१२. शान्तिपर्व
१२.३३६.१जनमेजय उवाच

१२.३३६.२अहो ह्येकान्तिनः सर्वान्प्रीणाति भगवान्हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान्स्वयम्

१२.३३६.३ये तु दग्धेन्धना लोके पुण्यपापविवर्जिताः
तेषां त्वयाभिनिर्दिष्टा पारंपर्यागता गतिः

१२.३३६.४चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषोत्तमम्
एकान्तिनस्तु पुरुषा गच्छन्ति परमं पदम्

१२.३३६.५नूनमेकान्तधर्मोऽयं श्रेष्ठो नारायणप्रियः
अगत्वा गतयस्तिस्रो यद्गच्छन्त्यव्ययं हरिम्

१२.३३६.६सहोपनिषदान्वेदान्ये विप्राः सम्यगास्थिताः
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः

१२.३३६.७तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्
केनैष धर्मः कथितो देवेन ऋषिणापि वा

१२.३३६.८एकान्तिनां च का चर्या कदा चोत्पादिता विभो
एतन्मे संशयं छिन्धि परं कौतूहलं हि मे

१२.३३६.९वैशंपायन उवाच

१२.३३६.१०समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे
अर्जुने विमनस्के च गीता भगवता स्वयम्

१२.३३६.११आगतिश्च गतिश्चैव पूर्वं ते कथिता मया
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः

१२.३३६.१२संमितः सामवेदेन पुरैवादियुगे कृतः
धार्यते स्वयमीशेन राजन्नारायणेन ह

१२.३३६.१३एतमर्थं महाराज पृष्टः पार्थेन नारदः
ऋषिमध्ये महाभागः शृण्वतोः कृष्णभीष्मयोः

१२.३३६.१४गुरुणा च ममाप्येष कथितो नृपसत्तम
यथा तु कथितस्तत्र नारदेन तथा शृणु

१२.३३६.१५यदासीन्मानसं जन्म नारायणमुखोद्गतम्
ब्रह्मणः पृथिवीपाल तदा नारायणः स्वयम्
तेन धर्मेण कृतवान्दैवं पित्र्यं च भारत

१२.३३६.१६फेनपा ऋषयश्चैव तं धर्मं प्रतिपेदिरे
वैखानसाः फेनपेभ्यो धर्ममेतं प्रपेदिरे
वैखानसेभ्यः सोमस्तु ततः सोऽन्तर्दधे पुनः

१२.३३६.१७यदासीच्चाक्षुषं जन्म द्वितीयं ब्रह्मणो नृप
तदा पितामहात्सोमादेतं धर्ममजानत
नारायणात्मकं राजन्रुद्राय प्रददौ च सः

१२.३३६.१८ततो योगस्थितो रुद्रः पुरा कृतयुगे नृप
वालखिल्यानृषीन्सर्वान्धर्ममेतमपाठयत्
अन्तर्दधे ततो भूयस्तस्य देवस्य मायया

१२.३३६.१९तृतीयं ब्रह्मणो जन्म यदासीद्वाचिकं महत्
तत्रैष धर्मः संभूतः स्वयं नारायणान्नृप

१२.३३६.२०सुपर्णो नाम तमृषिः प्राप्तवान्पुरुषोत्तमात्
तपसा वै सुतप्तेन दमेन नियमेन च

१२.३३६.२१त्रिः परिक्रान्तवानेतत्सुपर्णो धर्ममुत्तमम्
यस्मात्तस्माद्व्रतं ह्येतत्त्रिसौपर्णमिहोच्यते

१२.३३६.२२ऋग्वेदपाठपठितं व्रतमेतद्धि दुश्चरम्
सुपर्णाच्चाप्यधिगतो धर्म एष सनातनः

१२.३३६.२३वायुना द्विपदां श्रेष्ठ प्रथितो जगदायुषा
वायोः सकाशात्प्राप्तश्च ऋषिभिर्विघसाशिभिः

