२.३३५.९३नैवास्य विन्दन्ति गतिं महात्मनो; न चागतिं कश्चिदिहानुपश्यति
ज्ञानात्मकाः संयमिनो महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम्