१२. शान्तिपर्व
१२.३४८.१नाग उवाच

१२.३४८.२अथ ब्राह्मणरूपेण कं तं समनुपश्यसि
मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते

१२.३४८.३को हि मां मानुषः शक्तो द्रष्टुकामो यशस्विनि
संदर्शनरुचिर्वाक्यमाज्ञापूर्वं वदिष्यति

१२.३४८.४सुरासुरगणानां च देवर्षीणां च भामिनि
ननु नागा महावीर्याः सौरसेयास्तरस्विनः

१२.३४८.५वन्दनीयाश्च वरदा वयमप्यनुयायिनः
मनुष्याणां विशेषेण धनाध्यक्षा इति श्रुतिः

१२.३४८.६नागभार्योवाच

१२.३४८.७आर्जवेनाभिजानामि नासौ देवोऽनिलाशन
एकं त्वस्य विजानामि भक्तिमानतिरोषणः

१२.३४८.८स हि कार्यान्तराकाङ्क्षी जलेप्सुः स्तोकको यथा
वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति

१२.३४८.९न हि त्वा दैवतं किंचिद्विविग्नं प्रतिपालयेत्
तुल्ये ह्यभिजने जातो न कश्चित्पर्युपासते

१२.३४८.१०तद्रोषं सहजं त्यक्त्वा त्वमेनं द्रष्टुमर्हसि
आशाछेदेन तस्याद्य नात्मानं दग्धुमर्हसि

१२.३४८.११आशया त्वभिपन्नानामकृत्वाश्रुप्रमार्जनम्
राजा वा राजपुत्रो वा भ्रूणहत्यैव युज्यते

१२.३४८.१२मौनाज्ज्ञानफलावाप्तिर्दानेन च यशो महत्
वाग्मित्वं सत्यवाक्येन परत्र च महीयते

१२.३४८.१३भूमिप्रदानेन गतिं लभत्याश्रमसंमिताम्
नष्टस्यार्थस्य संप्राप्तिं कृत्वा फलमुपाश्नुते

१२.३४८.१४अभिप्रेतामसंक्लिष्टां कृत्वाकामवतीं क्रियाम्
न याति निरयं कश्चिदिति धर्मविदो विदुः

१२.३४८.१५नाग उवाच

१२.३४८.१६अभिमानेन मानो मे जातिदोषेण वै महान्
रोषः संकल्पजः साध्वि दग्धो वाचाग्निना त्वया

१२.३४८.१७न च रोषादहं साध्वि पश्येयमधिकं तमः
यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः

१२.३४८.१८दोषस्य हि वशं गत्वा दशग्रीवः प्रतापवान्
तथा शक्रप्रतिस्पर्धी हतो रामेण संयुगे

१२.३४८.१९अन्तःपुरगतं वत्सं श्रुत्वा रामेण निर्हृतम्
धर्षणाद्रोषसंविग्नाः कार्तवीर्यसुता हताः

१२.३४८.२०जामदग्न्येन रामेण सहस्रनयनोपमः
संयुगे निहतो रोषात्कार्तवीर्यो महाबलः

१२.३४८.२१तदेष तपसां शत्रुः श्रेयसश्च निपातनः
निगृहीतो मया रोषः श्रुत्वैव वचनं तव

१२.३४८.२२आत्मानं च विशेषेण प्रशंसाम्यनपायिनि
यस्य मे त्वं विशालाक्षि भार्या सर्वगुणान्विता

१२.३४८.२३एष तत्रैव गच्छामि यत्र तिष्ठत्यसौ द्विजः
सर्वथा चोक्तवान्वाक्यं नाकृतार्थः प्रयास्यति