१२.३३६.२४तेभ्यो महोदधिश्चैनं प्राप्तवान्धर्ममुत्तमम्
ततः सोऽन्तर्दधे भूयो नारायणसमाहितः

१२.३३६.२५यदा भूयः श्रवणजा सृष्टिरासीन्महात्मनः
ब्रह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु

१२.३३६.२६जगत्स्रष्टुमना देवो हरिर्नारायणः स्वयम्
चिन्तयामास पुरुषं जगत्सर्गकरं प्रभुः

१२.३३६.२७अथ चिन्तयतस्तस्य कर्णाभ्यां पुरुषः सृतः
प्रजासर्गकरो ब्रह्मा तमुवाच जगत्पतिः

१२.३३६.२८सृज प्रजाः पुत्र सर्वा मुखतः पादतस्तथा
श्रेयस्तव विधास्यामि बलं तेजश्च सुव्रत

१२.३३६.२९धर्मं च मत्तो गृह्णीष्व सात्वतं नाम नामतः
तेन सर्वं कृतयुगं स्थापयस्व यथाविधि

१२.३३६.३०ततो ब्रह्मा नमश्चक्रे देवाय हरिमेधसे
धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम्
आरण्यकेन सहितं नारायणमुखोद्गतम्

१२.३३६.३१उपदिश्य ततो धर्मं ब्रह्मणेऽमिततेजसे
तं कार्तयुगधर्माणं निराशीःकर्मसंज्ञितम्
जगाम तमसः पारं यत्राव्यक्तं व्यवस्थितम्

१२.३३६.३२ततोऽथ वरदो देवो ब्रह्मलोकपितामहः
असृजत्स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान्

१२.३३६.३३ततः प्रावर्तत तदा आदौ कृतयुगं शुभम्
ततो हि सात्वतो धर्मो व्याप्य लोकानवस्थितः

१२.३३६.३४तेनैवाद्येन धर्मेण ब्रह्मा लोकविसर्गकृत्
पूजयामास देवेशं हरिं नारायणं प्रभुम्

१२.३३६.३५धर्मप्रतिष्ठाहेतोश्च मनुं स्वारोचिषं ततः
अध्यापयामास तदा लोकानां हितकाम्यया

१२.३३६.३६ततः स्वारोचिषः पुत्रं स्वयं शङ्खपदं नृप
अध्यापयत्पुराव्यग्रः सर्वलोकपतिर्विभुः

१२.३३६.३७ततः शङ्खपदश्चापि पुत्रमात्मजमौरसम्
दिशापालं सुधर्माणमध्यापयत भारत
ततः सोऽन्तर्दधे भूयः प्राप्ते त्रेतायुगे पुनः

१२.३३६.३८नासिक्यजन्मनि पुरा ब्रह्मणः पार्थिवोत्तम
धर्ममेतं स्वयं देवो हरिर्नारायणः प्रभुः
उज्जगारारविन्दाक्षो ब्रह्मणः पश्यतस्तदा

१२.३३६.३९सनत्कुमारो भगवांस्ततः प्राधीतवान्नृप
सनत्कुमारादपि च वीरणो वै प्रजापतिः
कृतादौ कुरुशार्दूल धर्ममेतमधीतवान्

१२.३३६.४०वीरणश्चाप्यधीत्यैनं रौच्याय मनवे ददौ
रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे

१२.३३६.४१कुक्षिनाम्नेऽथ प्रददौ दिशां पालाय धर्मिणे
ततः सोऽन्तर्दधे भूयो नारायणमुखोद्गतः

१२.३३६.४२अण्डजे जन्मनि पुनर्ब्रह्मणे हरियोनये
एष धर्मः समुद्भूतो नारायणमुखात्पुनः

१२.३३६.४३गृहीतो ब्रह्मणा राजन्प्रयुक्तश्च यथाविधि
अध्यापिताश्च मुनयो नाम्ना बर्हिषदो नृप

