१२. शान्तिपर्व
१२.३३७.१जनमेजय उवाच

१२.३३७.२सांख्यं योगं पञ्चरात्रं वेदारण्यकमेव च
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह

१२.३३७.३किमेतान्येकनिष्ठानि पृथङ्निष्ठानि वा मुने
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम्

१२.३३७.४वैशंपायन उवाच

१२.३३७.५जज्ञे बहुज्ञं परमत्युदारं; यं द्वीपमध्ये सुतमात्मवन्तम्
पराशराद्गन्धवती महर्षिं; तस्मै नमोऽज्ञानतमोनुदाय

१२.३३७.६पितामहाद्यं प्रवदन्ति षष्ठं; महर्षिमार्षेयविभूतियुक्तम्
नारायणस्यांशजमेकपुत्रं; द्वैपायनं वेदमहानिधानम्

१२.३३७.७तमादिकालेषु महाविभूति;र्नारायणो ब्रह्ममहानिधानम्
ससर्ज पुत्रार्थमुदारतेजा; व्यासं महात्मानमजः पुराणः

१२.३३७.८जनमेजय उवाच

१२.३३७.९त्वयैव कथितः पूर्वं संभवो द्विजसत्तम
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः

१२.३३७.१०पराशरस्य दायादः कृष्णद्वैपायनो मुनिः
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे

१२.३३७.११किमतः पूर्वजं जन्म व्यासस्यामिततेजसः
कथयस्वोत्तममते जन्म नारायणोद्भवम्

१२.३३७.१२वैशंपायन उवाच

१२.३३७.१३वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः

१२.३३७.१४कृत्वा भारतमाख्यानं तपःश्रान्तस्य धीमतः
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा

१२.३३७.१५सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा

१२.३३७.१६एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा

१२.३३७.१७वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः
तमेकमनसं दान्तं युक्ता वयमुपास्महे

१२.३३७.१८कथान्तरेऽथ कस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा

१२.३३७.१९स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित्
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे

१२.३३७.२०शृणुध्वमाख्यानवरमेतदार्षेयमुत्तमम्
आदिकालोद्भवं विप्रास्तपसाधिगतं मया

१२.३३७.२१प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे
नारायणो महायोगी शुभाशुभविवर्जितः

१२.३३७.२२ससृजे नाभितः पुत्रं ब्रह्माणममितप्रभम्
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत्

१२.३३७.२३मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः

१२.३३७.२४स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः
प्रणम्य वरदं देवमुवाच हरिमीश्वरम्

१२.३३७.२५का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोऽस्तु ते
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम्

१२.३३७.२६स एवमुक्तो भगवान्भूत्वाथान्तर्हितस्ततः
चिन्तयामास देवेशो बुद्धिं बुद्धिमतां वरः

१२.३३७.२७स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम्
योगेन चैनां निर्योगः स्वयं नियुयुजे तदा

१२.३३७.२८स तामैश्वर्ययोगस्थां बुद्धिं शक्तिमतीं सतीम्
उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः

१२.३३७.२९ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा

१२.३३७.३०अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः
भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः

१२.३३७.३१एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत
प्राप चैव मुहूर्तेन स्वस्थानं देवसंज्ञितम्

१२.३३७.३२तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत्
अथास्य बुद्धिरभवत्पुनरन्या तदा किल

१२.३३७.३३सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना
दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी

१२.३३७.३४बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः
भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान्

१२.३३७.३५अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः
तत्र न्याय्यमिदं कर्तुं भारावतरणं मया

१२.३३७.३६अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम्
निग्रहेण च पापानां साधूनां प्रग्रहेण च

१२.३३७.३७इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम्
मया ह्येषा हि ध्रियते पातालस्थेन भोगिना

१२.३३७.३८मया धृता धारयति जगद्धि सचराचरम्
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः

१२.३३७.३९एवं स चिन्तयित्वा तु भगवान्मधुसूदनः
रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः

१२.३३७.४०वाराहं नारसिंहं च वामनं मानुषं तथा
एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः

१२.३३७.४१अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन्
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत्

१२.३३७.४२अपान्तरतमा नाम सुतो वाक्संभवो विभोः
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः

१२.३३७.४३तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः
वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर
तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने

१२.३३७.४४तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे
ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा
तपसा च सुतप्तेन यमेन नियमेन च

१२.३३७.४५श्रीभगवानुवाच

१२.३३७.४६मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः

१२.३३७.४७पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि

१२.३३७.४८तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति
परस्परविनाशार्थं त्वामृते द्विजसत्तम

१२.३३७.४९तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि

१२.३३७.५०धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे

१२.३३७.५१वीतरागश्च पुत्रस्ते परमात्मा भविष्यति
महेश्वरप्रसादेन नैतद्वचनमन्यथा

१२.३३७.५२यं मानसं वै प्रवदन्ति पुत्रं; पितामहस्योत्तमबुद्धियुक्तम्
वसिष्ठमग्र्यं तपसो निधानं; यश्चापि सूर्यं व्यतिरिच्य भाति

१२.३३७.५३तस्यान्वये चापि ततो महर्षिः; पराशरो नाम महाप्रभावः
पिता स ते वेदनिधिर्वरिष्ठो; महातपा वै तपसो निवासः
कानीनगर्भः पितृकन्यकायां; तस्मादृषेस्त्वं भविता च पुत्रः

१२.३३७.५४भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः
ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः

१२.३३७.५५तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान्

१२.३३७.५६अनादिनिधनं लोके चक्रहस्तं च मां मुने
अनुध्यानान्मम मुने नैतद्वचनमन्यथा

१२.३३७.५७शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान्
तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः
त्वमेव भविता वत्स मत्प्रसादान्न संशयः

१२.३३७.५८व्यास उवाच

१२.३३७.५९एवं सारस्वतमृषिमपान्तरतमं तदा
उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत्

१२.३३७.६०सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः
अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः
पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः

१२.३३७.६१तदेतत्कथितं जन्म मया पूर्वकमात्मनः
नारायणप्रसादेन तथा नारायणांशजम्

१२.३३७.६२मया हि सुमहत्तप्तं तपः परमदारुणम्
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना

१२.३३७.६३एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया

१२.३३७.६४वैशंपायन उवाच

१२.३३७.६५एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु

१२.३३७.६६सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै

१२.३३७.६७सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः

१२.३३७.६८अपान्तरतमाश्चैव वेदाचार्यः स उच्यते
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन

१२.३३७.६९उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः

१२.३३७.७०पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान्स्वयम्
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते

१२.३३७.७१यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः
न चैनमेवं जानन्ति तमोभूता विशां पते

१२.३३७.७२तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः
निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः

१२.३३७.७३निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः
ससंशयान्हेतुबलान्नाध्यावसति माधवः

१२.३३७.७४पञ्चरात्रविदो ये तु यथाक्रमपरा नृप
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै

१२.३३७.७५सांख्यं च योगं च सनातने द्वे; वेदाश्च सर्वे निखिलेन राजन्
सर्वैः समस्तैरृषिभिर्निरुक्तो; नारायणो विश्वमिदं पुराणम्

१२.३३७.७६शुभाशुभं कर्म समीरितं य;त्प्रवर्तते सर्वलोकेषु किंचित्
तस्मादृषेस्तद्भवतीति विद्या;द्दिव्यन्तरिक्षे भुवि चाप्सु चापि