१२.३३६.४४बर्हिषद्भ्यश्च संक्रान्तः सामवेदान्तगं द्विजम्
ज्येष्ठं नाम्नाभिविख्यातं ज्येष्ठसामव्रतो हरिः

१२.३३६.४५ज्येष्ठाच्चाप्यनुसंक्रान्तो राजानमविकम्पनम्
अन्तर्दधे ततो राजन्नेष धर्मः प्रभोर्हरेः

१२.३३६.४६यदिदं सप्तमं जन्म पद्मजं ब्रह्मणो नृप
तत्रैष धर्मः कथितः स्वयं नारायणेन हि

१२.३३६.४७पितामहाय शुद्धाय युगादौ लोकधारिणे
पितामहश्च दक्षाय धर्ममेतं पुरा ददौ

१२.३३६.४८ततो ज्येष्ठे तु दौहित्रे प्रादाद्दक्षो नृपोत्तम
आदित्ये सवितुर्ज्येष्ठे विवस्वाञ्जगृहे ततः

१२.३३६.४९त्रेतायुगादौ च पुनर्विवस्वान्मनवे ददौ
मनुश्च लोकभूत्यर्थं सुतायेक्ष्वाकवे ददौ

१२.३३६.५०इक्ष्वाकुणा च कथितो व्याप्य लोकानवस्थितः
गमिष्यति क्षयान्ते च पुनर्नारायणं नृप

१२.३३६.५१व्रतिनां चापि यो धर्मः स ते पूर्वं नृपोत्तम
कथितो हरिगीतासु समासविधिकल्पितः

१२.३३६.५२नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः
एष धर्मो जगन्नाथात्साक्षान्नारायणान्नृप

१२.३३६.५३एवमेष महान्धर्म आद्यो राजन्सनातनः
दुर्विज्ञेयो दुष्करश्च सात्वतैर्धार्यते सदा

१२.३३६.५४धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा
अहिंसाधर्मयुक्तेन प्रीयते हरिरीश्वरः

१२.३३६.५५एकव्यूहविभागो वा क्वचिद्द्विव्यूहसंज्ञितः
त्रिव्यूहश्चापि संख्यातश्चतुर्व्यूहश्च दृश्यते

१२.३३६.५६हरिरेव हि क्षेत्रज्ञो निर्ममो निष्कलस्तथा
जीवश्च सर्वभूतेषु पञ्चभूतगुणातिगः

१२.३३६.५७मनश्च प्रथितं राजन्पञ्चेन्द्रियसमीरणम्
एष लोकनिधिर्धीमानेष लोकविसर्गकृत्

१२.३३६.५८अकर्ता चैव कर्ता च कार्यं कारणमेव च
यथेच्छति तथा राजन्क्रीडते पुरुषोऽव्ययः

१२.३३६.५९एष एकान्तिधर्मस्ते कीर्तितो नृपसत्तम
मया गुरुप्रसादेन दुर्विज्ञेयोऽकृतात्मभिः
एकान्तिनो हि पुरुषा दुर्लभा बहवो नृप

१२.३३६.६०यद्येकान्तिभिराकीर्णं जगत्स्यात्कुरुनन्दन
अहिंसकैरात्मविद्भिः सर्वभूतहिते रतैः
भवेत्कृतयुगप्राप्तिराशीःकर्मविवर्जितैः

१२.३३६.६१एवं स भगवान्व्यासो गुरुर्मम विशां पते
कथयामास धर्मज्ञो धर्मराज्ञे द्विजोत्तमः

१२.३३६.६२ऋषीणां संनिधौ राजञ्शृण्वतोः कृष्णभीष्मयोः
तस्याप्यकथयत्पूर्वं नारदः सुमहातपाः

१२.३३६.६३देवं परमकं ब्रह्म श्वेतं चन्द्राभमच्युतम्
यत्र चैकान्तिनो यान्ति नारायणपरायणाः

१२.३३६.६४जनमेजय उवाच

१२.३३६.६५एवं बहुविधं धर्मं प्रतिबुद्धैर्निषेवितम्
न कुर्वन्ति कथं विप्रा अन्ये नानाव्रते स्थिताः

१२.३३६.६६वैशंपायन उवाच

१२.३३६.६७तिस्रः प्रकृतयो राजन्देहबन्धेषु निर्मिताः
सात्त्विकी राजसी चैव तामसी चेति भारत

१२.३३६.६८देहबन्धेषु पुरुषः श्रेष्ठः कुरुकुलोद्वह
सात्त्विकः पुरुषव्याघ्र भवेन्मोक्षार्थनिश्चितः

१२.३३६.६९अत्रापि स विजानाति पुरुषं ब्रह्मवर्तिनम्
नारायणपरो मोक्षस्ततो वै सात्त्विकः स्मृतः

१२.३३६.७०मनीषितं च प्राप्नोति चिन्तयन्पुरुषोत्तमम्
एकान्तभक्तिः सततं नारायणपरायणः

१२.३३६.७१मनीषिणो हि ये केचिद्यतयो मोक्षकाङ्क्षिणः
तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः

१२.३३६.७२जायमानं हि पुरुषं यं पश्येन्मधुसूदनः
सात्त्विकस्तु स विज्ञेयो भवेन्मोक्षे च निश्चितः

१२.३३६.७३सांख्ययोगेन तुल्यो हि धर्म एकान्तसेवितः
नारायणात्मके मोक्षे ततो यान्ति परां गतिम्

१२.३३६.७४नारायणेन दृष्टश्च प्रतिबुद्धो भवेत्पुमान्
एवमात्मेच्छया राजन्प्रतिबुद्धो न जायते

१२.३३६.७५राजसी तामसी चैव व्यामिश्रे प्रकृती स्मृते
तदात्मकं हि पुरुषं जायमानं विशां पते
प्रवृत्तिलक्षणैर्युक्तं नावेक्षति हरिः स्वयम्

१२.३३६.७६पश्यत्येनं जायमानं ब्रह्मा लोकपितामहः
रजसा तमसा चैव मानुषं समभिप्लुतम्

१२.३३६.७७कामं देवाश्च ऋषयः सत्त्वस्था नृपसत्तम
हीनाः सत्त्वेन सूक्ष्मेण ततो वैकारिकाः स्मृताः

१२.३३६.७८जनमेजय उवाच

१२.३३६.७९कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम्

१२.३३६.८०वैशंपायन उवाच

१२.३३६.८१सुसूक्ष्मसत्त्वसंयुक्तं संयुक्तं त्रिभिरक्षरैः
पुरुषः पुरुषं गच्छेन्निष्क्रियः पञ्चविंशकम्

१२.३३६.८२एवमेकं सांख्ययोगं वेदारण्यकमेव च
परस्पराङ्गान्येतानि पञ्चरात्रं च कथ्यते
एष एकान्तिनां धर्मो नारायणपरात्मकः

१२.३३६.८३यथा समुद्रात्प्रसृता जलौघा;स्तमेव राजन्पुनराविशन्ति
इमे तथा ज्ञानमहाजलौघा; नारायणं वै पुनराविशन्ति

१२.३३६.८४एष ते कथितो धर्मः सात्वतो यदुबान्धव
कुरुष्वैनं यथान्यायं यदि शक्नोषि भारत

१२.३३६.८५एवं हि सुमहाभागो नारदो गुरवे मम
श्वेतानां यतिनामाह एकान्तगतिमव्ययाम्

१२.३३६.८६व्यासश्चाकथयत्प्रीत्या धर्मपुत्राय धीमते
स एवायं मया तुभ्यमाख्यातः प्रसृतो गुरोः

१२.३३६.८७इत्थं हि दुश्चरो धर्म एष पार्थिवसत्तम
यथैव त्वं तथैवान्ये न भजन्ति विमोहिताः

१२.३३६.८८कृष्ण एव हि लोकानां भावनो मोहनस्तथा
संहारकारकश्चैव कारणं च विशां पते